Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 02

Prakāśa 2: प्रातिपदिकप्रकाशः

प्रकाशः 2 • प्रातिपदिकप्रकाशः

Prakāśa 2 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1013 Verses • Citations: SP 2.1–1013 • 4 Lexicon Terms • Page 19 of 34 (Verses 30 shown)
विभाषितैकवद्‍भाव उभयविषयः। यथा— अश्‍वबडबौ, अश्‍वबडबम् (२.४.१२), हंसचक्रवाकाः, हंसचक्रवाकम् (मभा. २.४.१२)। धवखदिरपलाशा धवखदिरपलाशम् (२.२.२९) इति ॥
प्रकृतेरन्यथात्वं विकृतिः, तत्र भवो वैकृतः।
सोऽपि चतुर्धा— (१) प्राधान्यविपरीतः, (२) सामर्थ्यविपरीतः, (३) वाक्याधिकारार्थः, (४) अर्थान्तरगामी च। तेषु —
प्रधान्यविपर्ययस्‍त्रिधा— पूर्वपदार्थप्राधान्यविपर्ययः, उत्तरपदार्थप्राधान्यविपर्ययः, अन्यपदार्थप्राधान्यविपर्ययश्‍चेति। तत्र—
पूर्वपदार्थप्राधान्यविपर्ययोऽव्ययीभावो यथा— शाकप्रति (२.१.९), अक्षपरि (२.१.१०), तिष्ठद्गु (२.१.१७), उन्मत्तगङ्गम् (२.१.२१), पञ्चनदम् (२.१.२०पा.), सप्तगोदावरम् (२.१.२० पा.) इति।
उत्तरपदार्थप्राधान्यविपर्ययस्तत्पुरुषो यथा— राजदन्तः (२.२.३१), पूर्वकायः (२.२.१), प्राप्तजीविकः (२.२.४), गोगर्भिणी (२.१.७१), अश्वमतल्लिका (२.१. ६६), गोवृन्दारक (२.१.६२) इति।
अन्यपदार्थप्राधान्यविपर्ययो बहुव्रीहिर्यथा— 'द्वौ वा त्रयो वा' द्वित्राः (५.४.७३), एवं पञ्चषाः (५.४.७३), आसन्नो दशानामासन्नदशः (२.१.१ वा ३), एवम् अदूरदशः (२.१.१), एवं द्विर्दश द्विदशाः, एवं त्रिदशाः (२.१.१) इति।
सामर्थ्यविपर्ययस्‍त्रिधा पदाऽसामर्थ्यात्, वाक्यासामर्थ्यात्, वृत्त्यसामर्थ्यात्। तत्र—
पदाऽसामर्थ्यं सापेक्षत्वे यथा— देवदत्तस्य गुरुकुलम् (२.१.१ वाप.), ग्रामं गन्तुकामः, ज्ञातचित्तः कान्तया, निवेदितात्मा गुरुभ्यः, कृतप्रस्थानो नगरात्, निष्पन्नबुद्धिः शास्‍त्रेषु इति।
वाक्याऽसामर्थ्यमस्वपदविग्रहे यथा— ब्राह्मणेभ्योऽयं ब्राह्मणार्थः सूपः (२.१.३६ मभा.), ब्राह्मणार्था यवागूः (२.१.३६ मभा.), मासो जातस्य मासजातः (२.२.५)। एवं संवत्सरजातः (२.२.५), द्वे अहनी जातस्य द्व‍यहजातः, एवं द्व‍यह्नजात इति।
वृत्त्यसामर्थ्यं सम्बन्धे यथा— सूर्यमपि न पश्यन्ति असूर्यंपश्या राजदाराः, पुनर्न गीयन्ते अपुनर्गेयाः श्लोकाः, श्राद्धं न भुङ्क्ते अश्राद्धभोजी ब्राह्मणः।
एवम् अलवणभोजी भिक्षुरिति, तीर्थे ध्वाङ्क्ष इव तिष्ठतीति तीर्थध्वाङ्क्षः (२.१.४२)। एवं तीर्थकाक (२.१.४२) इति।
अर्थाधिक्यं त्रिधा— विशेषणस्य, विशेष्यस्य, समुदायस्य च।
विशेषणस्य यथा— वर्षशतमायुरस्य शतायुः (तै.सं. २.३.११.५), जनसहस्रं बिभर्त्ति सहस्रंभरः (तैसं. ३.४.११.२), अश्रेणयः श्रेणयः कृताः श्रेणीकृताः (२.१. ५९), अपण्डितः पण्डित उक्तः पण्डितोक्‍तः, शस्‍त्रीव श्यामा शस्त्रीश्यामा (२.१. ५५), पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्र इति।
विशेष्यस्य यथा—घृतेन पूर्णो घटः घृतघटः (मभा. २.१.१), अश्‍वैर्युक्तो रथोऽश्‍वरथः (मभा. २.१.१), दघ्‍नोपसिक्‍त ओदनो दध्योदनः (म.भा. २.१.१), गुडेन मिश्रा धाना गुडधानाः (मभा. २.१.१), अक्षेषु प्रसक्तो धूर्त्तः अक्षधूर्त्तः (मभा. २.१.४०), शाकप्रधानः पार्थिवः शाकपार्थिव इति।
समुदायस्य यथा— श्‍वभिर्लेह्यः कूपः श्‍वलेह्यः कूपः (२.१.३३ काशिका), काकैः पेया नदी काकपेया नदी (२.१.३३ काशिका), खट्वायामारूढः खट्वाऽऽरूढो जाल्मः, पात्र एव समिताः पात्रेसमिताः, एवं किंराजा यो न रक्षति (२.१.६४ काशिका), किंगौः यो न वहति (२.१.६४ काशिका) इति। अत्र पूर्वयोरतिशयः, शेषेषु क्षेपः समुदायस्य प्रतीयते।
अर्थान्तरगमनं त्रिधा— पूर्वार्थत्यागात्, अत्यागात्, त्यागात्यागाभ्यां च। तत्र—
पूर्वार्थस्य त्यागो यथा— तैलपायिका, शक्रगोपः, अश्‍वकर्णः, पञ्चाङ्गुलः, करवीरः, पुंनाग इति।
अत्यागो यथा— कृष्णसर्पः, लोहितशाली, कालशाकः, गौरखरः, नरसिंहः, दन्तलेख(क) (२.२.१७) इति।
त्यागात्यागौ यथा— सप्त पर्णान्यस्य पर्वणि पर्वणि इति सप्तपर्णः (वाप. वृत्तिः ५५), अष्ट पदान्यस्य पङ्क्तौ पङ्क्तौ इत्यष्टापदम्, शतं पत्राणामस्याः पुष्पे पुष्पे इति शतपत्रिका, दर्शने दर्शने नवैव मालिका अस्या नवमालिका, नक्‍तमिव मालायामस्य नक्तमालः, कृता माला अस्य पुष्पैरिति कृतमाल इति ॥
उदाहृतप्रकाराभ्यामन्यः शेषः।
स चतुर्धा १. सूत्रशेषः, २. असूत्रशेषः, ३. ज्ञापकशेषः, ४. एकशेषश्‍चेति। तेषु
(१) सूत्रशेषस्‍त्रिधा— गणोक्‍तः, वार्त्तिकोक्‍तः सामान्योक्‍तश्‍च। तत्र —
(गणोक्‍तः) तिष्ठद्गुप्रभृतीनि (२.१.१७), पात्रे समितादयः (२.१.४८) मयूरव्यंसकादयः (२.१.७२) इति गणोक्‍तः। यथा— 'आयतीगवम्, समभूमि, उदुम्बरमशकम्, पिण्डीशूरः, अहंपूर्विका, आहोपुरुषिका इति।
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →