Skip to main content
Search
PT
Pañcatantram • Chapter 01

Canto 1

प्रथमं तन्त्रम् (मित्र-भेदः)

Canto 1 of Pañcatantram.

Total: 1051 Verses • Citations: PT 1.1–1051 • 1 Lexicon Terms • Page 16 of 36 (Verses 30 shown)
PT 1.451 इन्द्रवज्रा
नद्यश्च नार्यश्च सदृक्-प्रभावास्तुल्यानि कूलानि कुलानि तासाम् । तोयैश्च दोषैश्च निपातयन्ति नद्यो हि कूलानि कुलानि नार्यः ॥
PT 1.452 प्रमिताक्षरा
जननी-मनो हरति जातवती परिवर्धते सह शुचा सुहृदाम् । पर-सात्कृतापि कुरुते मलिनं दुरित-क्रमा दुहितरो विपदः ॥
एवं बहु-विधं विचिन्त्य देवीं रहः-स्थां प्रोवाच-देवि, ज्ञायतां किमेते कञ्चुकिनो वदन्ति ? तस्य कृतान्तः कुपितो येनैतदेवं क्रियते ।
देव्यपि तदाकर्ण्य व्याकुली-भूता सत्वरं कन्यान्तःपुरे गत्वा तां खण्डिताधरां नख-विलिखित-शरीरावयवां दुहितरमपश्यत् । आह च-आः पापे ! कुल-कलङ्क-कारिणि ! किमेव शील-खण्डनं कृतम् । कोऽयं कृतान्तावलोकितस्त्वत्-सकाशमभ्येति । तत्कथ्यतां ममाग्रे सत्यम् ।
इति कोपाटोप-विसङ्कटं वदत्यां मातरि राज-पुत्री भय-लज्जानताननं प्रोवाच-अम्ब, साक्षान्नारायणः प्रत्यहं गरुडारूढो निशि समायाति । चेदसत्यं मम वाक्यम्, तत्स्व-चक्षुषा विलोकयतु निगुढतरा निशीथे भगवन्तं रमा-कान्तम् ।
तच्छ्रुत्वा सापि प्रहसित-वदना पुलकाङ्कित-सर्वाङ्गी सत्वरं राजानमूचे-देव, दिष्ट्या वर्धसे । नित्यमेव निशीथे भगवान्नारायणः कन्यका-पार्श्वेऽभ्येति । तेन गान्धर्व-विवाहेन सा विवाहिता । तदद्य त्वया मया च रात्रौ वातायन-गताभ्यां निशीथे द्रष्टव्यः । यतो न स मानुषैः सहालापं करोति ।
तच्छ्रुत्वा हर्षितस्य राज्ञस्तद्दिनं वर्ष-शत-प्रायमिव कथञ्चिज्जगाम । ततस्तु रात्रौ निभृतो भूत्वा राज्ञी-सहितो राजा वातायनस्-स्थो गगनासक्त-दृष्टिर्यावत्तिष्ठति, तावत्तस्मिन्समये गरुडारूढं तं शङ्क-चक्र-गदा-पद्म-हस्तं यथोक्त-चिह्नाङ्कितं व्योम्नोऽवतरन्तं नारायणमपश्यत् । ततः सुधा-पूर-प्लावितमिवात्मानं मन्यमानस्तामुवाच-प्रिये ! नास्त्यन्यो धन्यतरो लोके मत्तस्त्वत्तश्च । तत्प्रसूतिं नारायणो भजते । तत्-सिद्धाः सर्वेऽस्माकं मनोरथाः । अधुना जामातृ-प्रभावेण सकलामपि वसुमतीं वश्यां करिष्यामि ।
एवं निश्चित्य सर्वैः सीमाधिपैः सह मर्यादा-व्यतिक्रममकरोत् । ते च तं मर्यादा-व्यतिक्रमेण वर्तमानमालोक्य सर्वे समेत्य तेन सह विग्रहं चक्रुः ।
अत्रान्तरे स राजा देवी-मुखेन तां दुहितरमुवाच-पुत्रि, त्वयि दुहितरि वर्तमानायां नारायणे भगवति जामातरि स्थिते तत्किमेवं युज्यते यत्सर्वे पार्थिवा मया सह विग्रहं कुर्वन्ति । तत्सम्बोध्योऽद्य त्वया निज-भर्ता, यथा मम शत्रून्व्यापादयति ।
ततस्तया स कौलिको रात्रौ स-विनयमभिहितः-भगवन्, त्वयि जामातरि स्थिते मम तातो यच्छत्रुभिः परिभूयते तन्न युक्तम् । तत्प्रसादं कृत्वा सर्वांस्तान्शत्रून्व्यापादय ।
कौलिक आह—सुभगे ! कियन्-मात्रास्त्वेते तव पितुः शत्रवः । तद्-विश्वस्ता भव । क्षणेनापि सुदर्शन-चक्रेण सर्वांस्तिलशः खण्डयिष्यामि ।
अथ गच्छता कालेन सर्व-देशं शत्रुभिरुद्वास्य स राजा प्राकार-शेषः कृतः । तथापि वासुदेव-रूप-धरं कौलिकमजानन्राज नित्यमेव विशेषतः कर्पूरागुरु-कस्तूरिकादि-परिमल-विशेषान्नाना-प्रकार-वस्त्र-पुष्प-भक्ष्य-पेयांश्च प्रेषयन्दुहितृ-मुखेन तमूचे-भगवन्, प्रभाते नूनं स्थान-भङ्गो भविष्यति । यतो यवसेन्धन-क्षयः सञ्जातस्तथा सर्वोऽपि जनः प्रहारैर्जर्जरित-देहः संवृत्तो योद्धुमक्षमः प्रचुरो मृतश्च । तदेवं ज्ञात्वात्र काले यदुचितं भवति तद्विधेयमिति ।
तच्छ्रुत्वा कौलिकोऽप्यचिन्तयत्-स्थान-भङ्गे जाते ममानया सह वियोगो भविष्यति æ तस्माद्गरुडमारुह्य सायुधमात्मानमाकाशे दर्शयामि । कदाचिन्मां वासुदेवं मन्यमानास्ते साशङ्का राज्ञो योद्धृभिर्हन्यते । उक्तं च—
PT 1.464 अनुष्टुप्
निर्विषेणापि सर्पेण कर्तव्या महती फणा । विषं भवतु वा माभूत्फणाटोपो भयङ्करः ॥
अथ यदि मम स्थानार्थमुद्यतस्य मृत्युर्भविष्यति तदपि सुन्दरतरम् । उक्तं च—
PT 1.466 अनुष्टुप्
गवामर्थे ब्राह्मणार्थे स्वाम्य्-अर्थे स्वीकृतेऽथवा । स्थानार्थे यस्त्यजेत्प्राणांस्तस्य लोकाः सनातनाः ॥
PT 1.467 आर्या (१२, १८, १२, १५)
चन्द्रे मण्डल-संस्थे विगृह्यते राहुणा दिनाधीशः । शरणागतेन सार्धं विपदपि तेजस्विना श्लाघ्या ॥
एवं निश्चित्य प्रत्यूषे दन्त-धावनं कृत्वा तां प्रोवाच-सुभगे ! समस्तैः शत्रुभिर्हतैरन्नं पानं चास्वादयिष्यामि । किं बहुना, त्वयापि सह सङ्गमं ततः करिष्यामि । परं वाच्यस्त्वयात्म-पिता यत्प्रभाते प्रभूतेन सैन्येन सह नगरान्निष्क्रम्य योद्धव्यम् । अहं चाकाश-स्थित एव सर्वांस्तान्निस्तेजसः करिष्यामि । पश्चात्सुखेन भवता हन्तव्याः यदि पुनरहं तान्स्वयमेव सूदयामि तत्तेषां पापात्मनां वैकुण्ठीया गतिः स्यात् । तस्मात्ते तथा कर्तव्या यथा पलायन्तो हन्यमानाः स्वर्गं न गच्छन्ति ।
सापि तदाकर्ण्य पितुः समीपं गत्वा सर्वं वृत्तान्तं न्यवेदयत् । राजापि तस्या वाक्यं श्रद्दधानः प्रत्यूषे समुत्थाय समुन्नद्ध-सैन्यो युद्धार्थं निश्चक्राम । कौलिकोऽपि मरणे कृत-निश्चयश्चाप-पाणिर्गगन-गतिर्गरुडारूढो युद्धाय प्रस्थितः ।
अत्रान्तरे भगवता नारायणेनातीतानागत-वर्तमान-वेदिना, स्मृत-मात्रो वैनतेयः सम्प्राप्तो विहस्य प्रोक्तः-भो गरुत्मन् ! जानासि त्वं यन्मम रूपेण कौलिको दारु-मय-गरुडे समारूढो राज-कन्यां कामयते ।
सोऽब्रवीत्-देव, सर्वं ज्ञायते तच्चेष्टितम् । तत्किं कुर्मः साम्प्रतम् ?
श्री-भगवानाह-अद्य कौलिको मरणे कृत-निश्चयो विहित-नियमो युद्धार्थे विनिर्गतः स नूनं प्रधान-क्षत्रियैर्मिलित्वा वासुदेवो गरुडश्च निपातितः । ततः परं लोकोऽयमावयोः पूजां न करिष्यति । ततस्त्वं द्रुततरं तत्र दारु-मय-गरुडे सङ्क्रमणं कुरु । अहमपि कौलिक-शरीरे प्रवेशं करिष्यामि । येन स शत्रून्व्यापादयति । ततश्च शत्रु-वधादावयोर्माहात्म्य-वृद्धिः स्यात् ।
अथ गरुडे तथेति प्रतिपन्ने श्री-भगवन्-नारायणस्तच्-छरीरे सङ्क्रमणमकरोत् । ततो भगवन्-माहात्म्येन गगन-स्थः स कौलिकः शङ्ख-चक्र-गदा-चाप-चिह्नितः क्षणादेव लीलयैव समस्तानपि प्रधान-क्षत्रियान्निस्तेजसश्चकारर् । ततस्तेन राज्ञा स्व-सैन्य-परिवृतेन सङ्ग्रामे जिता निहताश्च ते सर्वेऽपि शत्रवः । जातश्च लोक-मध्ये प्रवादो, यथा-अनेन विष्णु-जामातृ-प्रभावेण सर्वे शत्रवो निहता इति ।
कौलिकोऽपि तान्हतान्दृष्ट्वा प्रमुदित-मना गगनादवतीर्णः सन्, यावद्राजामात्य-पौर-लोकास्तं नगर-वास्तव्यं कौलिकं पश्यन्ति ततः पृष्टः किमेतदिति । ततः सोऽपि मूलादारभ्य सर्वं प्राग्-वृत्तान्तं न्यवेदयत् । ततश्च कौलिक-साहसानुरञ्जित-मनसा शत्रु-वधादवाप्त-तेजसा राज्ञा सा राज-कन्या सकल-जन-प्रत्यक्षं विवाह-विधिना तस्मै समर्पिता देशश्च प्रदत्तः । कौलिकोऽपि तया सार्धं पञ्च-प्रकारं जीव-लोक-सारं विषय-सुखमनुभवन्कालं निनाय । अतस्तूच्यते सुप्रयुक्तस्य दम्भस्य (२१८)इति ।
तच्छ्रुत्वा करटक आह—भद्र,अस्त्येवम् । परं तथापि महन्मे भयम् । यतो बुद्धिमान्सञ्जीवको रौद्रश्च सिंहः । यद्यपि ते बुद्धि-प्रागल्भ्यं तथापि त्वं पिङ्गलकात्तं वियोजयितुमसमर्थ एव ।
दमनक आह—भ्रातः !असमर्थोऽपि समर्थ एव । उक्तं च—
PT 1.477 अनुष्टुप्
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः । काकी कनक-सूत्रेण कृष्ण-सर्पमघातयत् ॥
सोऽब्रवीत्- कथा ६ वायस-दम्पति-कथा
अस्ति कस्मिंश्चित्प्रदेशे महान्न्यग्रोध-पादपः । तत्र वायस-दम्पती प्रतिवसतः स्म । अथ तयोः प्रसव-काले वृक्ष-विवरान्निष्क्रम्य कृष्ण-सर्पः सदैव तद्-अपत्यानि भक्षयति । ततस्तौ निर्वेदादन्य-वृक्ष-मूल-निवासिनं प्रिय-सुहृदं शृगालं गत्वोचतुः-भद्र ! किमेवंविधे सञ्जात आवयोः कर्तव्यं भवति । एवं तावद्दुष्टात्मा कृष्ण-सर्पो वृक्ष-विवरान्निर्गत्यावयोर्बालकान्भक्षयति । तत्कथ्यतां तद्-रक्षार्थं कश्चिदुपायः ।
← Previous (Ch. 0) Full Table of Contents Next (Ch. 2) →