Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 02

Prakāśa 2: प्रातिपदिकप्रकाशः

प्रकाशः 2 • प्रातिपदिकप्रकाशः

Prakāśa 2 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1013 Verses • Citations: SP 2.1–1013 • 4 Lexicon Terms • Page 24 of 34 (Verses 30 shown)
एवं हि क्रियमाणे एकश्‍च विंशतिश्‍च एकविंशतिः, द्वौ च दश च द्वादशेति द्विवचनं बहुवचनं च प्राप्नोति।
किं पुनरेकविंशतिरित्यादयो द्वन्द्वाः ?
बाढम्। एकाधिका विंशतिरिति पक्षे हि संख्यास्वरो न प्राप्नोति। स हि शतसहस्त्रमिति षष्ठीसमासे मा भूदिति द्वन्द्व एवाभ्यनुज्ञायते।
यद्येवमितरेतरयोगपक्षे द्विवचनम्, समाहारपक्षे च नपुंसकत्वं प्राप्नोति।
नैवम्, 'लिङ्गमशिष्यं लोकाश्रयत्वा' —दिति समाहारेऽपि नपुंसकत्वं न भविष्यति। अथ द्वादशेत्यत्रापि समाहारः कस्मान्न भवति आ दशभ्यः संख्याः संख्येय एव वर्त्तते; अत उद्‌भूताऽवयवसमुदायतायामितरेतरयोग एव प्राप्नोति; यथा 'अधिकरणैतावत्त्वे च (२.४.१५), दशेमे मार्द्दङ्गिकपाणविका (काशिका २.४.१५) इति ॥
तदेतत् कृत्तद्धितसमासभेदाद् विभक्‍तावयवं त्रिधा प्रातिपदिकमभिहितम्।
(२. अविभक्‍तावयवं प्रातिपदिकम्)
अथाविभक्‍तावयवमुच्यते। तदपि (अविभक्‍तावयवमपि) प्रातिपदिकं त्रिधा —
१. नामरूपम्, २. अव्ययरूपम् ३. निपातरूपं च। तत्र —
अनपेक्षितशब्दव्युत्पत्तीनि सत्त्वभूतार्थाभिधायीनि च नामानि।
तानि त्रिधा— १. एकार्थानि, २. अनेकार्थानि ३. एकानेकार्थानि चेति। तत्र— एकार्थानि यथा— वृक्षः, कुण्डम्, कुमारी, डित्थः, शुक्‍लः, शीघ्रः, इन्द्रः, शक्रः, पुरन्दरः, कोष्ठः, कुसूल इति।
अनेकार्थानि यथा— अक्षाः, माषाः, पादाः, अवयः, हरयः, गावः, भूतयः, पुण्डरीकम्, पुष्करम्, साम, ललाम इति।
एकानेकार्थानि यथा— दस्त्रौ, नासत्यौ, पुष्पवन्तौ, उभौ, रोदसी, रोदस्यौ, दाराः, वर्षाः, आपः, वनम्, पङ्क्तिः, सेना इति।
प्रायेणालिङ्गसंख्याशक्तीनि अव्ययानि।
तान्यपि त्रिधा १. द्रव्यवचनानि, २. गुणवचनानि ३. संबन्धवचनानि चेति। तेषु द्रव्यवचनानि यथा— स्वः, प्रातर्, दिवा, दोषा, नक्तम्, सायम्, विहायसा, भूः, कम्, शम्, शंयो, मय इति।
गुणवचनानि यथा—उच्चैः, नीचैः, सुष्ठु, अपष्ठु, मुधा, अद्‌धा, मृषा, मिथ्या, अलम्, बलवत्, पृथक्, विष्वक् इति।
संबन्धवचनानि यथा— समया, निकषा, बहिः, अन्तः, अन्तरेण, ऋते, आरात्, युगवत्, साकम्, सार्धम्, अमा, सह इति।
असत्त्ववचनाश्‍चादयो निपाताः। तेऽपि त्रिधैव —
१. स्वतन्त्राः, २. परतन्त्राः ३. विशेषपरतन्त्राश्‍च। तेषु —
(स्वतन्त्राः) अस्त्यादयः स्वतन्त्राः। यथा— अस्ति, असि, अस्मि, एहि, ब्रूहि, मृदु (द्‌नु) हि, मन्ये, जाने, पश्‍य, पश्‍यत, स्यात् इति।
(परतन्त्राः) कर्मप्रवचनीयाश्‍चादयः परतन्त्राः। वृक्षमनु विद्योतते, उपार्जुनं योद्धारः, अप त्रिगर्त्तेभ्यो वृष्टो देवः, अभिमन्युरर्जुनतः प्रति, यदत्र मां प्रतिस्यात्, अधिब्रह्मदत्ते पञ्चालाः, अहं च त्वं च वृत्रहन्, वायुर्वा त्वा मनुर्वा त्वा, अहमेव पशूनामीशे, सरोजमिव ते मुखम्, न नूनमस्ति नोश्‍वः, कः स्विदेकाकी चरति इति; (तैसं.७.४.१८.१)।
(विशेषपरतन्त्राः) गतिप्रादयो विशेषपरतन्त्राः। यथा— प्रकरोति, पराकरोति, ऊरीकरोति, १गुलुगुधाकरोति (काठकसं. २५.१), कारिकाकरोति, खाट्करोति, पटपटाकरोति, तिरस्करोति, पुरस्करोति, श्रद्धा, अन्तर्धिः इति ॥
अथानुकरणम्। तदपि त्रिधैव —
(१. साध्वनुकरणम्, २. असाध्वनुकरणम् ३. अव्यक्तानुकरणं च।
(तत्र२ साध्वनुकरणं द्वेधा सार्थकं निरर्थकं च)। तयोः—
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →