चुंबसु सहस्सउत्तं मुहमिणमो हारिअँ मए जूए।
माणो उण मुच्चइ सामलं कह माणइत्तीए॥ ३१६॥
(चुम्ब सहस्रकृत्वो मुखमिदं हारितं मया द्यूते।
मानः पुनर्मुच्यते श्यामलाङ्ग कथं मानवत्या॥)*
६. विद्रुतो यथा—(माघ. १०.६३)
ग्रन्थिमुद्ग्रथयितुं हृदयेशे वाससः स्पृशति मानधनायाः।
भ्रूयुगेन सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः॥ ३१७॥
यथा वा—(गास. ७७९वे.)
कारणगहिओ वि मए माणो एमेअ जं समोसरिओ।
अत्थक्कपुल्लिअंकोल्ल तुज्झ तं मत्थए पडउ॥ ३१८॥
(कारणगृहीतोऽपि मया मान एवमेव यत् समवसृतः।
अकाण्डपुष्पिताङ्कोल! तव मस्तके पततु॥)
(१८. मानोत्पत्तिप्रकीर्णानि —११)
अथ मानोत्पत्तिप्रकीर्णकानि। तत्र मानवत्याः स्वहृदयसखीप्रियतमादिषु वैमनस्यात् प्रकीर्णकानि। तत्र —
१. स्वहृदये शङ्कायां यथा—(गास. ३.२)
अप्पच्छंद—पहाविर दुल्लहलम्भं जणं विमग्गंत।
आआसपहेहिं भमंत हिअअ कइआ वि भज्जिहिसि॥ ३१९॥
NOTES pg=1378! *अतः परं उपद्रुतः नोपलभ्यते।
(आत्मच्छन्द—प्रधावनशील दुर्लभलम्भं जनमपि विमार्गयत्।
आकाशपथैर्भ्रमद्हृदय कदापि भङ्क्ष्यसे॥)
२. विप्रियप्रवृत्तौ यथा—
सहिअं गोत्तक्खलणं दिट्ठो अ पिओ अहिण्णमुहराओ।
एण्हिं वित्तवि (पिज्जइ) वाहोवाहिव्व पडिअ॥ ३२०॥
(सोढं गोत्रस्खलनं दृष्टश्च प्रियोऽभिन्नमुखरागः।
इदानीं पीयते तया बाष्पोदधिरिव पथिक॥)
३. ॰ ॰ ॰ ह्यप्रवृत्तौ यथा—
विलीनो विस्रम्भः सपदि तदपि प्रेम गलितं च्युताश्चित्राकाराः प्रणयसुभगास्ता अपि गिरः।
प्रियस्यैवं तत्तद्विनयबहिरङ्गव्यवसितं किमन्यद् दुःशानां हृदय नगरीचत्वरमसि॥ ३२१॥
४. सख्या दयितदोषाख्याने यथा—(अमरु. ९४)
इदं कृष्णं कृष्णं प्रियतम ननु श्वेतमधिकं गमिष्यामो यामो भवतु गमनेनापि भवतु।