Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 02

Prakāśa 2: प्रातिपदिकप्रकाशः

प्रकाशः 2 • प्रातिपदिकप्रकाशः

Prakāśa 2 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1013 Verses • Citations: SP 2.1–1013 • 4 Lexicon Terms • Page 21 of 34 (Verses 30 shown)
यथा तर्ह्येकस्यैव शब्दस्यानेकार्थाभिधानसामर्थ्यादेकशेषे शब्दान्तराणां निवृत्तिः एवं द्वन्द्वेऽपि कस्मान्न भवति ?
यदि भवेदेकशेषादविशेषः प्रसज्येत।
समाहार एकवचनं विशेष इति चेत्, अनेकार्थो न गम्येत। न हि पलाशमित्युक्‍त धवश्‍च खदिरश्‍च पलाशश्‍चेति कश्‍चिदप्यवैति।
अथ यथा पितरौ भ्रातरावित्यादिषु शब्दान्तरनिवृत्तावपि तदर्थोऽवगम्यते तथा प्लक्षन्यग्रोधौ धवखदिरावित्यादिषु द्वन्द्वेष्वपि कस्मान्न भवति ?
उच्यते शब्दशक्तिरेषा। भवति हि कश्‍चिदेकोऽपि शब्दो द्वयोरप्यभिधायकः। यथा रोदसीशब्दो द्यावापृथिव्योः। कौचित् पुनर्द्वावेवैकमर्थमभिदधाते, यथा अधीते अध्येति इति। अत एव शब्दशक्तिदर्शी मुनिः केषुचिदेवं विरूपेष्वेकशेषमारभते भ्रातृपुत्रौ 'स्वसृदुहितृभ्याम्' (१.२.६८), 'पिता मात्रा' (१.२.७०) इति। अन्येषु तु द्वन्द्वमेवाऽभ्यनुजानाति ॥
ननु च 'चार्थे द्वन्द्वः' (२.२.२९) स्मर्यते; स यथा —
समाहारेतरेतरयोगयोः तथा समुच्चयान्वाचययोरपि प्राप्नोति।
नैवम्, समुच्चयान्वाचययोः पदानामसामर्थ्यात्।
सापेक्षमसमर्थं भवतीति। तथाहि— गौश्‍चाश्‍वश्‍च गच्छतीत्यादिरेकक्रियापेक्षः समुच्चयः; भिक्षामट गां चाऽऽनयेत्यादिरनेकक्रियापेक्षः अन्वाचयः। एवं च बाह्यार्थापेक्षया पदानां परस्परसामर्थ्यम्। समर्थश्‍च पदविधिर्भवति। समाहारेतरेतरयोगयोस्तु समूहत्वात्, समूहस्य च समूहिरूपत्वादवयवानां सति सामर्थ्ये समासो भवत्यैव। यथा धवखदिरपलाशम्, धवखदिरपलाशा इति।
एवं तर्हि समूहस्यैकत्वात् समाहारवदितरेतरयोगेऽप्येकवचनमेव प्राप्नोति।
नैवम्। समाहार एव परस्परानुप्रवेशादिव समधिगताभेदानामुपसर्जनीकृतावयवः समुदायोऽभ्यनुज्ञायते, यस्यानभिव्यक्तावयवत्वादेकवचनमिव नपुंसकत्वमपि प्राप्नोति; इतरेतरयोगः पुनरवयवभेदानुगतः सङ्घातः, तस्य १प्रत्येकवर्त्तिपदैरभिधीयमानत्वात् समुदायसंख्यानिबन्धनैकवचनमवयेभ्यः प्रस्तूयते। तत्र
यथा पचतीत्यादौ अधिश्रयणादिक्रियाकलापः प्रत्यवयवं परिसमाप्यते तथा समुदायोऽपि प्रतिपदं साकल्येन परिसमाप्यते। तत एकैकस्य पदस्य समुदायनिबन्धनः संस्कारो भवति।
कथं पुनर्धवादयो निर्धारितार्थभेदाः पदान्तरस्यार्थमभिधातुं क्षमन्ते ?
प्रवृत्तिनिवृत्तिसमारोपात्। यथोक्‍तम् — 'यदि प्रक्षरतीति प्लक्षः, न्यग्रोधोऽप्येवम्। यदि न्यग् रोहतीति न्यग्रोधः प्लक्षोऽप्येवम्' इति।
साहचर्यादिवशेन वा परस्पररूपापत्तिः। यथा 'सप्तमी शौण्डैः (२.१.४०), 'अर्धर्चाः पुंसि (२.४.३१), ते विष्णुमित्राः छत्रिणो गच्छन्तीति।
तत्र यथा शौण्डार्धार्चादयः बहुवचनान्यथानुपपत्तिसमभिगम्यान् सहचारिणो भिन्नरूपान् धूर्त्तगोमयादीनुपाददते तथा धवादिशब्दाः प्रतीतार्थभेदाः साहचर्चादि— निमित्तानुरोधेन खदिरादीनुपाददते। तथाहि एकवृत्तिपदावरोधप्रतीतसाहचर्यौ धवखदिरौ; अत एव तयोरेव प्रत्यवयवनिवेशाद् बहुवचनं न भवति।
१. अधिकरणं वर्त्तिपदार्थः, स हि समासस्यार्थस्याधारः (काशिका २.२.२९)। पदमञ्जरी वृत्तिर्वर्त्तः समासः, न्यासश्‍च वर्त्तनं वर्त्तः समासः, भावे घञ्। वर्तोऽस्यास्तीति वर्त्ति।
कथं पुनर्धवादीनामर्थान्तराभिधानं शक्यमध्यवसातुम् ?
यावता लोकः पदसमुदायादर्थसमुदायमवैति, नावयवात्।
यदप्युक्‍तं प्रवृत्तिनिवृत्तिसमारोपादिति, तदप्यसारम्, न हि प्रक्षरतीति व्युत्पत्त्या न्यग्रोधः प्लक्षः, नापि न्यङ्‌रोहतीति व्युत्पत्त्या प्लक्षो न्यग्रोधो भवति; रूढानां हि धर्मनियमाय यथाकथञ्चिद् व्युत्पत्तिः क्रियते, न तु व्युत्पत्तिवशेन रूढयोऽवतिष्ठन्ते।
नापि प्रकृतिप्रत्ययवदन्वयव्यतिरेकसमधिगम्या धवादीनां समुदायार्थता।
यदप्युच्यते शौण्डार्धार्चादिवत् धवशब्दः साहचर्यादिलक्षणया खदिरमुपादत्त इति तदपि न सम्यक्, सति श्रुत्यर्थसंभवे लक्षणाया अयोगात्। न च खदिरार्थो धूर्त्तगोमयावल्लक्षयितव्यः, तस्य खदिरशब्देनैव साक्षादभिधानात्।
एवं तर्हि, यदा धवखदिरादयः समुदायाः प्रविभागेनान्वाचिख्यासिताः, तदा तमेव समुदायं प्रत्याय्यतयाऽभिसंधायावयवा उपादीयन्ते, न त्ववयवार्थप्रतिपादनाभिप्रायेण। अतस्तस्यां युगपदधिकरणवचनतायां समीहितायां समुदायपरत्वादवयवप्रयोगस्य, तेषामवयवानां प्रत्येकमनेकार्थत्वमुच्यते।
किं पुनः प्रयोक्‍तुरभिप्रायमनुरुध्यन्ते शब्दाः? येन तदभिसन्धानात् समुदायमभिदध्युः।
नेत्याह। अन्यत्राप्यवयवाभिधायिनां शब्दानामवयवमुखेन समुदायाभिधानसामर्थ्यं दृश्यते; यथा सुरभि कुक्लयम्, यन्मधुरं राजादनम् इति। यदि हि सुरभिमधुरशब्दौ गन्धरसमात्राभिधायिनावपि गन्धरसादिसमुदायान् कुसुमफलविशेषादीन् अवयवमुखेन नाचक्षाते, कुवलयादिभिः सामानाधिकरण्यं विरुध्यते।
सत्यमेतत्। अस्ति समुदायाभिधानसामर्थ्यमवयवशब्दानाम्, सुरभि कुवलयमित्यादौ सामानाधिकरण्येन तदवधार्यते; द्वन्द्वे तु निबन्धनमशक्य— मवधारयितुमिति तस्यानुपपत्तिः।
नैवम्। समुदायाभिधानस्य प्रक्रान्तत्वात्।
यद्येवं पद्वीमृद्‌वा(द्व्या)विति समानाधिकरणलक्षणः पुंवद्‌भावः प्राप्नोति।
उच्यते। अथेह कस्मान्न भवति दर्शनीयाया(:) माता दर्शनीयामाता ?
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →