Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 02

Prakāśa 2: प्रातिपदिकप्रकाशः

प्रकाशः 2 • प्रातिपदिकप्रकाशः

Prakāśa 2 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1013 Verses • Citations: SP 2.1–1013 • 4 Lexicon Terms • Page 6 of 34 (Verses 30 shown)
तत्र प्रथमः समासार्थः काकतालमिति, द्वितीयः प्रत्ययार्थः काकतालीयमिति। समासश्‍चायमस्मादेव ज्ञापकाद् यदाह 'समासाच्च तद्‍‌विषयाद् (५.३.१०६) आकस्मिक इवार्थे छो भवति। तद्‍‌विषयादित्यत्र हि तदित्यनेन 'इवे प्रतिकृतौ' (५. ३.९६) इति इवार्थः। एवम्
अजाकृपाणीयम् (काशिका ५.३.१०६), अन्धकवर्त्तकीयम् (काशिका ५.३.१०६), घुणाक्षरीयम्, अर्धजरतीयम्, गोमयपा/वा—यसीयम् (गणरत्न. ३.३.१९६) इति।
कारकावच्छिन्नः कारकविशिष्टः। यथा— मतस्य करणं मत्यम्, पीलूनां पाकः पीलुकुणः, जनस्य जल्पो जन्यः, शिवस्य भवनं शिवतातिः, नासाया अवनतिः अवटीटः (५.२.३१), धने कामः धनक इति।
सम्बन्धिनाऽवच्छिन्नः संबन्धिविशिष्टः। यथा— हल्यः, कर्षः, सौधः संकोचः, पौरुषेयो वधः, आथर्वण आम्नायः, वैदो घोषः, छान्दोग्यो धर्मः इति। उपाधिरपि संबन्ध्येव भवति। यथा— गार्गिकया विकत्थते, काठिकया अधिक्षिपति, गार्गिकामन्ववेतः, गार्गिकामवगतवान्, काठिकामवगतवान् इति। धात्वर्थोऽपिभाव एव।
क्रियापि ह्युपमानेन परीता परिच्छिन्ना साध्यसिद्धभावो भवति। स त्रिधा— १. भावविशिष्टः, २.कारकविशिष्टः, ३.संबन्धिविशिष्टश्‍चेति। तेषु—
१. भावविशिष्टो यथा— ब्राह्मणेन तुल्यमधीते ब्राह्मणवत्, राज्ञा सदृशं वर्त्तते राजवत्, जडस्य तुल्यं ब्रूते जडवत्, सूर्य इव प्रकाते सूर्यवत्, पिता यथा पालयति पितृवत्, गुरुरिवानुशास्ति गुरुवदिति।
अत्र ब्राह्मणादिस्थासु अध्ययनक्रियासु साहचर्याद् वृत्तिः, जातिद्रव्ययोरन्यतरेण क्रियायाः सादृश्यानुपपत्तेः। यदाह— 'तेन तुल्यं क्रिया चेद् वतिः' (५.१.११५); तेनेति तृतीयासमर्थात् तुल्यमित्येतस्मिन्नर्थे वतिप्रत्ययो भवति तत्‍तुल्यं क्रिया चेत् सा भवति। अर्थपरं चैतत्; तेन सदृशेत्यादिप्रयोगेष्वतृतीयान्तादपि भवति।
२. कारकविशिष्टो यथा— राज्ञेव व्यवहृतमनेन राजवत्, देवमिव भवन्तं पश्यामि देववत्, असिनेव दात्रेण च्छिनत्ति असिवत्, ब्राह्मणायेव यदा देवदत्ताय ददाति ब्राह्मणवत्, पर्वतादिवासनादवरोहति पर्वतवत्, पितरीव गुरावाचरते पितृवत्।
अत्र पुनरिदमेव सूत्रमन्यथा व्याख्यायते— 'तेन कारकविशेषेण तुल्यं यथा भवति। एवं चेत् क्रिया भवति भावोत्पन्नेऽपि हि प्रत्यये कदाचित् प्रत्ययमुखेन क्रियाविशेषणं भवति, कदाचित् प्रकृतिमुखेन। यथा— तीव्रः पाकः, तीव्रं पाकम् इति।
३. सम्बन्धिविशिष्टो यथा— ब्राह्मणस्येवाऽध्ययनमस्य ब्राह्मणवत्, राजवद् रौद्रं वृत्तमस्य राजवत्, जडस्य सदृशं वचनमस्य जडवत्, सूर्यस्येव प्रकाशोऽस्य सूर्यवत्, पितुर्यथा पालनमस्य पितृवत्, गुरोस्तुल्यमनुशासनमस्य गुरुवत् इति। अत्र तु 'तत्र तस्येव' (५.१.११६) इत्यनेन वतिः। ननु च 'तेन तुल्यमि'— (५.१.११५) त्यनेनैव सिद्धे किमर्थं 'तत्र तस्येव' इति सूत्रस्यारम्भः? द्रव्यगुणयोतुल्ययोः प्रत्ययो न लभ्य इति। यथा— मथुरायामिव पाटलिपुत्रे प्रासादा मधुरावत्, ब्राह्मणस्येव क्षत्रियस्य शुक्ला दन्ता ब्राह्मणवत् इति। यद्येवं पूर्वसूत्रे क्रियाग्रहणं न करिष्यते। साहचर्याच्च क्रियायामिव द्रव्यगुणयोः प्रातिपदिकं वर्त्तिष्यते। ततश्‍च मैत्रेयतुल्या गावश्‍चैत्रस्य, ब्राह्मणेन तुल्या दन्ताः क्षत्रियस्य इति विगृह्य पूर्वसूत्रेणैव वतिः सेत्स्यतीति। तदसत्।
