Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 02

Prakāśa 2: प्रातिपदिकप्रकाशः

प्रकाशः 2 • प्रातिपदिकप्रकाशः

Prakāśa 2 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1013 Verses • Citations: SP 2.1–1013 • 4 Lexicon Terms • Page 3 of 34 (Verses 30 shown)
(१) कर्त्ता — स्वतन्त्रः, हेतुः, कर्मकर्त्ता च। तेषु — (स्वतन्त्रः) क्रियायाः स्वेच्छया करणादीनि यः प्रयुङ्क्ते, न तु तैः प्रयुज्यते, स स्वतन्त्रः। यथा— पुत्रणेत्रस्य दर्शकः, पुरां भेत्तेति।
(हेतुः) तमेव क्रियाप्रयुक्तं यः प्रयुङ्क्ते स हेतुः। यथा— राजानं योधितवान् राजयुध्वा धनुष्मान्, नखानि मोचयन्ति नखमुचानि धनूषीति।
(कर्मकर्त्ता) कर्मैव स्वातन्त्र्येण विवक्षितं कर्मकर्त्ता। यथा— स्वयमेव पच्यन्ते पचेलिमा माषाः, स्वयमेव भज्यन्ते भङ्गुराणि काष्ठानि इति।
(२) कर्म — निर्वर्त्यं, विकार्यं, प्राप्यं च। तेषु — (निर्वर्त्यम्) यदसज्जन्यते सद्‌वा प्रकाश्यते तन्निर्वर्त्यम्। यथा— कर्त्तव्यः कटः, उच्चार्यः शब्दः इति।
(विकार्यम्) यस्य प्रकृत्युच्छेदो गुणान्तरं वोत्पद्यते तद् विकार्यम्। यथा—भुक्‍त ओदनः, लूयमानः केदारः इति।
(प्राप्यम्) क्रियाकृतविशेषाऽनवगतौ कर्त्तुः क्रिययाऽनास्थितमास्थितं वा यदाप्यते तत् प्राप्यम्। यथा— 'दुर्दर्शः प्रभुः, सुयानो मार्ग इति।
(३) करणं— बाह्यम्, आभ्यन्तरं, बाह्याभ्यन्तरं च। तेषु— (बाह्यम्) कर्त्तुः शरीराद् बहिरुपलभ्यमानं बाह्यम्। यथा— आशितं भवं भक्‍तम्, धृतोदकः करकः इति।
(आभ्यन्तरम्) तदि्वपरीतमाभ्यन्तरम्। यथा— प्रियंकरणं शीलम्, वशीकरणं प्रेम, इति।
(बाह्याभ्यन्तरम्) उभयगुणयोगि बाह्याभ्यन्तरम्। यथा— दर्शनं चक्षुः, संवननं साम इति।
(४) संप्रदानं— ददातिकर्माप्यम्, कर्ममात्राप्यं, क्रियाप्यं, च। तेषु
(ददातिकर्माप्यम्) सम्यक् प्रदीयतेऽस्मै इत्यन्वर्थसंज्ञाया विषयो ददातिकर्माप्यम्। यथा— दीयतेऽस्मै दानीयो ब्राह्मणः, देवा देयासुरस्मै देवदायो डिम्भ इति।
(कर्ममात्राप्यम्) 'कर्मणा यमभिप्रैति संप्रदानम्' (१.४.३२) इति पारिभाषिक— संज्ञामात्रविषयः कर्ममात्राप्यम्। यथा—दाश्यतेऽस्मै देयमिति दाशः कैवर्त्तः, गां हन्ति तस्मै आगतायेति गोघ्नोऽतिथिः इति।
(क्रियाप्यम्) कर्मशब्देन क्रियाया अप्युपादानात् क्रियया यदाप्यते तत् क्रियाप्यम्।
यथा— श्‍लाघन्तेऽस्मै जना इति श्‍लाघ्यो राजा, स्पृहयन्त्यस्मै लोकाः स्पृहणीयो विभव इति।
(५) अपादानम् — निर्दिष्टविषयम्, उपात्तविषयम् अपेक्षितक्रियं च। तत्र—
(निर्दिष्टविषयम्) 'ध्रुवमपायेऽपादानम्' (१.४.२४) इति निर्दिष्टविषयम्। यथा— प्रपतनो गिरिः, प्रस्रवणः शैलः इति।
(उपात्तविषयम्) भीत्रार्था(१.४.२५)दियोगोक्तमुपात्तविषयम्। यथा— 'भयानको द्विषाम्, प्रभवः संपदाम्' इति।
(अपेक्षितक्रियम्) अवधिमात्रार्थमपेक्षितक्रियम्। यथा— अवधिः पर्वतः, मर्यादा समुद्रः, इति।
(६) अधिकरणं — वैषयिकम्, औपश्‍लेषिकम्, नैमित्तिकं च। तेषु —
(वैषयिकम्) विविधमनेकप्रकारं जातिगुणक्रियाद्रव्यादिभिः सिनोतीति। विषयो देशकालादिः, विषय एव वैषयिकम्। यथा— निपिबन्त्यस्मिन् गवादय इति निपानं जलाशयः, राजानो धीयन्तेऽस्यां राजधानीनगरम् इति।
(औपश्‍लेषिकम्) उपश्‍लेषोऽवष्टम्भः, तस्मै प्रभवत्यौपश्‍लेषिकम्। यथा— इषवो धीयन्तेऽस्मिन् इषुधिः उपासङ्गम्, शेरतेऽस्यां शय्या पर्यङ्कः।
(नैमित्तिकम्) निमित्तमेव नैमित्तिकम्। यथा— रज्यन्तेऽस्मिन् सामाजिकमनांसीति रङ्गः प्रेक्षा, प्रसीदन्त्यस्मिन् नयनमनांसीति प्रासादः सौधम् इति।
तदतेदुभयमपि१ — १. शुद्धम्, २. संकीर्णम्, ३. उपाधिमत्, ४. रूढिमत्, ५. संबन्धि, ६. अनुबन्धि चेति षोढा विप्रथते। तत्र—
(१. शुद्धम्) अर्थान्तरैरसंस्पर्शः शुद्धिः।
सा भावानां यथा— ओदनस्य पाकः, अलं कृत्वा, खलु स्थित्वा इति।
कारकाणां यथा— अपां स्त्रष्टा, वर्षशतस्य पूरकः, सोमे पवमान इति।
(२. संकीर्णम्) संपर्कः संकरः।
स भावानां यथा— कालो भोक्‍तुम्, अलं भोक्‍तुम्, भोजं भोजं व्रजतीति।
कारकाणां यथा— गमनमर्हति गम्या योषित्, जेतुं शक्यते जय्यः शत्रुः, पक्‍तुं व्रजति, पाचको व्रजति इति।
१. 'भाव—कारकाऽभिधायिनो धातुप्रत्ययाः' द्र. पृ. ६७
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →