कृत्तत्संयोगं योगि चाभिन्नरूपं वाच्यं वाच्येषु त्वादयो बोधयन्ति ॥ ५ ॥
(वाप. ५, ५.१.११९)
ततः स षोढाऽभिव्यज्यते १. जातिः, २. गुणः, ३. स्वरूपम्, ४. संबन्धः, ५. संहतिः, ६. अभिन्नरूपमिति। तेषु—
जातिर्यथा— गोत्वम्, शुक्लत्वम्, मानुष्यकम्, स्त्रैणम्, पौंस्नम्, ब्राह्मण्यम् इति।
गुणो यथा— शुक्लत्वम्, शीघ्रता, म्रदिमा, माधुर्यम्, आर्जवम्, वैदग्ध्यमिति।
स्वरूपं यथा— डित्थत्वम्, आकाशत्वम्, चन्द्रत्वम्, सूर्यत्वम्, दिक्त्वम्, तदात्वमिति।
संबन्धो यथा— पाचकत्वम्, काण्डलावत्वम्, दण्डित्वम्, औपगवत्वम्, राजपुरुषत्वम्, पुरुषव्याघ्रत्वम् इति।
संहतिर्यथा— धवरवदिरत्वम्, नरसिंहत्वम्, शुक्लकृष्णत्वम्, कृष्णशारत्वम्, नीलोत्पलत्वम्, गौरखदिरत्वम् इति।
अभिन्नरूपं यथा— सत्त्वम्, विद्यमानत्वम्, गर्गत्वम्, पञ्चालत्वम्, पदार्थत्वम्, पङ्कजत्वम् इति।
ननु च
जातिगुणाज्जातिगुणे धवखदिरादौ स्वजातिसंघाते।
डित्थादौ च स्व (स्वे) रूपे कृत्तत्संयोगे तु संबन्धे ॥ ६ ॥
(दौ च स्व = दौ स्वे'—इति तूत्प्रेक्ष्येत)
त्वादय इति स्मृतिः।
कथमभिन्नरूपादावपि भवति ?
उच्यते— कृत्तद्धितसमासेषु सम्बन्धाभिधानम्, अन्यत्र रूढ्यभिन्नरूपाऽव्यभिचरित— संबन्धेभ्यः। अत एवोक्तम् 'कृत् तत्संयोगं योगि चाभिन्नरूपम्' इति ॥
अवधेरपि वाच्यत्वं त्वादीनामिष्यते बुधैः।
गोत्वाद्धि गौरितिज्ञानमभिधानं च जायते ॥ ७ ॥
ते ह्येवमाहुः 'तस्य भावस्त्वतलौ' (५.१.११९), भवतोऽस्मादभिधानप्रत्ययाविति भावः।
तदसत्, न हि गोत्वं गौरिति ज्ञानस्योत्पत्तावपादानतां जनयत् 'जनिकर्त्तुः प्रकृतिः' (१.४.३०), 'भुवः प्रभवो' (१.४.३१) वा भवति; यथा— शृङ्गाच्छरो जायते, हिमवतो गङ्गा प्रभवतीति। ज्ञानं त्वात्मन एव जायते, मनसैवोद्भवति। तदाह— 'व्यापकत्वादप्यात्मनो युगपज्ज्ञानानुत्पत्तिर्मनसो (ऽणुत्वस्य) लिङ्गम्, नाहमद्राक्षम्, नाहमश्रौषम्, नाहमज्ञासिषम्, अन्यत्र मे मनोऽभूदिति। निमित्तत्वं तु गौरिति ज्ञानोत्पत्तौ शब्दस्येव गोत्वादेरपीष्यत एव। तत्र यथा समवायिनः श्वैत्यात् श्वैत्यबुद्धेः श्वेते श्वैत्यबुद्धिः, तथा समवायिनो गोत्वाद् गोबुद्धेर्गवि गोत्वबुद्धिः, ते परस्परं कारणभूता इति।
अभिधानं तु शब्दः। स च येनोच्चारितेनार्थः प्रतीयते। तस्यापि न गोत्वमवधिर्भवति। शब्दो हि आकाशादेव जायते, मुखादेव प्रभवति, न गोत्वादेः। तदाहुः 'मुखे हि शब्दमुपलभामहे भूमावर्थम्' (शाबरभाष्यम् १.१.५) इति। यदापि नित्यः शब्द इति मतं तदापि शब्दस्य गोत्वादयो वाच्या विशेष्याः प्रत्याय्या एव भवन्ति। तत्र च शब्दस्य गोत्वादीनां वाच्यत्वे विशेष्यत्वे वा कर्मतैव, नावधित्वम्। प्रत्याय्यत्वे तु विपरिणामविपरिवर्त्तपक्षयोर्वक्ष्यमाणन्यायेन प्रत्युत शब्दस्यैवाऽवधित्वम्। अध्यासस्तु सादृश्यादुपाधेरुपाधिसादृश्याभ्यां वा संभवति; यथा— शुक्तिकादौ रजतादेः, स्फटिकादौ रक्तादेः, प्रतिबिम्बादौ मुखादेरिति। तत्र यो यदध्यास्यते, यो यदध्यास्ते वा, स तस्याधिकरणं कर्म वा स्यान्न त्ववधिः; गोत्वं निमित्तमुपादाय गोशब्दो गामध्यास्ते गवि वाऽध्यास्यते। तदिष्यत एव 'यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः तदभिधाने त्वतलौ' इति ॥
(बहिरङ्गः) धात्वर्थरूपः कृदभिधेयो बहिरङ्गः। सोऽपि षोढा— १. भावरूपः, २. कारकरूपः, ३. संबन्धिरूपः, ४. भावविशिष्टः, ५. कारकविशिष्टः, ६. संबन्धिविशिष्टश्चेति। तत्र —
(१. भावरूपः)
प्रवृत्तिनिमित्ततुल्यो भावरूपः — ब्राह्मणस्य कर्म ब्राह्मण्यम्, पुरोहितस्य पौरोहित्यम्, स्तेनस्य स्तेयम्, सख्युः सख्यम्, दूतस्य दूत्यम्, वणिजो वाणिज्यमिति।
(२. कारकरूपः)
कारकैस्तुल्यकक्ष्यः कारकरूपः। यथा— राजानमर्हति राजवद् वृत्तम्। आप्रयोजनकालं भवति आकालिकी प्रवृत्तिः, श्येनस्येव पातोऽस्यां वर्त्तते श्यैनंपाता क्रियां, दण्डः प्रहरणमस्यां क्रीडायां दाण्डा, (४.२.५७) महिमास्त्यस्यां महिमिनी समस्या, वटकं प्रकृतमस्यां वटकमयी यात्रेति (मभा. ५.२.८२)।
(३. सम्बन्धिरूपः)
रूढे द्रव्यभूतः सम्बन्धिरूपः। यथा— चाषाणां समूहः चाषम्, नाट्यानामाम्नायो नाट्यम्, भृग्वङ्गिरसां विवाहो भृग्वङ्गिरसिका, काकोलूकस्य वैरं काकोलूकिका, अवीनां संघातोऽविकटः, तेषामेव विस्तारोऽविपटः इति।
(४. भावविशिष्टः)
अतर्कितोपनतचित्रीकरणादिसदृशो भावविशिष्टः। यथा— काकस्य चागमनं यादृच्छिकम्, तालस्य च पातः। तेन तालेन पतता काकस्य वधः। एवमेव देवदत्तस्य चागमनं दस्यूनां चोपनिपातः, तैश्च तस्य वधः। तत्र यो देवदत्तस्य दस्यूनां च समागमः स काकतालसमागम इवेत्येक उपमार्थः, यश्च देवदत्तवधः स काकवध इवेति द्वितीय उपमार्थः।