Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 02

Prakāśa 2: प्रातिपदिकप्रकाशः

प्रकाशः 2 • प्रातिपदिकप्रकाशः

Prakāśa 2 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1013 Verses • Citations: SP 2.1–1013 • 4 Lexicon Terms • Page 13 of 34 (Verses 30 shown)
भवति वै प्रधानस्य सापेक्षस्यापि वृत्तिः।
कथं तर्हि ग्रामो निवासोऽस्योति ग्रमस्य विशेष्यत्वात् प्राधान्ये सापेक्षस्यापि वृत्तिर्न भवति?
अनन्तरोक्तन्यायेनात्र षष्ठयर्थस्य प्राधान्यात्।
नन्वयमपि संबन्धिशब्दः कस्मान्न भवति?
समूहार्थमात्र एव वृत्त्यपरिसमाप्तेः।
तर्हि न भवितव्यमेव ग्रामशब्दान्निवास—निवासवत्सम्बन्धे तद्धितेन? न भवितव्यम्, यथा अव्युत्पन्नजनसमूहार्थकोऽयमुपचारवृत्त्या भवति।
दृश्यते च तात्स्थात् तदवदुपचारः, यथा मञ्चाः क्रोशन्तीति।
यदि वा ग्रमशब्दोऽयं बह्वर्थः(मभा. १.१.७), यथा— अस्ति शलासमुदाये ग्रामो दग्ध इति; जनपद(जन)समुदाये ग्राम आगत इति। अस्ति वाटपरिक्षेपे ग्रमं प्रविष्ट इति, अस्ति सारण्यके ससीमके संस्थिण्डिलके च भूप्रदेशे ग्रमो लब्ध इति, अस्ति अव्युत्पन्नजनसमूहास्पदे 'शूद्रकर्षकप्राये जनपदं निवेशयेत्, तत्र अष्टशतग्रममध्ये प्रधानं स्थापनीयम्, स नागराणां निवासो नगरमिति। तत्राऽव्युत्पन्नजनसमूहास्पदे यो ग्रमशब्दो वर्त्तते ततो भावितव्यं तद्धितेन— ग्रमो निवासोऽस्येति सोऽयं ग्राम्यो ग्रामीण इति॥
(४. स्वार्थाभिधायिनोऽधातुप्रत्ययाः)
अथ स्वार्थिकाः। तेऽपि द्विधा— १. असत्त्वभूतार्थाः, २. सत्त्वभूतार्थाश्‍च। उभयेऽपि प्रत्येकं षोढा— १. वाचकाः, २. द्योतकाः, ३. विशेषकाः, ४. सहाभिधायकाः, ५. सार्थकाः, ६. निरर्थकाश्‍चेति। तत्र—
(१. असत्त्वभूतार्थेः स्वार्थिकाः)
१. असत्त्वभूतार्थेषु शक्तिमात्राभिधायिनो वाचकाः। यथा— तत आगतः, तत्र वसति, पुरस्तादाकतः, पुरस्ताद् वसति, देवत्रा गच्छति, मनुष्यत्रा तिष्ठति इति।
२. पदार्थगत—कुत्सा—प्रशंसाद्यभिव्यञ्जका द्योतकाः। यथा— कुत्सितं पचति पचतकि, प्रशस्तं पचति पचतिरूपम् ईषदसमाप्तं पचति पचतिकल्पम्, प्रकृष्टं पचति पचातितराम् एवं नितराम्, अतीवतराम् इति।
३. वाचकत्वे द्योतकत्वे वा मङ्गलवीप्साद्यधिकार्थाभिधायिनो विशेषकाः। यथा— बहुभ्यो देहि बहुशो देहीति, अल्पं देहि अल्पशो देहीति, द्वाभ्यां द्वाभ्यां देहि द्विशो देहि, माषं माषं देहि माषशो दाहि। एवं कस्मिन् काले कदा केन प्रकारेण कथमिति।
४. अनुप्रयोगाद्यपेक्षिणः सहाभिधायकाः। यथा— अनग्निरग्निः संपद्यते अग्निसात्संपद्यते, देवाय देयं करोति देवत्राकरोति। एवं तं भवन्तं ततो भवन्तम्, एतेन दीर्घायुषा, अत्र दीर्घायुषा, अस्मै आयुष्मते इहायुष्मते, कस्य देवानां प्रियस्य, क्व देवानां प्रियस्य इति।
५. गतिसंज्ञादिकार्यनिमित्तभूताः सार्थकाः। यथा— शुक्लीकृत्य, पटपटायते, द्वेधाकारम्, अभितो ग्रामम्, विना देवदत्तेन, दक्षिणाहि ग्रामादि(२.३.२९)ति।
६. शब्दोपचयादिमात्रहेतवो निरर्थकाः। यथा— उरसि प्रत्येव प्रत्युरसम्, आत्मन्यध्येव अध्यात्मम्, गिरिमन्वेव अनुगिरम्, उच्चैरेव उच्चकैः, त्वयैव त्वयका, अस्माभिरेवास्माकाभिः इति। एवमन्येऽपि— देवाः अर्जुनतोऽभवन्, पूर्वतो ग्रामस्य, ग्रामं पूर्वेण, पुरस्ताद् रमणीयम्, ऐकध्यं करोति, पञ्चकृत्वः पचति, इत्यादयः असत्त्वभूतार्थाः स्वार्थिकेषु यथायोगमवगन्तव्याः।
अन्ये तु वतिमपि शक्त्यभिधायिषु विशेषकस्वार्थिकेषु वर्णयन्ति। यथा—राज्ञेव व्यवहृतमनेन राजवत्, देवमिव भवन्तं पश्यामि देववदित्युदाहृतं पुरस्तात्। एवं च सूत्रं व्याचक्षते— 'तेन तुल्यम्' इत्येतस्मिन्नर्थे वतिर्थवति, यत् तत्तुल्यं क्रिया चेत् सा भवति। क्रियेत्येनेन क्रियानिमित्तभूताः शक्तय उच्यन्ते।
न चैतद् वाच्यम्— 'एवं सति क्रिया न संगृहीता भवति' यतः क्रियापि कारकमेव। यथोच्यते— (वाक्यपदीये क्रियासमुद्देशे ८.३७—३९)—
क्रियामन्ये तु मन्यन्त क्वचिदप्यनपाश्रिताम्।
साधनैकार्थभावित्वे प्रवृत्तिमनपायिनीम् ॥ २४ ॥
सामान्यभूता सा पूर्वं धात्वर्थैः प्रविभज्यते।
ततो व्यापाररूपेण साध्ये च व्यवतिष्ठते ॥ २५ ॥
प्रकृतिः साधनानां सा प्रथमं तच्च कारकम्।
शक्तिरेकाधिकरणे स्रोतोवदुपकर्षति ॥ २६ ॥
अपूर्वं, कालशक्तिं वा, क्रियां वा, कालमेव वा।
तमेवंलक्षणं भावं केचिदाहुः कथंचन ॥ २७ ॥
'तत्र तस्येवे'—त्यस्य च प्रयोजनमुपन्यस्तं पुरस्ताद् द्रव्यगुणयोस्तुल्ययोः प्रत्ययो न लभ्यते इति।
नन्वेवं सति 'देवदत्त इव स्थूलः, यज्ञदत्त इव गोमान्' इत्यत्र प्रत्ययो न प्राप्नोति सप्तमीषष्ठ्‍यन्तत्वयोरभावात्।
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →