Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 02

Prakāśa 2: प्रातिपदिकप्रकाशः

प्रकाशः 2 • प्रातिपदिकप्रकाशः

Prakāśa 2 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1013 Verses • Citations: SP 2.1–1013 • 4 Lexicon Terms • Page 10 of 34 (Verses 30 shown)
अथ 'कृतपूर्वी कटम्' इति कथम्? न ह्यनेनाऽपि प्रयोगेण भवितव्यम्।
द्वितीयया तावन्नोत्पत्तव्यम्।
प्रत्ययेनापि नोत्पत्तव्यम्।
असामर्थ्यात्। कथमसामर्थ्यम्? सापेक्षमसमर्थं भवतीति।
उच्यते— नायं कर्मणि क्तः, अपितु भावे। भावसाधनेन च कृतशब्देन योच्यते क्रिया तयेप्सितं कटादि कर्म अनभिहितमेवेति।
तत्र यथा 'ग्रामं गतो देवदत्त' इति धातु—निष्ठाभ्यामभिधीयमानयोः क्रियाकर्त्रोर्ग्रामादिकर्मभिरभिसम्बन्धो भवति, एवं कृतपूर्वीति कृतशब्देन तद्धितेन वाऽभिधीयमानयोः क्रियाकर्त्रो कटादिकर्मभिरभिसम्बन्धो भवतिः तथाहि— कृतं पूर्वमनेनेत्यस्मिन्नर्थे कृतपूर्वीशब्दस्तद्धितान्तो वर्तते; तेन च पूर्व कृतवानित्ययमर्थः संपद्यते। एवं च सापेक्षत्वाभावान्नास्त्यसामर्थ्यम्। अस्ति च करोतिवाच्यक्रियापेक्षं कटस्य कर्मत्वमिति तद्धितद्वितीयोत्पत्त्योर्नानुपपत्तिः। तदुक्तम्— (वाप.वृत्ति—६७) इति।
अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः।
संबध्यते क्रिया तद‍्‍वत् कृतपूर्व्यादिषु स्थिता ॥ १५ ॥
यदा तु कृतः पूर्वं कटोऽनेनेति विग्रहः, तदापि न दोषः, यतो यद्यपि कृतादिशब्दाः कर्मणि व्युत्पद्यमानाः सामानाधिकरण्यात् कटादिकर्मविशेषं निर्भुञ्जते, तथापि नेत्थम्भूता एव प्रत्ययमुत्पादयन्ति, वृत्तीनां विशेषप्रत्यायनासामर्थ्यात्; अतो वृत्तिविषयेऽनपेक्षितविशेष— कर्मान्तर्भूतकर्मसामान्योऽन्य एव कृतशब्दो भवति।
अविवक्षितकर्माणोऽन्तर्भूतकर्माणश्‍चाऽकर्मका एव जायन्ते, यथा— तस्माद् दीक्षितो न ददाति न पचति न जुहोति इति। एवमकर्मकत्वेऽन्तर्भावाभिधाय्येव, तच्चानपेक्षत्वात् सामर्थ्ये सति प्रत्ययमुत्पादयति। प्रत्ययार्थश्‍च कर्त्ता क्रियया प्रकृत्यर्थेन यदीप्सति तत् कर्म अनभिहितं प्रत्ययेन, ततो द्वितीया भवति। तदुक्तं भाष्ये (२.३.६५)— 'योऽसौ कृतकटयोः संबन्धः स उत्पन्ने प्रत्यये निवर्त्तते; अस्ति च करोतेः कटेन सामर्थ्यमिति द्वितीया भविष्यति कृतपूर्वी कटमिटि'। हरिरप्याह—
विशेषकर्मसम्बन्धे विनिर्भुक्ते कटादिभिः।
विशेषनिरपेक्षोऽन्यः कृतशब्दोऽवकल्पते ॥ १६ ॥
अकर्मकत्वे सत्येवं क्तान्तं भावाभिधायि यत्।
तेन क्रियावता कर्त्रा योगो भवति कर्मणाम् ॥ १७ ॥
(वाप. ३.६५—६६ वृत्तिः) इति।
यदि वा शास्‍त्रप्रक्रियाभ्यासबाधितमतीनामेवायमभिमानः वाक्यार्थे वृत्तयो भवन्ती—ति। परमार्थतस्तु वृत्तिवाक्ययोरन्यत्वमेव मन्यन्ते, अर्थविप्रकर्षात्। यथाहि— वाक्ये यः कटादिसम्बन्धः स वृत्तौ नास्ति, तस्यान्तर्भूतकर्मणः कृतशब्दस्य भावाभिधायित्वात्। तदुक्तम्— (वाप.३.६४ वृत्तिः)
विशेषः श्रूयमाणोऽपि प्रधानेषु गुणेषु वा।
शब्दान्तरत्वाद् वाक्येषु वृत्तौ नित्यं न विद्यते ॥ १८ ॥
भाष्यकारोऽप्याह (२.३.६५)— 'नेदमुभयं युगपद् भवति वाक्यं च प्रत्ययश्‍च; यदा वाक्यं न तदा प्रत्ययः, यदा प्रत्ययः सामान्येन तदा वृत्तिः। तत्राऽवश्यं विशिषार्थिना विशेषोऽनुप्रयोक्‍तव्यः 'कृतपूर्वी कटमि'—ति। एवमधीतमनेन, अधीतं व्याकरणमनेन' इति वा अधीती व्याकरणे इत्यपि व्याख्यातम्।
(३. सम्बन्धितद्धिताः (षष्ठी))
सम्बन्धी द्विधा— प्रधानं गुणभूतश्‍च।
तयोः प्रथमान्ताभिधेय प्रधानम्।
स त्रिधा— १. द्रव्यरूपः, २. गुणरूपः ३. अभिन्नरूपश्‍च। तेषु —
(१. द्रव्यरूपः) 'तस्याऽपत्यम्' (४.१.९२) इत्यादिराश्रयवचनो द्रव्यरूपः।
स द्विधा निरपेक्षः सापेक्षश्‍च। तयोः —
निरपेक्षो यथा— वसिष्ठस्यापत्यं वासिष्ठः, पाणिनेः शिष्यः पाणिनीयः, पञ्चालानां राजा पाञ्चालः, पृथिव्या ईश्‍वरः पार्थिवः, पाटलायाः पुष्पं पाटलम्, जम्ब्याः फलं जाम्बवम् इति।
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →