Skip to main content
Search
Ch. 2 SP 2.57
Full Chapter
SP • Chapter 2: Prakāśa 2: प्रातिपदिकप्रकाशः

SP 2.57

Canonical Ref: SP 2.57
Sanskrit (Devanāgarī)
अपि च 'पयः पायं पायं', पयः पीत्वा पीत्वा, ग्रहमनु प्रवेशमनु प्रवेशम्, गेहमनुप्रविश्यानुप्रविश्य इत्याभीक्ष्ण्यवीप्सयोः पदद्विर्वचनं प्रयोजयन्ति णमुलादयः, न पाच्यते द्विशो देहीति यङ्शसादयः लोलूयत इति द्विर्वचनमन्तरेणापि क्रियासमभिहारमवगमयति यङन्तम् न लुनीहि लुनीहीति लोडन्तम्; कृतपूर्वी कटम्, अधीती व्याकरणम् इति वृत्तिवशेनोज्झितकर्माभिधानशक्‍तयः कर्मविभक्तिं न विघ्नयन्ति निष्ठादयः; ग्रामं गन्तुमनाः, कटं कर्त्तुकाम इति निवृत्तिच्छिन्ना अपि कर्मणि द्वितीया मेव प्रयोजयन्ति तुमुनादयः उभयप्राप्तौ कर्मण्येवेति नियमेऽपि विचित्रा सूत्रस्य कृतिः पाणिनेः इति शब्दानामनुशासनमाचार्यस्य इति समासस्य कर्त्तरि सम्बन्धविभक्तिमप्यु पाददते क्तिनादयः, साध्यार्थाभिधायिनोऽसत्त्वभूतार्था अपि यवाग्वाः पाकायेति कर्मणि सम्बन्धविभक्त्येव संबध्यन्ते घञादयः इति तदुक्तभावः साध्यसिद्धो भवति। (इति भावविमर्शः। अथ कारकविमर्शः।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 2.57. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 2.56) All Verses in Chapter 2 Next Verse (SP 2.58) →