सार्थकं यथा— 'द्विःपचत्वित्याह' अग्नी इत्याह, पचतीत्याह। अत्र सार्थकत्वात् 'तिङ्ङतिङः (८.१.२८) इति निघातः,'ईदूदेद्द्विवचनं प्रगृह्यम् (१.१.११) इति प्रगृह्यत्वम्, तिङ्न्तत्वादप्रातिपादिककार्यत्वे सुबुत्पत्तिश्च न भवतीति।
१. 'गुलुगुधा पीडार्थे' १.४.६१ काशिका। २. कोष्ठकगता पङ्क्तिरस्माभिरुपकल्पिता याथापूर्व्यं प्रमाणीकृत्य। राघवः पुनरे वं (तत्र प्रथमं सार्थकं, निरर्थकं च)। अत्र याथापूर्व्यं नान्वापालीतिं विमृश्यम्।
निरर्थकं यथा— 'सुः पूजायाम्' (१.४.९४) 'अपिः पदार्थसंभावनान्ववसर्ग— गर्हासमुच्चयेषु' (१.४.९६) 'चः समुच्चये' (?)३। अत्रार्थस्यानुकरणात् स्वस्वरूपत्वाच्च प्रातिपदिकत्वे सुपः श्रवणं भवतीति।
(असाध्वनुकरणम्) द्वितीयम् अशक्तिजम् अपभ्रंशश्च।
तत्राशक्तिजं यथा— अहो ऋतक इति वक्तव्ये शक्तिवैकल्याद् 'अहो लृतक' इत्याह।
अपभ्रंशो यथा— 'हेरयो हेरय' इति वक्तव्ये असुरा 'हेलयो हेलय' इति वदन्तः पराबभूवुः।
(अव्यक्तानुकरणं) तृतीयम् निरुल्लेखं सोल्लेखं च। तयोः —
निरुल्लेखं यथा— पटत्पटदिति करोति पटपटायते।
सोल्लेखं यथा— तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्ददद इति। दाम्यत, दत्त, दयध्वमिति तदेतत्त्रयं शिक्षेद् दमं दानं दयामि'—ति ॥
(६. विभक्तिः)
प्रत्ययविशेष एव शक्ति—संख्या—विभागकृद् विभक्तिः। सा त्रिधा —
१. तिङ्विभक्तिः, २. सुब्विभक्तिः, ३. अव्ययविभक्तिश्च। तासु —
(१) तिङ्विभक्तिः षोढा —
१. परस्मैपदविभक्तिः, २. आत्मनेपदविभक्तिः, ३. सार्वधातुकविभक्तिः, ४. आर्धधातुकविभक्तिः, ५. व्यक्तकालविभक्तिः, ६. अव्यक्तकालविभक्तिश्च।
तासु—
परस्मैपदविभक्तिर्यथा पचति, पचतः, पचन्ति; आत्मनेपदविभक्तिर्यथा पच्यते, पच्येते, पच्यन्ते; सार्वधातुकविभक्तिर्यथा व्यपच्यत, व्यपच्येतां, व्यपच्यन्त; आर्धधातुकविभक्तिर्यथा पपाच, पक्ता, पक्षीष्ट; व्यक्तकालविभक्तिर्यथा अपाक्षीत्, अपचत्, पक्ष्यते; अव्यक्तकालविभक्तिर्यथा पचतु, पचेत्, अपक्ष्यत इति।
(२) सुब्वि भक्तिरपि षोढा —
१. कारकविभक्तिः, २. सम्बन्धविभक्तिः, ३. शेषविभक्तिः, ४. उपपदविभक्तिः, ५. प्रधानविभक्तिः, ६. संबोधनविभक्तिश्च। तासु —
३. नेदं सूत्रमिति राघवः।
कारकविभक्तिर्यथा कटं करोति, दात्रेण लुनाति, ब्राह्मणाय ददाति,
सम्बन्धविभक्तिर्यथा विद्यया यशः, यूयाय दारु गवां कृष्णा संपन्नक्षीरतमा इति
शेषविभक्तिर्यथा मातुः स्मरति, वृक्षस्य पर्ण पतति, माणवकस्य पितरं पन्थानं पृच्छति,
उपपदविभक्तिर्यथा वृक्षं प्रति विद्योतते विद्युत्, नमो देवेभ्यः, ऋते देवदत्तात्।
प्रधानविभक्तिर्यथा देवदत्तः पचति, चैत्रेण पच्यते, वीरः पुरुष इति।
संबोधनविभक्तिर्यथा हे देवदत्त, आगच्छ देवदत्त इति।
(३) तद्धितप्रत्ययविशेषोऽव्ययविभक्तिः।
सा द्विधा— १. विभक्तिकार्यवती, २. अविभक्तिकार्यवती च। (तत्र) —
१. विभक्तिकार्यवती— 'प्राग्दिशो विभक्तिः' (५.३.१), इति। सा त्रिधा—
१. विभक्त्यादेशरूपा, २. प्रत्ययादेशरूपा ३. प्रत्ययरूपा च। तासु— (विभक्त्यादेशरूपा) यथा— पञ्चम्यास्तसिल् (५.३.७), सप्तम्यास्तल् (५.३.१०), इदमो सः (५.३.११), किमोत् (५.३.१२), भवान्, दीर्घायुः, आयुष्मान्, देवानां प्रियः, (५.३.१४ मभा.), तेऽन्यासां चेति। यथा— सर्वस्मात् सर्वतः, यस्मिन् यत्र, तं भवन्तं ततो भवन्तं, एतेन दीर्घायुषा अत्र दीर्घायुषा, इहायुष्मते, कस्य देवानां प्रियस्य क्व देवानां प्रियस्य इति।
(प्रत्ययादेशरूपा)—'तसेश्च' (५.३.८) तसि। स च प्रतियोगे पञ्चम्यास्तसिः (५.४.४४), 'अपादाने चाहियरुहोः' (५.४.४५), 'अतिग्रहा व्यथनक्षेपेष्वकर्त्तरि तृतीयायाः' (५.४.४६), षष्ठ्या व्याश्रये (५.४.४८), 'आद्यादिभ्यश्च सर्वविभक्तिः', इति। यथा— 'अभिमन्युरर्जुनतः प्रति', शैलतोऽवतरति, शीलतोऽविगृह्यते, देवा अर्जुनतोऽभवम्, आदौ आदितः, प्रमाणेन प्रमाणतः इति।