Skip to main content
Search
Ch. 2 SP 2.27
Full Chapter
SP • Chapter 2: Prakāśa 2: प्रातिपदिकप्रकाशः

SP 2.27

Canonical Ref: SP 2.27
Sanskrit (Devanāgarī)
यथा शुक्लीभवति, पटपटाकरोति इत्यादावभूततद्‍भावादिषु च्व्याद्यन्तम्, लुनीहि लुनीहि इत्येवायं लुनाति, भ्राष्ट्रमट मठमट खदूरमटेत्येवायमटति इत्यादिषु क्रियासमभिहारादिषु लोडन्तम् अनभिव्यक्त पदार्थकत्वादसमाप्तं स्वार्थाभिव्यक्तये कृभ्वाद्यनुप्रयोगं यथाविध्यनुप्रयोगं चापेक्षते तथा आमन्तं णमुलन्तं चाऽनभिव्यक्त— पदार्थकत्वादसमाप्तं साध्यरूपमेव स्वार्थाभिव्यक्तये कृभ्वाद्यनुप्रयोगं यथाविध्यनुप्रयोगं चापेक्षते इत्येतदुक्‍तो भावः साध्याऽसमाप्ते। भवति। तदाह — आम इव णमुलोऽप्यसमाप्तार्थत्वाच्चादिवदनुप्रयोगः सिद्ध एवं। यथाविध्यर्थं तु वचनं 'कषादिषु यथाविध्यनुप्रयोगः' (३.४.४६) इति। तेन चकासाञ्चकार इतयादिनाऽयमर्थो भवति चकास्ति स्म, विदन्तु, रायः पुष्यन्नमुं पुष्यति इति। अतएव क्रियाविशेषणेनैव सिद्धमिति न केचित् णमुल्प्रकरणमारभन्ते।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 2.27. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 2.26) All Verses in Chapter 2 Next Verse (SP 2.28) →