Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 30

Prakāśa 30: वैधर्म्यतो-मानप्रकाशः

प्रकाशः 30 • वैधर्म्यतो-मानप्रकाशः

Prakāśa 30 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1822 Verses • Citations: SP 30.1–1822 • 4 Lexicon Terms • Page 31 of 61 (Verses 30 shown)
अल्ला अणुणअणीओ ॰ ॰ ॰ ॰॥ २०३॥ (?)
प्रारब्धेऽनुनये पुनर्द्विगुणिते मन्यौ सखीनर्मणा प्रत्यापत्तिसमुत्सुके प्रियतमे पादानते तिष्‍ठति।
मन्यूत्पीडकृतागसाश्रुकलुषामुत्तानयन्त्या दृशं मानिन्या क्षतमानलाघवभयादन्तर्द्विधैवास्यते॥ २०४॥
विलीनो विस्रम्भस्सपदि तदपि प्रेम गलितं च्युताश्चित्राकाराः प्रणयसुभगास्ता अपि गिरः।
प्रियस्यैवं तत्तद् विनयबहिरङ्गव्यवसितं किमन्यद् दुःखानां हृदय! नगरीचत्वरमसि॥ २०५॥
९. सिद्धिविमर्शो यथा—(अमरु. ९७)
भ्रूभेदो रचितश्चिरं नयनयोरभ्यस्तमामीलनं रोद्‍धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः।
धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथञ्चिन्मया बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता॥ २०६॥
१०. असिद्धिविमर्शो यथा—(गास. ४.७४)
णिद्‌दाभंगो आवंडुरत्तणं दीहरा अ णीसासा।
जाअंति जस्स विरहे तेण समं कीरिसो माणो॥ २०७॥
(निद्राभ्ङ्ग आपाण्डुरत्वं दीर्घाश्च निःश्वासाः।
जायन्ते यस्य विरहे तेन समं कीदृशो मानः॥)
मानवत्याः प्रियमुद्दिश्य स्वपरप्रवृत्तिगर्हणमुपालम्भः।
स षोढा आत्मविषयः, प्रियविषयः, आत्माश्रितविषयः, (प्रियाश्रितविषयः), उभयाश्रितविषयः, अनुभयाश्रितविषयश्चेति। तेषु—
अण्णत्तिहि ॰ ॰ ॰ तुह वामो ॰ ॰ ॰ (?)॥ २०८॥
अवहत्थिऊण सहिअम्पिआइं जाणं कएण रमिओ सि।
एआइँ ताइँ सोक्खाइँ संसओ जेहि जीअस्स॥ २०९॥
(अपहस्तयित्वा सखीजल्पितानि येषां कृते न रमितोऽसि।
एतानि तानि सौख्यानि संशयो यैर्जीवस्य॥)
सहिअं माणक्खलणं णाओ पडिवक्खविप्पिअत्थाणरसो।
सहिओ अ तुह विओओ मा लज्जसु सुहअ लज्जिअव्वम्मि मए॥ २१०॥
(सोढं मानस्खलनं ज्ञातः प्रतिपक्षविप्रियस्थानरसः।
सोढश्च तव वियोगो मा लज्जस्व सुभग लज्जितव्यमपि मया॥)
← Previous (Ch. 29) Full Table of Contents Next (Ch. 31) →