अथ
शृङ्गारप्रकाशे द्वितीयः प्रकाशः
प्रातिपदिकप्रकाशः
(५. प्रातिपदिकम्)
प्रातिपदिकं त्रिधा—
१. विभक्तावयवम्,
२. अविभक्तावयवम्१
३. अनुकरणं च। तत्र२
१. विभक्तावयं त्रिधा— १. कृद्रूपम्, २. तद्धितरूपम्, ३. समासरूपं च। तेषु —
(१. कृद्रूपम् विभक्तावयम्)
भाव—कारकाऽभिधायिनो धातुप्रत्ययाः कृतः। तत्र—
(भावः —६)
धात्वर्थ एवाऽपूर्वापरीभूतो भावः। यदाह— (वाप. ३.८.१२)
कालानुपाति यद् रूपं धात्वर्थस्य क्रियेति तत्।
परितो यत् परिच्छिन्नं तद्भाव इति कथ्यते ॥ १ ॥
स (भाव) इह षोढा संभवति— १. सिद्धः, २. साध्यः, ३. सिद्धासमाप्तः, ४. साध्याऽसमाप्तः, ५. सिद्धसाध्यः, ६. साध्यसिद्धश्चेति। तेषु—
(१. सिद्धः)
उद्भूतप्रत्ययांशत्वेन क्रियाऽनुद्रेकात् सत्त्वभूतत्वे लिङ्गसंख्याद्युपग्राही 'कर्तृकर्मणोः कृति' (२.३.६५) इति सम्बन्धविभक्तेर्निमित्तं सिद्धः। यथा— 'आश्चर्यमिदमोदनस्य च पाको ब्राह्मणानां च प्रादुर्भावः, भेदिका काष्ठानां देवदत्तस्य, चिकीर्षा यज्ञदत्तस्य कटस्य' इति। अत्र 'उभयप्राप्तौ कर्मणि (२.३.६६) एवेति नियमे उभयोः प्राप्तिर्यस्मिन् कृति' इति व्याख्यानात् (मभा. २.३.६६) अकाकारयोश्च नियमप्रतिषेधात् कर्त्तर्यपि षष्ठ्येव भवन्ती भावस्य सिद्धतां द्योतयति।
१. द्र. पृ० ११९। २. द्र. पृ० १२०।
(२. साध्यः)
उद्भूतप्रकृत्यंशत्वेन क्रियोद्रेकादसत्त्वभूतत्वे लिङ्गसंख्याद्यनुपग्राही कर्तृकर्मणोः कारकविभक्तेरेव निमित्तं साध्यः। यथा— ओदनं भोक्तुं याति, स्वाध्यायमधीत्य स्नाति, पयः पायंपायमास्ते इति। अतएव 'न लोकाव्ययखलर्थतॄनाम्' (२.३.६९) इत्यादिना षष्ठी निषिध्यते।
(३. सिद्धासमाप्तः)
सिद्ध एव तद्धितानुबन्धी सिद्धासमाप्तः। यथा — व्यावक्रोशी, सांकूटिनम्, कृत्रिमम् इति। अत्र
यथा 'आभिजित्यः, कौञ्जायन्यः' इत्यादावणाद्यभिहितोऽप्यपत्यार्थः, तैत्तिरीयाः छागलेयिनः इत्यादौ छणाद्यभिहितोऽपि प्रोक्तार्थः, स्वार्थिकाध्येतृवेदितृविषय— तद्धितोत्पत्तिमन्तरेण न समाप्यते, तथा व्यतिहाराभिविध्युपाधिको णजिनुणुक्तः शुद्धश्च क्त्र्यभिहित सिद्धोऽपि भावः स्वार्थिकनिर्वृत्ताथीयितद्धितोत्पत्तिमन्तरेण न समाप्यत इति सिद्धासमाप्तो भवति।
(४. साध्यासमाप्तः)
साध्य एवानुप्रयोगानुबन्धी साध्यासमाप्तः। यथा चकासाञ्चकार विदाङ्कुर्वन्तु, रैपोषं पुष्यति इति। अत्र
यथा शुक्लीभवति, पटपटाकरोति इत्यादावभूततद्भावादिषु च्व्याद्यन्तम्, लुनीहि लुनीहि इत्येवायं लुनाति, भ्राष्ट्रमट मठमट खदूरमटेत्येवायमटति इत्यादिषु क्रियासमभिहारादिषु लोडन्तम् अनभिव्यक्त पदार्थकत्वादसमाप्तं स्वार्थाभिव्यक्तये कृभ्वाद्यनुप्रयोगं यथाविध्यनुप्रयोगं चापेक्षते तथा आमन्तं णमुलन्तं चाऽनभिव्यक्त— पदार्थकत्वादसमाप्तं साध्यरूपमेव स्वार्थाभिव्यक्तये कृभ्वाद्यनुप्रयोगं यथाविध्यनुप्रयोगं चापेक्षते इत्येतदुक्तो भावः साध्याऽसमाप्ते। भवति। तदाह — आम इव णमुलोऽप्यसमाप्तार्थत्वाच्चादिवदनुप्रयोगः सिद्ध एवं। यथाविध्यर्थं तु वचनं 'कषादिषु यथाविध्यनुप्रयोगः' (३.४.४६) इति। तेन चकासाञ्चकार इतयादिनाऽयमर्थो भवति चकास्ति स्म, विदन्तु, रायः पुष्यन्नमुं पुष्यति इति। अतएव क्रियाविशेषणेनैव सिद्धमिति न केचित् णमुल्प्रकरणमारभन्ते।
ननु च,
क्रियाविशेषणानां कर्मता नपुसकता च; कथं च पुषेरेव पुषिः कर्म भवति। न ह्यात्मनैवात्मा व्याप्यते, न हि सुशिक्षितोऽपि वटुः स्वं स्कन्धमारोढुं शक्नोति।
नैवम्।