Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 02

Prakāśa 2: प्रातिपदिकप्रकाशः

प्रकाशः 2 • प्रातिपदिकप्रकाशः

Prakāśa 2 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1013 Verses • Citations: SP 2.1–1013 • 4 Lexicon Terms • Page 22 of 34 (Verses 30 shown)
अथ मतमेतत् प्राक् समासाद् यत्र सामानाधिकरण्यम्, इहापि न दोषो भवति; न हि प्राक् समासात् सामानाधिकरण्यमत्र विद्यते।
ननु च वाक्येऽपि समुदायप्रक्रमेणैवावयवपदानां प्रयोगात् कथमुच्यते प्राक् समासात् सामानाधिकरण्यं नास्तीति ?
समुदायप्रक्रमस्य निर्निबन्धनत्वेनाप्रतीयमानत्वात्। कुवलयादिशब्दसामाना— धिकरण्यं हि सुरभिप्रभृतीनामसमासेऽपि समुदायतानिबन्धनम्; इह त्वेकार्थीभावः समुदायाभिधाने निमित्तमिति वाक्ये सामानाधिकरण्यप्रसिद्धिः।
एवमपि, विप्रतिषिद्धेषु युगपदधिकरणवचनताया अनुपपत्तिः, यथा सुखदुःखे जननमरणे, शीतोष्णे इति। सुखादिप्रतिघातेन हि दुःखादयः, दुःखादिप्रतिघातेन च सुखादय इति।
नैवम्। सर्व एव शब्दा विप्रतिषिद्धाः, प्लक्षन्यग्रोधावित्यत्रापि, हि प्लक्षशब्दः प्रयुज्यमानः प्लक्षार्थं संप्रत्याययति, न्यग्रोधार्थं निवर्त्तयति; न्यग्रोधशब्दः प्रयुज्यमानो न्यग्रोधार्थं प्रत्याययति प्लक्षार्थं निवर्त्तयति। तत्र चेद् युक्ता युगपदधिकरणवचनता दृश्‍यते, इहापि युक्तं दृश्‍यताम्।
एवमपि शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याभिधानं प्राप्नोति।
ततः किम्? युगपदधिकरणवचनताया अनुपपत्तिः— प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधा' इति; यथैव हि शब्दानां पौर्वापर्यं तद्‌वदर्थानाम/?/पि स्यात्।
नैवम्। एवं सति द्विवचनबहुवचनयोरप्यनुपपत्तिः; प्लक्षशब्दो हि सार्थको निवृत्तः; न्यग्रोधशब्द उपस्थितः; स चैक एकार्थ इति तस्मादेकवचनमेव प्राप्नोति। विग्रहे खल्वपि युगपदधिकरणवचनता दृश्‍यते, किं पुनः समासे। तद्‌यथा 'द्यावा ह क्षामा' 'द्यावा चिदस्मै पृथिवी सन्नमेते' इति (ऋवे. १०.११.१, २.१२.१३)
समुदायात् सिद्धमिति चेत्, तन्न, समुदायस्यैकार्थत्वात्; एकार्था हि समुदाया भवन्ति। तद्‌यथा शतम्, यूथम्, वनमिति। नायमेकार्थः। किंतर्हि। द्व्‍यर्थो बह्वर्थश्‍च। प्लक्षोऽपि द्व्यर्थः;, न्यग्रोधोऽपि द्व्यर्थः।
यद्येवम् अनेकार्थत्वाद् 'बहुषु बहुवचनमि' (१.४.२१)—ति बहुवचनं प्राप्नोति? तन्न, बहुत्वाऽभावात् (मभा. २.२.२९ ); याभ्यामेवात्रैको द्व्यर्थस्ताभ्यामेवाऽपरोऽपि। यद्येवमन्यवाचकेन शब्देनान्यस्य वचनं नोपपद्यते।
एवं तर्हि प्लक्षस्य न्यग्रोधत्वान्न्यग्रोधस्य च प्लक्षत्वात् स्वशब्देनैवाभिधानं भविष्यतीति (मभा. २.२.२९)।
कथं पुनः प्लक्षोऽपि न्यग्रोधो न्यग्रोधोऽपि प्लक्षः स्यात् ? यावता कारणाद् द्रव्ये शब्दसन्निवेशो भवति।
कारणाद्द्रव्ये शब्दसन्निवेश इति चेत् कारणमुक्तं पुरस्तात् यदि प्रक्षरतीति प्लक्षः न्यग्रोधेऽप्येतद् भवति, यदि न्यङ् रोहतीति न्यग्रोधः, प्लक्षेऽप्येतद् भविष्यतीति।
दर्शनं वै हेतुः। न च न्यग्रोधे प्लक्षशब्दो दृश्यते। दर्शनं हेतुरिति चेत् तुल्यमेतद् भवति प्लक्षेऽपि न्यग्रोधशब्दो दृश्यते।
नन्वेतद् ब्रवीमि— 'नैषं लोके संप्रत्ययोऽस्ति, न हि प्लक्ष आनीयतामित्युक्‍ते न्यग्रोध आनीयते।'
द्वन्द्वविषयमेवैतद् द्रष्टव्यम्।
युक्तं पुनर्यन्नियतविषया नाम शब्दाः स्युः?
वाढं युक्तम्, अन्यत्रापि दर्शनात्; तद् यथा समानेऽपि रक्‍ते वर्णे गौर्लोहित इति भवति, अश्‍वः शोणित इति। समाने शुक्ले वर्णे गौः श्‍वेत इति भवति अश्‍वः कर्क इति।
यदि तर्हि प्लक्षोऽपि न्यग्रोधः, न्यग्रोधोऽपि प्लक्षः, एकेनैवोक्तत्वादपरस्य प्रयोगोऽनुपपन्नः। अनुक्तः प्लक्षेण न्यग्रोध इति कृत्वा न्यग्रोधशब्दः प्रयुज्यते।
कथमनुक्तः? यदिदानीमेवोक्तं प्लक्षोऽपि न्यग्रोधः, न्यग्रोधोऽपि प्लक्ष इति। सहभूतावन्योन्यस्यार्थमाहतुः, न पृथग् भूतौ।
शब्दशक्‍तेः स्वभावः। प्रतिनियता हि वृत्तिवाक्ययोः शब्दानामभिधानशक्तिः, तद्‌यथा शस्त्रीश्‍यामा देवदत्ता' इति। 'उपमानानि सामान्यवचनैः' (२.१.५५) इति समासे शस्त्रीशब्देनावच्छिद्यमानविशेषावरुद्धः श्‍यामाशब्दो यद्यपि न सामान्यवचनः तथाप्यसौ देवदत्तायामुपमीयमानायां वर्त्तते शस्त्रीव श्यामा देवदत्तेति, तदिदमुक्तं 'प्रागभिसम्बन्धाद् यः सामान्यवचन' (मभा. २.१.५५ वा—२) इति। समासमभिसम्बन्धवचनेन दर्शयति; यतस्तत्र विनिवृत्तविशेषान्तराकाङ्क्षाणि यथासमीहितविशेषाऽवरुद्धानि पदानि। सोऽयं वृत्तिवाक्ययोर्विशेषः।
किञ्च, निष्कौशाम्बिः, निर्वाराणसिरिति भेदे सति निरादीनां न क्रान्ताद्यर्थसंभवः (मभा. २.४.२६)। अपि च 'गौर—खर—वदरण्यम्' (मभा. २.१.६९), 'लोहितशालिमान् ग्रामः' इति।
प्राग्वृत्तेर्जातिवाचित्वं न च गौर—खरादिषु ॥ ५० ॥
यथा स्निग्धकिसलयमरण्यं मत्तमातङ्गं वनमिति।
वृत्तिरन्यपदार्थे या तस्या वाक्येष्वसंभवः ॥ ५१ ॥
एवं च प्लक्षन्यग्रोधौ प्राथमकल्पिकौ कौचित्, क्रियया गुणेन वा प्लक्ष इवायं प्लक्षः, न्यग्रोध इवायं न्यग्रोध इति। तत्र प्लक्षावित्युक्ते संदेहः स्यात्— 'किमिमौ प्लक्षावेव आहोस्वित् न्यग्रोधावेव, अथवा प्लक्षन्यग्रोधाविति। तत्राऽसन्देहार्थो न्यग्रोधशब्दः प्रयुज्यते। सेयं युगपदधिकरणवचनता दुःखा दुरुपपादा च (मभा. २.२.२९)।
यदपि चास्या ज्ञापकं 'द्यावा च क्षामा' इति, तदपि छान्दसम्। इदं तर्हि ज्ञापकमस्तु 'परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः' (२.४.२६), पूर्ववदश्‍वबडवौ (२.४.२७)। यदि ह्यत्र 'कुक्कुटमयूर्या'—(२.४.२६ वा. २. मभा. काशिके)— वित्यादिषु सहविवक्षा न स्यात् अनर्थकः सूत्रारम्भः स्यात्।
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →