Skip to main content
Search
Ch. 2 SP 2.140
Full Chapter
SP • Chapter 2: Prakāśa 2: प्रातिपदिकप्रकाशः

SP 2.140

Canonical Ref: SP 2.140
Sanskrit (Devanāgarī)
तदसत्, न हि गोत्वं गौरिति ज्ञानस्योत्पत्तावपादानतां जनयत् 'जनिकर्त्तुः प्रकृतिः' (१.४.३०), 'भुवः प्रभवो' (१.४.३१) वा भवति; यथा— शृङ्गाच्छरो जायते, हिमवतो गङ्गा प्रभवतीति। ज्ञानं त्वात्मन एव जायते, मनसैवोद्‍भवति। तदाह— 'व्यापकत्वादप्यात्मनो युगपज्ज्ञानानुत्पत्तिर्मनसो (ऽणुत्वस्य) लिङ्गम्, नाहमद्राक्षम्, नाहमश्रौषम्, नाहमज्ञासिषम्, अन्यत्र मे मनोऽभूदिति। निमित्तत्वं तु गौरिति ज्ञानोत्पत्तौ शब्दस्येव गोत्वादेरपीष्यत एव। तत्र यथा समवायिनः श्‍वैत्यात् श्‍वैत्यबुद्धेः श्‍वेते श्‍वैत्यबुद्धिः, तथा समवायिनो गोत्वाद् गोबुद्धेर्गवि गोत्वबुद्धिः, ते परस्परं कारणभूता इति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 2.140. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 2.139) All Verses in Chapter 2 Next Verse (SP 2.141) →