एवं हि गवयेन तुल्योऽनड्वान् इत्यत्रापि प्रत्ययः प्रसजेत्, इवार्थे तु प्रत्यये सप्तमीषष्ठ्यन्ताभ्यामेव विधीयमाने गवय इवाऽनड्वानित्यत्र प्रत्ययप्रसङ्गो न स्यात्; सप्तम्यन्तषष्ठ्यन्तयोर्हि बाह्यं सम्बन्धिनमपेक्ष्य इवशब्दप्रयोगो भवति, न पुनरिवार्थापेक्षयेव; इवशब्दो ह्युपमानोपमेयलक्षणसंबन्धद्योतकः, न तु सम्बन्धि— रूपाभिधायी। तस्माद् गवयेन तुल्योऽनङ्वानित्यत्रापि मा भूत् प्रत्ययप्रसङ्ग इति पूर्वसूत्रे क्रियाग्रहणम्। तस्मिंश्‍च कृते द्रव्यगुणयोस्तुल्ययोः प्रत्ययो न स्यादिति सप्तमीषष्ठ्यन्ताभ्यामिवार्थे 'तत्र तस्येव' इति वतिर्विधीयते।
अथ 'तदर्हम्' (५.१.११७) इति किमर्थम् ?
अर्हतो या क्रिया कर्त्तुस्तत्रापि वतिरिष्यते।
उपमानाविवक्षायां तद्‌विधानं न लभ्यते ॥ ८ ॥
उपमानोपमेयत्वमन्यस्यान्येन वा सह।
अवस्थाभेदभिन्नत्वादेकस्याप्यात्मनैव वा ॥ ९ ॥
तत्रान्यस्यान्येन यथा— अवैयाकरणोऽप्ययं वैयाकरणवद् ब्रूते; योषिदप्येषा पुंवद्‌वक्‍तीति; अवस्थाभेदभिन्नत्वादेकस्याप्यात्मनो यथा— वैयाकरणः केनचिदुच्यते वैयाकरणवद् ब्रूहीति; योषिदप्युच्य़ते स्त्रीवद् वदेति। वैयाकरणोऽप्यवज्ञया कदाचिद् — वैयाकरणवद् ब्रूते। श्रूयते हि— यर्वाणस्तर्वाणो नाम साक्षात्कृतध /?/र्म्माण ऋषयो बभूवुः। ते हि 'अन्तर्वेद्यामेव न म्लेच्छितव्यम्, अतोऽन्यत्रावज्ञया' इति 'यद्‌वा नस्तद्‌वा न' इति वक्‍तव्ये यर्वाणस्तर्वाण इत्यूचुः {मभा.१.१.१ (९)}। योषिदपि कदाचिदाश्रितप्रागल्भ्यात् पुंवद्‌वक्ति यथोच्यते—
सरस्वतीव कर्णाटी विजयाङ्का जयत्यसौ। या वैदर्भगिरां भूमिः कालिदासादनन्तरम् ॥ १० ॥
अस्यौपम्यद्वयस्यापि विवक्षातोऽपरिग्रहे।
वतिः कथमिवार्थीय इति मत्वायमुच्यते ॥ ११ ॥
तत्र 'राजवद् वृत्तमित्यत्र यदा एवंविधा अर्थविवक्षा— 'पृथ्वादिना राज्ञा तुल्यं वृत्तम् अनेन राज्ञा राजवद् वृत्तं राज्ञे'—ति तदाऽऽद्येनैव सूत्रेण सिद्धः प्रत्ययः; यदा त्वेतादृशी विवक्षा—'राज्ञ इव पृथोरस्य वृत्तं राजवद्‌वृत्तं राज्ञ इति तदा द्वितीयसूत्रेण। यदा त्विदं वृत्तं राजानमेवाऽर्हति नान्यमित्युपमानोपमेयभावाभावे राजवद् वृत्तमिति प्रयोगस्तदा 'तदर्हम्' इत्यनेन वतिर्विधीयत इति नानर्थकः सूत्रारम्भः ॥
अन्ये तु 'तेन तुल्यं क्रिया चेद् वतिः' इत्यत्र द्वितीयव्याख्यानपक्षे क्रियायाः क्रिया विशेषणं न संभवतीति कारकविशिष्टभावपक्षं 'तदर्हम्' इत्यनेन संवाहयति, राजानमर्हति यद् व्यवहरणम्, देवमर्हति यद् दर्शनम्, असिमर्हति यच्छेदनम्, ब्राह्मणमर्हति यद्‌दानम्, पर्वतमर्हति यदवरोहणम्, पितरमर्हति यत् पारतन्त्र्यम् तदुच्यते राजवत्, देववत्, असिवत्, ब्राह्मणवत्, पर्वतवत्, पितृवदिति। राज्ञेव व्यवहृतमित्यादिभिस्तु तस्यार्थः प्रदर्शित' इति ॥
कारकमपि भाववदेवाऽन्तरङ्गं बहिरङ्गं च।
तयोराख्याताभिधेयमन्तरङ्गम्, अनाख्याताभिधेयं बहिरङ्गम्।
(अन्तरङ्गभेदेषु) कर्त्ता, हेतुकर्त्ता, कर्मकर्त्ता, कर्म चेति;
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →