Skip to main content
Search
Ch. 2 SP 2.45
Full Chapter
SP • Chapter 2: Prakāśa 2: प्रातिपदिकप्रकाशः

SP 2.45

Canonical Ref: SP 2.45
Sanskrit (Devanāgarī)
अन्ये त्वन्यथा साध्यसिद्धं वर्णयन्ति— 'उष्ट्रासिका आस्यन्ते' हतशायिकाः शय्यन्ते, यवाग्वाः पाकाय व्रजति इति। अत्र आसिकाशायिकयोगख्याताभिहित— क्रियात्मकत्वात् पाकस्य व्रज्ञिक्रियासाध्यत्वात्, सत्यपि साध्यत्वे लिङ्ग संख्यासम्बन्धि विभक्तियोगाद् विवक्षातः सिद्धत्वमपि गम्यत इत्ययं साध्यसिद्धो भवति। तथापि 'उष्ट्रासिका आस्यन्ते, हतशदिकाः शय्यन्त' इत्यमूभ्यां सामान्यविशेषोपचरित रूपो भावात्मैव प्रत्याय्यते। स आख्याताभ्यां सामान्यरूपेण, ण्वुलन्ताभ्यां विशोषरूपेण। बहुवचनं तु कुत्सातिशयार्थम्; या हि नाम उष्ट्रस्य कुय्सावत्यो बहुप्रकारजुषो बह्व्य आसिका; याश्‍च हतानामतिशयवत्यस्तथाभूता एव भूयस्यः शायिकाः प्रतीताः, ताभिर्विशेषरूपाभिरियमासिका शायिका चोपमानोपमेयसम्बन्धजनितभेदाऽभेद— परिग्रहाल्लकारेणापि सामान्यविशेषभावेन कुत्सातिशयार्थं बहुत्वेनैव प्रत्याय्यते, बहुत्वेन विना सामान्यविशेषभावानुपपत्तेः, तेनोष्ट्रासिका इवासनानि, हतशाविका इव शयनानि क्रियन्ते भवन्तीति वा वाक्यार्थो भवति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 2.45. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 2.44) All Verses in Chapter 2 Next Verse (SP 2.46) →