इदं तर्हि तत्कृतस्य प्रयोजनम्— द्रव्यवचनैः कारकसमासे तदनुरूपा क्रियाऽध्याहर्त्तव्येति। तद्यथा अक्षेषु प्रसक्तः शौण्डः अक्षशौण्ड इति।
अथ द्रव्यवचनैस्यत्कृतसमासे गुणवचनेनेत्यपि किमर्थम् ?
इह मा भूद्—धान्येन धनवान्, गोभिर्वपावानिति ॥
अथ अश्राद्धभोजीति कोऽयं समासः ?
असमर्थनञ्तत्पुरूषः। (मभा. २.१.१)।
किं पुनरिहाऽसामर्थ्यम् ?
पूर्वोत्तरपदयोर्मिथोऽनपेक्षा। तथाहि अश्राद्धभोजीति भुजिक्रियया नञः सम्बन्धः, न श्राद्धेन। न हि तस्यायं नियमो न श्राद्धं भोक्तव्यमिति, अपितु श्राद्धं न भोक्तव्यमिति। यत्र हि वर्त्तिपदार्थसमवायिनी क्रियाऽभिधीयमाना प्रतीयमाना वा स्वभावतो निवृत्ता नञा द्योत्यते 'अपाचकः, अब्राह्मण' इति, तत्रैव सामर्थ्यम्। यत्र तु बाह्यक्रियया नञः संबन्धस्तत्राऽसामर्थ्यमेव। यथा सूर्यमपि न पश्यन्ति असूर्यंपश्या राजदाराः, न पुनर्गीयन्ते अपुनर्गेयाः श्लोकाः, लवणं न भुङ्क्ते अवलणभोजी भिक्षुरिति।
नन्वेवम्— अवयवार्थव्यतिरिक्तसमुदायार्थाभावेऽर्थवत्त्वाभावात् कथं प्रातिपदिकंसंज्ञा ?
समासग्रहणादिति चेद् अनर्थके कृतार्थत्वान्नियमाऽनुपपत्तिः। ततश्चार्थवतो वाक्यस्यापि प्रातिपदिकत्वप्रसङ्गः।
ननु च असू्र्यललाटयोदृशितपोः (३.२.३६), इत्यनेनासमर्थनञ्समासानां साधुत्वे ज्ञापिते 'अकिञ्चित्कुर्वाण', 'अमाषंहरमाणः', अगाधादुत्सृप्त/ष्टम् (मभा. २.१.१.) इत्यादीनामपि मा भूत् समास इत्यसूर्यंपश्यादयश्चत्वार एवाऽसमर्थसमासाः परिगण्यन्ते, (मभा.२.१.१.) परिगणनसामर्थ्यादेव प्रातिपदिकसंज्ञापि भविष्यति, तथाप्यनर्थकत्वादा— श्रयाऽभावे, संख्याकर्माद्यभावे तेषा वाचिका द्योतिका वापि विभक्तयो नोत्पद्येरन् ?
नैवम्, समुदायस्तावदानर्थक्येऽपि 'न केवला प्रकृतिः प्रयोक्तव्या' इति नियमादवश्यमेवाव्ययादिवद् विभक्तिमात्रमपेक्षते, अवयवस्त्वर्थवत्त्वात् संख्याकर्मा— देराश्रयत्वेन तां विशिष्टामेवाङ्गीकरोति। ततश्च यथाऽऽतुरानातुरयोरेकभोजन— प्रतिपत्तावातुराणां भोजनमनातुरोऽपि प्रतिपद्यते तथाऽवयवार्थाऽनुग्रहार्थकोऽपि समुदायो विभक्तिविशेषमेव प्रतिपत्स्यत इति न कश्चिद् दोषः।
ननु 'असत्येकार्थीभावे व्यपेक्षाधर्माः कथं न निवर्त्तन्ते ?'
के पुनस्ते ? 'विशेषणयोगः, समुच्चयः, संख्याविशेष' इति (श्रृ.प्र. ७)। तत्र—
ब्राह्मणस्य शोभनं 'श्राद्धं न भुङ्क्त' इति विशेषणयोगः,
श्राद्धं न भुङ्क्ते बलिमामन्त्रणं चेति समुच्चयः,
श्राद्धं श्राद्धानि वा भुङ्क्ते इति संख्याविशेषयोगः।
ते च वाक्य एवोपलभ्यन्ते, न त्वश्राद्धभोजीति वृत्तौ, न ह्यश्राद्धभोजी(जो)ब्राह्मणस्य शोभनमित्यादि। तत् कथमुच्यते नास्त्यत्रैकार्थीभाव इति ?
नैवम्। अश्राद्धशब्दो ह्यत्राऽसमर्थः, न त्वश्राद्धभोजिशब्दः। अश्राद्धभोजि— विषयाश्चैते विशेषणयोगदयः प्रतीयन्ते, नाश्राद्धविषया इति।
ननु च यद्यश्राद्धशब्दः समुदायार्थाभावादनर्थकः, अश्राद्धभोजिशब्दोऽप्यर्थवद— नर्थकसंघातत्वादनर्थकः प्राप्नोति।
अस्त्वानर्थक्यम्। वाक्यविषयास्तु धर्मा भविष्यन्ति तच्चानर्थक्यमपि परिहर्त्तव्यम् इदं च वरिह्रियते, शब्दशक्तिरेषा यदभिन्नेऽप्यर्थे केनचिच्छब्देनाभिधीयमाने विश्ोषणादियोगो भवति, केनचिन्न भवति। तत्र वाक्येऽसमर्थसमासपदानामविद्यमानमापि वृत्तौ शब्दान्तरत्वा— दस्त्येकार्थाभिधायित्वमिति।
ननु च, यद्यसामर्थ्येऽपि वचनात् समासः 'किमद्य मे वस्त्रं नीलमुत्पलमालि कर्णे, नेह कश्चित् पुरूषो व्याघ्रः सरति पल्लीम्, पश्य सखि। कष्टं श्रितः प्रियो मे गुरूकुलम्; किं ते शङ्कुलया खण्डो देवदत्त उत्पलेन; गच्छ त्वं यूपाय दारू शोभनं शैले, निवर्त्तस्व वृकाद् भयं देवदत्तस्य यज्ञदत्तात्, भार्या राज्ञः पुरूषो देवदत्तस्य; सक्तस्त्वमक्षेषु शौण्डः पिबति पानागारे' इत्यादावपि समासः प्राप्नोति; स तर्ह्यत्रापि वचनाद् 'विशेषणं विशेष्येण', 'द्वितीया श्रितादिभिः', 'तृतीया तत्कृतेन', चतुर्थी तदर्थेन', पञ्चमी भयेन', 'षष्ठी सुबन्तेन', 'सप्तमी शौण्डादिभिः' समस्यत इति।
विषम उपन्यासः; परिगणनादीन्यसामर्थ्य एव समासार्थमारभ्यन्ते। यथा 'कृतपूर्वी कटमि' त्याद्यर्थं 'पूर्वादिनिः' (५.२.८६), सपूर्वाच्च (५.२.८७) इति। 'विशेषणं विशेष्येण' इत्येवमादीनि तु 'समर्थः पदविधिः' (२.१.१) इति सामर्थ्ये सत्युपादीयन्ते। सामर्थ्यविषयप्रदर्शनार्थमेव च 'विशेषणं विशेष्येण' इति प्रथमायां सामानाधिकरण्यं द्वितीयायां च श्रितादिनियमः, तृतीयायां तत्कृतादिवचनम्, चतुर्थ्यां प्रकृतिविकारभावः, पञ्चम्यां भयादिपरिगणनम्, षष्ठ्यां पूरणादिनिषेधः, सप्तम्यां शौण्डादिनिर्देश इत्युपपद्यते। तेन यत्र विशेषणादिषु सामानाधिकरण्यादेरभावस्तत्रासामर्थ्यात् समासो न भवति ॥
अब्राह्मणोऽयमिति कोऽयं समासः ? समर्थनञ्तत्पुरूषः।
किं प्रधानोऽयम् ?
उत्तरपदार्थप्रधानः। अब्राह्मणमानतेत्युक्ते ब्राह्मणमात्रस्यानयनं प्राप्नोति।
नैष दोषः। इदं तावदयं प्रष्टव्यः—अथेह राजपुरूषमानयेत्युक्ते पुरूषमात्रस्यानयनं कथं न भवति राजाऽत्र विशेषकः प्रयुज्यते तेन राजविशिष्टस्याऽऽनयनं भवष्यिति।
इहापि नञ्—विशेषकः प्रयुज्यते, तेन नञ्विशिष्टस्यानयनं भविष्यति।
कः पुनरसौ ?
निवृत्तपदार्थकः। यदा पुनरस्य पदार्थो निवर्त्तते तदा किं स्वाभाविकी निवृत्तिः ? आहोस्विद् वाचनिकी ?
किं चाप्तः ? यदि स्वाभाविकी किं नञ् प्रयुज्यमानः करोति ?