Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 30

Prakāśa 30: वैधर्म्यतो-मानप्रकाशः

प्रकाशः 30 • वैधर्म्यतो-मानप्रकाशः

Prakāśa 30 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1822 Verses • Citations: SP 30.1–1822 • 4 Lexicon Terms • Page 60 of 61 (Verses 30 shown)
(प्रतिपक्षस्यापि पुरतः सम्मुखं भणितासि तेन प्रसीदेति।
अवलम्बितस्य मानिनि! मानस्यापि किं फलमन्यत्॥)
तीए सविसेसदूमिअसवत्तिहिअआएँ णिव्वलंत—सिणेहं।
पिअगरुइआअ णिमिअं सोहग्गगुणाण अग्गभूमीएँ पअं॥ ३९८॥
(तया सविशेषदूनसपत्‍नीहृदयया निर्बलस्‍नेहम्।
प्रियगुरूकृतया न्यस्तं सौभाग्यगुणानामग्रभूमौ पदम्॥)
क्षुतैः क्‍वापि प्रीतिः क्‍वचिदपि निमित्तैः पुलकिता (क्‍वचिन्मिथ्यावादैर)मितपरितापो विकसितः।
प्रसादार्थं मुग्धे तव विगतलज्जोऽनृतशते— ष्वभिज्ञो दैवज्ञं जनमपि च ते पृच्छति पतिः॥ ३९९॥
१०. बन्धुबहुमानो यथा—(सूमु. २०५)
चक्षुर्लुप्‍तमषीकणं कबलितस्ताम्बूलरागोऽधरे विश्रान्ता कबरी कपोलफलके लुप्‍तेव गात्रद्युतिः।
मन्ये मानिनि! साम्प्रतं प्रणयिना कैरप्युपायक्रमै— र्भग्‍नो मानतरुस्तथापि फलितश्चेतस्थलीवर्धितः॥ ४००॥
दार-ट्ठविअ-सुर-दुमं तं चिअ कुसुमोवआरग्घविअं।
अण्णं च सच्‍चविज्जइ परिओस-परित्त-परिअणं तीएॅ घरं॥ ४०१॥
(द्वारस्थापितसुरद्रुमं तदेव कुसुमोपहारार्घितम्।
अन्यच्‍च संवीक्ष्यते परितोषपरीतपरिजनं तस्या गृहम्॥)
पणअपरिपूरणेण अविरअभूसिअपिअअमागमेण अ गरुओ।
पसरइ लद्धत्थामो अण्णण्णरसंतरेहिं तीए पहरिसो॥ ४०२॥
(प्रणयपरिपूरणेनाविरतभूषित—प्रियतमानमेन च गुरुकः।
प्रसरति लब्धस्थामाऽन्यान्यरसान्तरैस्तस्याः प्रहर्षः॥)
एवमेते त्रयो मानास्रयश्च तदुपाधयः।
जातयश्च विशेषाश्च प्रकीर्णानां च भक्तयः॥ ४०३॥
अवस्थावैकृतोपायमिषज्जितविभक्तिकैः।
कर्म सानुनयैः षोढा नायकस्य समासतः॥ ४०४॥
नायिकायाश्च मर्यादाप्रक्रमप्रतिभेदनैः।
प्रियप्रियवयस्यानामुपालम्भैर्विमर्शनैः॥ ४०५॥
सखीदूत्योः समाश्वासैः परिहासैः प्रवर्तनैः।
← Previous (Ch. 29) Full Table of Contents Next (Ch. 31) →