Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 02

Prakāśa 2: प्रातिपदिकप्रकाशः

प्रकाशः 2 • प्रातिपदिकप्रकाशः

Prakāśa 2 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1013 Verses • Citations: SP 2.1–1013 • 4 Lexicon Terms • Page 2 of 34 (Verses 30 shown)
'नागरकवृत्तं वर्त्तेत, विश्‍वजिता यजेते'—त्यादौ सामान्यविशेषयोरनैकात्मयेन व्याप्त्यवच्छेदयोरूपलम्भात् समान्यपुषेरेवाऽवयवपुषिः कर्म भवति। न च क्रियाविशेषणानां कर्मतैवेति नियमः; क्रिया हि यथा साध्यायमानत्वात् कर्म, तथोत्पद्यमानत्वात् कर्त्र्यपि भवति। ततश्‍चोभयथाऽपि क्रियाविशेषणानियोज्यन्तेरैपोषं कृत्वा पुष्यति, रैपोषं यथा भवत्येवं पुष्यतीति।
सिद्ध एव साध्यधर्मयोगी सिद्धसाध्यः। यथा— आश्‍चर्ये गवां दोहोऽशिक्षितेनाऽगेपालेन, सधु खलु पयसः पानं यज्ञदत्तेन, विचित्रा हि सूत्रस्य कृतिः पाणिनिना इति। अत्र उभयप्राप्तौ कर्मण्येव षष्ठीति (३.२.८) कर्त्तरि तृतीयाम्नानात् सिद्धोऽप्ययं विवक्षातः सध्योऽपि भवतीति ज्ञायते।
अन्ये त्वन्यथा सिद्धसाध्यं वर्णयन्ति—उष्ट्रासिकामास्ते, पञ्च वारान् भुङ्क्ते पञ्च प्रयोगन् पचति इति। तत्रोष्ट्रासिकावारप्रयोगाणां क्रियाविशेषावृत्त्यनुष्ठान— रुपत्वेनापृथग्भावात् क्रियाभिख्याप्य़ानां द्वितीयादर्शनादभेदविवक्षातः सिद्धानामपि क्रियावदेव साध्यत्वमवगम्यते। तदाह—
तत्स्वभावविशेषत्वाद् व्याप्या नोष्ट्रासिकाऽनया। साध्यत्वे त्वासनैकात्म्यात् फलतः कर्म कथ्यते ॥२॥
सोऽयमित्यभिसंबन्धादभेदे धर्मधर्मिणोः। क्रियाया इव साध्यत्वं वारादीनां न दुष्यति ॥३॥
तेन उष्ट्रासिकामास्त इत्यादीनामयमर्ये भवति— 'उष्ट्रवदास्ते, पञ्चावृत्तिं भुजिक्रियां करोति, पञ्च पाकान्निर्वर्तयति' इति।
सध्य एव सिद्धधर्मयोगी सध्यसिद्धः। यथा— कर्त्तव्यं भवतः, कार्यं भवतः, कृतं भवत इति। अत्र 'न लोकाव्ययनिष्ठाखलर्थतृनाम्' (२.३.६९) इति लादीनां साध्यार्थाभिधायित्वात् कर्तृकर्मणोः षष्ठीनिषेधे, 'कृत्यानां कर्त्तरि वा' (२.३.७१), 'क्तस्य च वर्त्तमाने' (२.३६७), 'नपुसके भावे क्त उपसंख्यानम्' (२.३६७ वार्त्तिक), इत्यादिभिः पुनः षष्ठीविधानात् पक्षे विवश्क्षातः सिद्धार्थाभिधायित्वमवगम्यत इत्येतदुक्त्तो भावः सध्यसिद्धो भवति। न चाऽत्र कृत्यानां निषेधो न श्रूयते, यतः— 'खलर्थतृनाम्' इत्यत्र खलर्थेत्यनेन कृत्य—क्त—खलर्थाः शतृ—शनच्चानशश्‍च संगृह्यन्ते; तृन्नित्यनेन पुनस्तृन्नेवेति। अत एव निष्ठादिभावस्येव कृत्यभावस्य कर्मण्यपि षष्ठी न भवति। यथा—
गतमस्तं यथाऽर्केण यथाऽभ्युदितमिन्दुना। तथा मानेन शैथिल्यमागन्तव्यं मृगीदृशः ॥४॥
कथं पुनः सकर्मकाद् भावप्रत्ययः?
तेन ह्यकर्मकाद् भवितव्यम्; यदाह 'लः कर्मणि च भावे चाऽकर्मकेभ्यः' (३.४. ६९), 'तयोरेव कृत्य—क्त—खलर्थाः' (३.४.७०); न हि भवति कृतं कटं देवदत्तेनेति।
उच्यते— नैतदन्तरङ्गं द्रव्यकर्म, अपितु 'कालाध्वभावगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्' (मभा. १४.५१) इति बहिरङ्गेषु कालादिकर्मसु गन्तव्यलक्षणं गत्यर्थकर्म; बहिरङ्गता च 'कालाध्वनोरत्यन्तसंयोगे' (२.३.५) इत्यनेन द्वितीयाविधानेन, भावस्य च कालादभेदेन, गन्तव्यस्य तु 'गत्यर्थकर्मणि द्वितीयाचतुर्थ्यै—(२.३.१२) इति पुनर्द्वितीयाग्रहणेन ज्ञायते; अन्यथा हि कर्मणि द्वितीयायाः सिद्धत्वात् गत्यर्थकर्मणि चतुर्थी चेत्येव ब्रूयात्।
यस्यैव च द्रव्यकर्मणोरन्तरङ्गस्याभावेनाकर्मकः तस्यैव भावेन सकर्मको भवति अतो विद्यमानमपि कालादिकर्म नाकर्मकव्यपदेशं विघ्नयति।
अन्ये त्वन्यथा साध्यसिद्धं वर्णयन्ति— 'उष्ट्रासिका आस्यन्ते' हतशायिकाः शय्यन्ते, यवाग्वाः पाकाय व्रजति इति। अत्र आसिकाशायिकयोगख्याताभिहित— क्रियात्मकत्वात् पाकस्य व्रज्ञिक्रियासाध्यत्वात्, सत्यपि साध्यत्वे लिङ्ग संख्यासम्बन्धि विभक्तियोगाद् विवक्षातः सिद्धत्वमपि गम्यत इत्ययं साध्यसिद्धो भवति। तथापि 'उष्ट्रासिका आस्यन्ते, हतशदिकाः शय्यन्त' इत्यमूभ्यां सामान्यविशेषोपचरित रूपो भावात्मैव प्रत्याय्यते। स आख्याताभ्यां सामान्यरूपेण, ण्वुलन्ताभ्यां विशोषरूपेण। बहुवचनं तु कुत्सातिशयार्थम्; या हि नाम उष्ट्रस्य कुय्सावत्यो बहुप्रकारजुषो बह्व्य आसिका; याश्‍च हतानामतिशयवत्यस्तथाभूता एव भूयस्यः शायिकाः प्रतीताः, ताभिर्विशेषरूपाभिरियमासिका शायिका चोपमानोपमेयसम्बन्धजनितभेदाऽभेद— परिग्रहाल्लकारेणापि सामान्यविशेषभावेन कुत्सातिशयार्थं बहुत्वेनैव प्रत्याय्यते, बहुत्वेन विना सामान्यविशेषभावानुपपत्तेः, तेनोष्ट्रासिका इवासनानि, हतशाविका इव शयनानि क्रियन्ते भवन्तीति वा वाक्यार्थो भवति।
नन्वेवमुष्ट्रासिकादीनां वारप्रयोगादानाञ्च कर्मतेव नपुंसकतापि प्राप्नोति; यथा— 'मृदु पचति, प्रशस्तं पचतीति। उच्यते—
त्रिधा खल क्रियाविशेषणं भवति —
१. बाह्यम्, २. आभ्यन्तरम् ३. बाह्याभ्यन्तरं च। तत्र— बाह्यं धर्मरूपं वारादि; आभ्यन्तरं विशेषरूपमुष्ट्रासिकादि, बाह्याभ्यन्तरं गुणरूपं मृद्‌वादि। तेषु—
बाह्यम् 'सोऽयमित्यभिसम्बन्धाद्', अभेदोपचारेणाविचलितस्वरूपमेव प्रधानं विशिंषत् कथमिव स्वलिङ्गं जह्यात्?
आभ्यन्तरं तु विशेषांशपरिग्रहादाविष्टलिङ्गसंख्यं कथमिवान्यलिङ्गं गृह्‍णीयात्?
बाह्याभ्यन्तरं तु गुणत्वात् स्वलिङ्गविरहे 'गुणवचनानामाश्रयतो लिङ्गवचनानी'—ति विशेष्यलिङ्गग्राह्येव भवति; तत्र साध्यैकस्वभावत्वादलिङ्गसंख्यायाः क्रियाया विशेषणत्वे मृद्‌वादीनां नपुंसकत्वमेव न्याय्यम्। उष्ट्रासिका—वारादीनां तु नित्यमाविष्टलिङ्गत्वाद् विशेषांक शपरिग्रहात् क्रियाविशेषणत्वेऽपि न नपुंसकलिङ्गता।
अथ 'पाकाय व्रजति, एधेभ्यो व्रजति' इति क्रियाया रन्धनाय स्थालीतिवत् तादर्थ्यचतुर्थ्यन्तः सिद्ध एव कस्मान्न विज्ञायते ? नैवम्, 'भाववचनाश्‍च' (३.३.११) इति तादर्थ्य एव प्रत्ययोत्पत्तेः, 'तुमर्थाच्च भाववचनात्' (२.३.१५) इति स्वार्थ एव चतुर्थीविधानात्। किमर्थं पुनरिदम्?
भावेहि घञादयः सिद्धा एव, तादर्थ्ये चतुर्थी। क्रियार्थोपपदेन तुमुनाऽस्मिन् विषये घञादयो मा बाधिषतः; वासरूपविधिश्‍चाऽत्र 'तुमुन्‌ण्वुलौ' (३.३.१०) इति ण्वुल्ग्रहणान्नावतरति।
अथ यथैधानाहर्त्तुं व्रजति एधेभ्यो व्रजतीति क्रियार्थोपपदस्य च कर्मणि स्थानिनः (२.३.१४) इति चतुर्थी, तथा पाकं कर्त्तुं व्रजति पाकाय व्रजतीति यदि भवेत् को दोषः स्यात्? न कश्‍चित्। किं त्वेतत् पृच्छामि — स पाकः सिद्धः साध्यो वा ? यदि सिद्धः किं कर्त्तुं व्रजति ? अथ साध्यः क्रियार्थोपपदेषु तुमुना घञादयो बाध्यन्ते।
अथ तुमर्थत्वेन साध्याभिधायिनश्‍चतुर्थ्यन्तत्वेन चासत्त्वभूतार्थाः पाकायेत्यादिषु घञादयः, कथं यवाग्वा इत्यादेः संबन्धविभक्‍तेर्निमित्तं भवति ?
शब्दशक्तिरेषा यत् कस्यचिदेव केनचित् केनचिदेव कस्यचित् सम्बन्धः। तद्‌यथा अभिन्नेऽप्यर्थे 'प्रजागरिताऽपररात्रानि'—ति तृनो बाह्य कर्मोपसर्गकर्मयोगाज् ज्ञायते 'न जागरूक इति' उक्तस्य; 'ऊरीकरोति पाकादिकमि'—त्यूर्यादीना मेकानेक विशेषस्थया करोतिक्रियया भवति संबन्धः, न तदर्थविषयैः पचादिभिः, सूर्यमपि न पश्यन्त्यसूर्यंपश्या राजदारा इति व्यवहितामपि सूर्यकर्मिकां दृशिक्रियां नञ् निषेधति, न सूर्यसत्ताम्; एवं न पुनर्गीयन्ते अपुनर्गेयाः श्‍लोकाः, श्राद्धं न भुङ्क्ते अश्राद्धभोजी ब्राह्मण इति, तथा लवणं न भुङ्क्ते अलवणभोजी भिक्षुः इत्यसूर्यंपश्यादिवदसामर्थ्येऽपि नञ्समासो दृश्यते;न त्वकिञ्चित्कुर्वाण इति, एवम् 'अमाषं हरमाणः, अगाधादुत्सृप्त' इति।
अपि च 'पयः पायं पायं', पयः पीत्वा पीत्वा, ग्रहमनु प्रवेशमनु प्रवेशम्, गेहमनुप्रविश्यानुप्रविश्य इत्याभीक्ष्ण्यवीप्सयोः पदद्विर्वचनं प्रयोजयन्ति णमुलादयः, न पाच्यते द्विशो देहीति यङ्शसादयः लोलूयत इति द्विर्वचनमन्तरेणापि क्रियासमभिहारमवगमयति यङन्तम् न लुनीहि लुनीहीति लोडन्तम्; कृतपूर्वी कटम्, अधीती व्याकरणम् इति वृत्तिवशेनोज्झितकर्माभिधानशक्‍तयः कर्मविभक्तिं न विघ्नयन्ति निष्ठादयः; ग्रामं गन्तुमनाः, कटं कर्त्तुकाम इति निवृत्तिच्छिन्ना अपि कर्मणि द्वितीया मेव प्रयोजयन्ति तुमुनादयः उभयप्राप्तौ कर्मण्येवेति नियमेऽपि विचित्रा सूत्रस्य कृतिः पाणिनेः इति शब्दानामनुशासनमाचार्यस्य इति समासस्य कर्त्तरि सम्बन्धविभक्तिमप्यु पाददते क्तिनादयः, साध्यार्थाभिधायिनोऽसत्त्वभूतार्था अपि यवाग्वाः पाकायेति कर्मणि सम्बन्धविभक्त्येव संबध्यन्ते घञादयः इति तदुक्तभावः साध्यसिद्धो भवति। (इति भावविमर्शः। अथ कारकविमर्शः।
(ख. कारकाभिधायिनो धातुप्रत्ययाः)
क्रियानिमित्तं कारकम्। तदपि षोढा —
१. कर्त्ता, २. कर्म, ३. करणम्, ४. संप्रदानम्, ५. अपादानम्, ६. अधिकरणं चेति। तत्र—
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →