Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 02

Prakāśa 2: प्रातिपदिकप्रकाशः

प्रकाशः 2 • प्रातिपदिकप्रकाशः

Prakāśa 2 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1013 Verses • Citations: SP 2.1–1013 • 4 Lexicon Terms • Page 20 of 34 (Verses 30 shown)
(वार्त्तिकोक्‍तः) निरादयः क्रान्ताद्यर्थे पञ्चम्या (२.२.१८ वाप. ६), गमिगाम्यादि कृतापकृतानामुपसंख्यानम् (२.१.२४, ६०) अव्ययानां बहुव्रीर्हिवक्‍तव्यः {२.२.२४ (२)}, इति वार्त्तिकोक्‍तः। यथा निष्कौशाम्बिः, ओदनबुभुक्षुः, क्रयाक्रयिका, पुटापुटिका, उच्‍चैर्मुखः, अस्तिक्षीरा इति।
(सामान्योक्तः) सुप्सुपा (२.१.४), पूर्वादिनिः, सपूर्वाच्‍च (५.२.८६, ८७), कुशाग्राच्छः, समासाच्‍च तद्विषयात् (५.३.१०५,१०६), इति सामान्योक्‍तः। यथा परःशता राजानः, परःसहस्‍त्रा शरदः, पुनरुत्सूतं वासः, पुनर्नवं पयः, कृतपूर्वी कटम्, काकतालीयो न्यायोऽयम्।
२. असूत्रशेषस्‍त्रिधा— नामविषयः, कृद्‌विषयः, तद्धितविषयश्‍च। तत्र—
(नामशेषः) अपरस्पराः क्रियासातत्ये (६.१.१४४), 'पारस्करप्रभृतीनि च संज्ञायाम् (६.१.१५७), पृषोदरादीनि यथोपदिष्टम् (६.३.१०९) इत्यादिर्नामविषयः। यथा— अपरस्पराः सार्थाः गच्छन्ति, आश्‍चर्यं वर्त्तते, पारस्करो मुनिः, कास्तीरं नगरम्, पृषोदरः कश्‍चिन्मयूरः पक्षी—ति।
(कृद्‍‌विषयः) उपपदमतिङ् (२.२.१९), कुगतिप्रादयः (२.२.१८), कर्त्तृकरणे कृता बहुलम् (२.१.३२) इत्यादिः कृद्‍‌विषयः। यथा— कुम्भकारः, पङ्कजम्, ऊरीकृत्य, प्रजवी, अश्‍वक्रीती।
(तद्धितविषयः) द्विगोर्लुगनपत्ये (१.४.८८), 'तिक—कितवादिभ्यो द्वन्द्वे' (२.४.६८), समासान्ताः (५.४.६८), इत्यादिस्तद्धितविषयः। यथा पञ्चसु कपालेषु संस्कृतः पञ्चकपालः, तैकायनश्‍च कैतवानयश्‍च तिककतवाः, उपशरदम्, देवराजः, महोक्षः, मृगनेत्रा रात्रयः इति।
३. ज्ञापकशेषस्त्रिधा— विधिज्ञापितः, निषेधज्ञापितः प्रयोगज्ञापितश्‍च। तत्र — (विधिज्ञापितः) कोः कत् तत्पुरुषे (६.३.१०१), ईषदर्थेऽपि (६.३.१०५), नञो नलोपः (६.३.७३), तिङ्यवक्षेपे च (वा. १), कारकेऽन्यस्य दुक् (६.३.९९), व्यतिहारे सर्वादीनां सुब्बहुलम् (८.१.१२), संख्याविसायपूर्वस्या— ह्नस्याहन्नन्यतरस्यां ङौ' (६.३.११०), दायाद्यं दायाद (६.२.५), इत्यादिको विधिज्ञापितः। यथा कदुष्णम्, अपचसि, अन्यत्कारकः, अन्योन्यम् सायाह्नः, विद्यादायादः इति।
(अलुग्ज्ञापितः) अलुगुत्तरपदे (६.३.१), पञ्चम्याः स्तोकादिभ्यः (६.३.२), आत्मनः पूरणे तृतीयाया (६.३.६), वैयाकरणाख्यायां पराच्चतुर्थ्याः (६.३.७), 'वाग्—दिग्पश्यद्‍भ्यो युक्तिदण्डहरेषु यथासंख्यमलुग् वक्‍तव्यः (६.३.२१ वा. १), षष्ठ्या अदसः फक्वुञोः (६.३.२१, वा.२), अपो योनियन्मन्तुषु सप्तम्याः (६.३.२१ वा) इत्यादिर्निषेधज्ञापितः। — ब्राह्मणाच्छंसी (६.३.२), आत्मनातृतीयः (६.३.६), परस्मैपदम् (६.३.७), पश्यतोहरः (६.३.२१ वा. १), आमुष्यकुलिका (६.३.२१ वा. २), अप्सुयोनिः (६.३.२१) इति।
(प्रयोगज्ञापितः) जनिकर्त्तुः प्रकृतिः (१.४.३०), तत्प्रयोजको हेतुः (१.४.४५), अपोनप्त्रपान्नप्तृभ्यां घः (४.२.२७), यथा—तथाचाऽन्तः (ण्णः) (७.३.३१ मभा.), वर्त्तमानसामीप्ये वर्त्तमानवद् वा (३.३.१३१), अपरस्पराः क्रियासातत्ये (६.१.१४४), इत्यादिः प्रयोगज्ञापितः। यथा— भूतहर्त्ता, दण्डनायकः, तनूनपात्, याथातथ्यम्, यत्‍नगौरवम्, क्रियासाफल्यम् (सातत्यम्) इति।
४. एकशेषस्त्रिधा — सरूपाणाम्, असरूपाणाम् सरूपासरूपाणां। तत्र —
सरूपाणां भिन्नार्थानामभिन्नार्थानां भिन्नाभिन्नार्थानां च।१
भिन्नार्थानां यथा— अक्षौ, माषौ, पक्षौ, पादौ, गावौ इति।
अभिन्नार्थानां यथा— वृक्षौ, प्लक्षौ इति।
१. सरूपत्वमभिन्नप्रयत्‍नोच्चार्यत्वम्। यथा 'रामः, रामौ, रामाः' इति। अत्र रामाविति, रामा इति च 'रामः रामः' इत्येवं 'रामः, रामः, रामश्‍चे'—त्येवम्। एवं च प्रतीतावेकत्वं, किन्तु गर्भे बहुत्वम्। उच्चारणे त्वभिन्नप्रयत्‍नत्वमिति स्वाभाविक एष एकशेषः।
भिन्नाऽभिन्नार्थानां यथा— 'अश्‍विनौ, पुष्पवन्तौ, गावौ, सारस्वतौ युवाम्, यूयम् इति। असरूपाणां सर्वनाम्नां, सम्बन्धिनां सहचारिणां च।
सर्वनाम्नां यथा— स च देवदत्तश्‍च तौ, एतौ च यज्ञदत्तश्‍च एते, अयं च त्वं च युवाम्, अमू च त्वं च यूयम्, त्वं चाहं च आवाम्, स च आवां च वयम् इति।
सम्बन्धिनां यथा— माता च पिता च पितरौ, स्वसा च भ्राता च भ्रातरौ, पुत्रश्‍च दुहिता च पुत्रौ, पिता च मातामहादयश्‍च पितरः, भ्रातरौ च स्वसारश्‍च भ्रातरः, पुत्राश्‍च दुहितरौ च पुत्राः इति।
सहचारिणां यथा— दस्त्रश्‍च नासत्यश्‍च दस्त्रौ, देवदत्तश्‍च विष्णुमित्रश्‍च विष्णुमित्रौ, शौण्डश्‍च धूर्त्तादयश्‍च शौण्डाः, अर्धर्चश्‍च गोमादयश्‍च अर्धर्चाः, पुरोडाशश्‍च धानादयश्‍च पुरोडाशाः, छत्रिणः।
सरूपासरूपाणां भिन्नशब्दानां, भिन्नवचनानां, भिन्नलिङ्गानां च।
भिन्नशब्दानां यथा— गार्ग्यश्‍च गार्ग्यायणी च गार्ग्यौ, वात्स्यश्‍च वात्स्यायनश्‍च वात्स्यौ, प्रथमश्‍च प्रथमानन्तरश्‍च प्रथमौ, भीमश्‍च भीमसेनश्‍च भीमौ, वक्रदण्डश्‍च कुटिलदण्डश्‍च वक्रदण्डौ, श्रीमांश्‍च लक्ष्मीवां(मां)श्‍च श्रीमन्तौ इति।
भिन्नवचनानां यथा— देवश्‍च दत्तश्‍च देवदत्तौ, तौ च देवदत्तश्‍च देवदत्ताः। एवं विष्णुमित्राः। कृष्णश्‍च सा(शा)रश्‍च कृष्णसा(शा)रौ, तौ च सारश्‍च कृष्णसा(शा)राः/एवं नीललोहिताः। अपारश्‍च पारश्‍च अपारपारौ, तौ च पारपारश्‍च पारपाराः। एवमपारपारा इति।
भिन्नलिङ्गानां यथा कुक्कुटश्‍च कुक्कुटी च कुक्कुटौ, श्‍वशुरश्‍च श्वश्रूश्‍च श्‍वशुरौ, गावश्‍च गावश्‍च गाव इमाः, वत्सकाश्‍च वत्सिकाश्‍च वत्सिकाश्‍च वत्सका इमे, अश्‍वाश्‍च अश्‍वाश्‍च अश्‍वा एते, शुक्लश्‍च शुक्ला च शुक्लं च तदिदं शुक्लम्, तानीमानि शुक्लानीति। (१.२.६९ काशिका)
कथं पुनरेकशेषः समासविशेषो भवति?
संक्षेपाभिधाने सति द्वन्द्वसमानार्थत्वात्। तथाहि— असरूपाणां द्वन्द्वः, सरूपासरूपाणाम् एकशेषः इति।
येयं युगपदधिकरणवचनता पदार्थानां सहविवक्षेत्यर्थः। तदाह— (वाप. ३.१४.२८)
अनुस्यूतेव भेदाभ्यामेका प्रख्योपजायते।
यस्यां सहविवक्षां तामाहुर्द्वन्द्वैकशेषयोः ॥ ४९ ॥ इति।
तत्र यदा प्रयोगैकतया बुद्ध्याऽनेकमर्थमवगत्य यथावगतमेवाऽभिधातुमध्यवस्यते तदैकज्ञानावच्छेदानिरूपितभेदस्यास्य भागशोऽभिधानासंभवादवयवशब्दाः संघातविषया विज्ञायन्ते। तद‌्यथा— 'धवखदिरौ वृक्षौ इति।
यद्येवं, यथा धवखदिरपलाशमिति द्वन्द्वस्य समूहार्थत्वादेकवचनम्, एकशेषस्यापि प्राप्नोति। नैवम्, द्वन्द्वः समाहारेतरेतरयोगयोः, एकशेषः पुनरितरेतरयोग एव; तस्य हि समाहारपक्षे भिन्नार्थप्रतिपादकानेकशब्दनिवृत्तौ वचनमपि यद्यनेकार्थं न भवेत् केनाऽनेकार्थः प्रतीयेत? न हि वृक्ष इत्युक्‍ते वृक्षश्‍च वृक्षश्‍च वृक्षश्‍चेति कश्‍चिदप्यवैति ? तस्मादाम्नातोऽपि द्वन्द्वसमानार्थतया समाहार एकशेषोऽनभिधानादप्रयोगार्ह एवेति विज्ञायते। द्वन्द्वे तु यद्यपि एकवचनान्नानेकार्थावगतिः, तथाहि अनेकश्रुतिनिबन्धनासौ भविष्यतीति समाहारेऽपि न दोषः। एकशेषेऽपि च यत्राऽनेकार्थाभिधानसामर्थ्यं कथंचिद् भवति, भवत्येव तत्र समाहारैकवचनम्, यथा शुक्लं वस्त्रं, शुक्ला शाटी, शुक्लः पट इति तदिदं शुक्लमिति।
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →