Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 30

Prakāśa 30: वैधर्म्यतो-मानप्रकाशः

प्रकाशः 30 • वैधर्म्यतो-मानप्रकाशः

Prakāśa 30 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1822 Verses • Citations: SP 30.1–1822 • 4 Lexicon Terms • Page 18 of 61 (Verses 30 shown)
अपरवनितासङ्गाल्लग्नं विलोक्य विलेपनं कुवलयदृशः कोपः कान्ते पुनर्नवतां गतः॥ ११२॥
२४. सद्यः समुपजायमानो नवः, स यथा—
भवतु विदितं व्यर्थालापैरलं प्रिय! गम्यतां, तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः।
तव यदि तथारूढं प्रेम प्रपन्नमिमां दशां प्रकृतितरले का नः पीडा गते हतजीविते॥ ११३॥
अथैतेष्वेव विशयाश्रयालम्बनप्रकीर्णकानि चतुर्विंशतिः। तत्र
१. विषयप्रकीर्णकेषु स्वपतिविषयो यथा—
प्रवृत्तैव प्रयामीति वाणी वल्लभ! ते मुखात्।
अयातापि त्वयेदानीं मन्दप्रेम्णा करोमि किम्॥ ११४॥
२. उपपतिविषयो यथा—(गास. ५.४५)
अकअण्णुअ तुज्झ कए पाउसराईसु जं मए खुण्णं।
उप्पेक्खामि अलज्जिर अज्ज वि तं गामचिक्खिल्लं॥ ११५॥
(अकृतज्ञ तव कृते प्रावृड्‍रात्रिषु यो मया क्षुण्णः।
उत्पश्याम्यलज्जाशील! अद्यापि तं ग्रामपङ्कम्॥)
सहि ताव अच्छउ च्चिअ अलाहि किं बाहुएण लेहेण।
एआरिसं लिहंताण एंति पहिआ विएसाओ॥ ११६॥
(सखि तावदास्तामेव, अलं किं बहुकेन लेखेन।
एताद्‍ृशं लिखतां यन्ति पथिका विदेशात्॥)
४. समागमविषयो यथा—(गास. ८४९वे.)
कंठग्गहणेण सअज्झिआएँ अब्भागओवआरेण।
बहुआए पिअम्मि वि आगअम्मि सामं मुहं जाअं॥ ११७॥
(कण्ठग्रहणेन सैरन्ध्रिकाया अभ्यागतोपचारेण।
वध्वाः प्रियेऽप्यागते श्यामं मुखं जातम्॥)
५. कलहान्तरिताविषयो यथा—(गास. ५.२०)
अह सो विलक्खहिअओ मए अहव्वाए अगहिआणुणओ।
पर-वज्ज-णच्चरीहिं तुह्मेहिं उवेक्खिओ णेंतो॥ ११८॥
(अथ स विलक्षहृदयो मया अभव्यया अगृहीतानुनयः।
पर-वाद्य-नर्तनशीलाभिर्युष्माभिरुपेक्षितो निर्यन्॥)
६. खण्डिताविषयो यथा—(गास. ९३७वे.)
← Previous (Ch. 29) Full Table of Contents Next (Ch. 31) →