Skip to main content
Search
Ch. 1 PT 1.462
Full Chapter
PT • Chapter 1: Canto 1

PT 1.462

Canonical Ref: PT 1.462
Sanskrit (Devanāgarī)
अथ गच्छता कालेन सर्व-देशं शत्रुभिरुद्वास्य स राजा प्राकार-शेषः कृतः । तथापि वासुदेव-रूप-धरं कौलिकमजानन्राज नित्यमेव विशेषतः कर्पूरागुरु-कस्तूरिकादि-परिमल-विशेषान्नाना-प्रकार-वस्त्र-पुष्प-भक्ष्य-पेयांश्च प्रेषयन्दुहितृ-मुखेन तमूचे-भगवन्, प्रभाते नूनं स्थान-भङ्गो भविष्यति । यतो यवसेन्धन-क्षयः सञ्जातस्तथा सर्वोऽपि जनः प्रहारैर्जर्जरित-देहः संवृत्तो योद्धुमक्षमः प्रचुरो मृतश्च । तदेवं ज्ञात्वात्र काले यदुचितं भवति तद्विधेयमिति ।
Canonical CTS URN Reference
Pañcatantram, PT 1.462. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (PT 1.461) All Verses in Chapter 1 Next Verse (PT 1.463) →