Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 02

Prakāśa 2: प्रातिपदिकप्रकाशः

प्रकाशः 2 • प्रातिपदिकप्रकाशः

Prakāśa 2 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1013 Verses • Citations: SP 2.1–1013 • 4 Lexicon Terms • Page 28 of 34 (Verses 30 shown)
(३) अक्रियो द्विधा १. वस्तुरूपः २. अवस्तुरूपश्‍च। तयोः
वस्तुरूपो यथा— उपकुम्भम्, त्रिभुवनम्, नीलोत्पलम्, राजपुरुषः, चित्रगुः, धवखदिरौ इति।
अवस्तुरूपो यथा— अधिस्त्रि, प्रत्युरसम्, यथाशक्ति, यावदमत्रम्, पारेगङ्गम्, मध्येसमुद्रम् इति।
अयं तूपश्‍लिष्टक्रियो गमितक्रियश्‍च भवति। यथा—
आयतीगवमागच्छत्यातिष्ठद्गूपतिष्ठते।
निकुच्यकर्णि शार्दूलोऽपोह्यपुच्छि प्रधावति ॥ ५५ ॥
१शलाकापर्यभिद्यूनं चतुष्पर्यक्षपर्यपि।
विपर्यस्ते विधौ यश्‍च नलादेरपि जायते ॥ ५६ ॥
केशाकेशि, बाहूवाहवि, दण्डादण्डि, मुष्टीमुष्टि, इत्यपि गमितक्रियमसत्त्वरूपं केचित्। यथा— (माघ. १८.१२)
रोषावेशादाभिमुख्येन कौचिन्नामग्राहं रंहसैवोपजातौ।
भित्त्वा हेती मल्लवन्मुष्टिघातैर्घ्‍नन्तौ बाहूबाहवि व्यासजेताम् ॥ ५७ ॥
केचित् पुनरस्य वस्तुरूपत्वं ब्रुवते। यथा—
दण्डादण्डि न कुर्वन्ति न कचाकचि कोकिलाः।
तथापि जितमेवाभिर्वाग्भिरेव जगत्त्रयम् ॥ ५८ ॥
कुतः पुनरेतद् यदेकदा दण्डादण्ड्यादयः सत्त्वरूपाः, अन्यदा त्वसत्त्वरूपा इति ?
'तत्र तेनेदमिति सरूपे' (२.२.२७) सूत्रस्य व्याख्यानभेदात्। तत्रास्य सूत्रस्यायमर्थः—द्वे समानाकृती शब्दरूपे अन्यपदार्थे समस्येते तत्रेति तेनेति च।
केचिदाहुः — इतिशब्दस्य प्रकारवाचकत्वादित्थमिति, केचित् पुनः इदमित्थमिति। तत्र पूर्वस्मिन् पक्षेऽसत्त्वरूपता, इतिशब्दस्यासत्त्ववाचित्वात्। उत्तरस्मिन् सत्त्वरूपता, इदमिति सर्वनाम्‍ना वस्तुरूपपरामर्शात्।
योऽसौ तत्रेत्यधिकरणे तेनेति करणे वा इदमर्थानुयायिनी इतिकर्त्तव्यतारूपा क्रिया, 'तत्र गृहीत्वा', 'तेन प्रहृत्य' इत्यादिकः सर्वनामार्थो यत्तदिति, तदिति व्यपदेशार्थग्रहण— प्रहरणादिकायाः क्रियायाः साध्यं युद्धादि।
तदाह चन्द्रगोमी 'तत्र गृहीत्वा तेन प्रहृत्य युद्धे सरूपम्, सुप्सुपैकार्थं भवति' (चान्द्रव्या. २.२.४७, २.२.१) इति।
१. अत्र 'शलकापरि, चतुष्परि, अक्षपरीति द्यूतपरिभाषाः। ततश्‍चोत्तरार्धे नलादेरित्येव युज्यते पठितुम् न तु 'तलादे' रिति। तत एव उत्तरार्धमस्पष्टमिति राघवाचार्यः। न च 'पाण्डुलेखो न परिवर्त्तनीय' इति मर्यादाया नलपाठे नास्ति रक्षेति राघवार्यैरपि न रक्षिता सा 'सर्वत्र' पाठान्तरं पश्यद्भिरेभिरारम्भत एव स्वैरं पठितान्यथामूलपाठत्वस्य दृष्टचरत्वात्। नस्य तत्वेनावबोधो लिपिभ्रम एव।
'सरूप' इत्येकशेषापवादने द्वयोरधिकरणयोः करणयोश्‍च तुल्यकालनिर्देशात्। तर्हि द्वयोस्तुल्यबलयोः प्रतियोगिनोर्व्यापारमन्तरेण द्वयोरधिकरणयोः करणयोर्वा तुल्यकालनिर्देशो भवति, तथापि युद्धादिनियमो (न) लभ्यते।
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →