Skip to main content
Search
Ch. 2 SP 2.652
Full Chapter
SP • Chapter 2: Prakāśa 2: प्रातिपदिकप्रकाशः

SP 2.652

Canonical Ref: SP 2.652
Sanskrit (Devanāgarī)
शब्दशक्‍तेः स्वभावः। प्रतिनियता हि वृत्तिवाक्ययोः शब्दानामभिधानशक्तिः, तद्‌यथा शस्त्रीश्‍यामा देवदत्ता' इति। 'उपमानानि सामान्यवचनैः' (२.१.५५) इति समासे शस्त्रीशब्देनावच्छिद्यमानविशेषावरुद्धः श्‍यामाशब्दो यद्यपि न सामान्यवचनः तथाप्यसौ देवदत्तायामुपमीयमानायां वर्त्तते शस्त्रीव श्यामा देवदत्तेति, तदिदमुक्तं 'प्रागभिसम्बन्धाद् यः सामान्यवचन' (मभा. २.१.५५ वा—२) इति। समासमभिसम्बन्धवचनेन दर्शयति; यतस्तत्र विनिवृत्तविशेषान्तराकाङ्क्षाणि यथासमीहितविशेषाऽवरुद्धानि पदानि। सोऽयं वृत्तिवाक्ययोर्विशेषः।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 2.652. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 2.651) All Verses in Chapter 2 Next Verse (SP 2.653) →