वर्धमान-वृत्तान्तः
अथातः प्रारभ्यते मित्र-भेदो नाम प्रथमं तन्त्रम् । यस्यायमादिमः श्लोकः—
वर्धमानो महान्स्नेहः सिंह-गो-वृषयोर्वने । पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥
तद्यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र धर्मोपार्जित-भूरि-विभवो वर्धमानको नाम वणिक्-पुत्रो बभूव । तस्य कदाचिद्रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना । तत्प्रभूतेऽपि वित्तेऽर्थोपायाश्चिन्तनीयाः कर्तव्याश्चेति । यत उक्तं च—
नहि तद्विद्यते किंचिद्यदर्थेन न सिद्ध्यति । यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥
यस्यार्यस्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमां लोके यस्यार्थाः स च पण्डितः ॥
न सा विद्या न तद्दानं न तच्छिल्पं न सा कला । न तत्स्थैर्यं हि धनिनां याचकैर्यन्न गीयते ॥
इह लोके हि धनिनां परोऽपि स्वजनायते । स्वजनोऽपि दरिद्राणां सर्वदा दुर्जनायते ॥
अर्थेभ्योऽपि हि वृद्धेभ्यः संवृत्तेभ्य इतस्ततः । प्रवर्तन्ते क्रियाः सर्वाः पर्वतेभ्य इवापगाः ॥
पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते । वन्द्यते यदवन्द्योऽपि स प्रभावो धनस्य च ॥
अशनादिन्द्रियाणीव स्युः कार्याण्यखिलान्यपि । एतस्मात्कारणाद्वित्तं सर्व-साधनमुच्यते ॥
अर्थार्थी जीव-लोकोऽयं श्मशानमपि सेवते । त्यक्त्वा जनयितारं स्वं निःस्वं गच्छति दूरतः ॥
गत-वयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः । अर्थे तु ये हीना वृद्धास्ते यौवनेऽपि स्युः ॥
स चार्थः पुरुषाणां षड्भ्रुपायैर्भवति भिक्षाया नृप-सेवया कृषि-कर्मणा विद्योपार्जनेन व्यवहारेण वणिक्-कर्मणा वा । सर्वेषामपि तेषां वाणिज्येनातिरस्कृतोऽर्थ-लाभः स्यात् । उक्तं च यतः—
कृता भिक्षानेकैर्वितरति नृपो नोचितमहो कृषिः क्लिष्टा विद्या गुरु-विनय-वृत्त्यातिविषमा । कुसीदाद्दारिद्र्यं परकरगत-ग्रन्थि-शमनान्न मन्ये वाणिज्यात्किमपि परमं वर्तनमिह ॥
उपायानां च सर्वेषामुपायः पण्य-संग्रहः । धनार्थं शस्यते हे एकस्तद्-अन्यः संशयात्मकः ॥
तच्च वाणिज्यं सप्त-विधमर्थागमाय स्यात् । तद्यथा गान्धिक-व्यवहारः, निक्षेप-प्रवेशः, गोष्ठिक-कर्म, परिचित-ग्राहकागमः, मिथ्या-क्रय-कथनम्, कूट-तुला-मानम्, देशान्तराद्भाण्डानयनं चेति । उक्तं च—
पण्यानां गान्धिकं पण्यं किमन्यैः काञ्चनादिभिः । यत्रैकेन च यत्क्रीतं तच्छतेन प्रदीयते ॥
निक्षेपे पतिते हर्म्ये श्रेष्ठी स्तौति स्व-देवताम् । निक्षेपी म्रियते तुभ्यं प्रदास्याम्युपयाचितम् ॥
गोष्ठिक-कर्म-नियुक्तः श्रेष्ठी चिन्तयति चेतसा हृष्टः । वसुधा वसु-सम्पूर्णा मयाद्य लब्धा किमन्येन ॥
परिचितमागच्छन्तं ग्राहकमुत्कण्ठ्या विलोकयासौ । हृष्यति तद्-धन-लब्धो यद्वत्पुत्रेण जातेन ॥
अन्यच्च—
पूर्णापूर्णे माने परिचित-जन-वञ्चनं तथा नित्यम् । मिथ्या-क्रयस्य कथनं प्रकृतिरियं स्यात्किरातानाम् ॥
द्विगुणं त्रिगुणं वित्तं भाण्ड-क्रय-विचक्षणाः । प्राप्नुवन्त्युद्यमाल्लोका दूर-देशान्तरं गताः ॥
इत्येवं सम्प्रधार्य मथुरा-गामीनि भाण्डान्यादाय शुभायां तिथौ गुरु-जनानुज्ञातः सुरथाधिरूढः प्रस्थितः । तस्य च मङ्गल-वृषभ संजीवक-नन्दक-नामानौ गृहोत्पन्नौ धूर्वोढारौ स्थितौ । तयोरेकः संजीवकाभिधानो यमुना-कच्छमवतीर्णः सम्पङ्क-पूरमासाद्य कलित-चरणो युग-भङ्गं विधाय विषसाद ।
अथ तं तद्-अवस्थमालोक्य वर्धमानः परं विषादमागमत् । तदर्थं च स्नेहार्द्र-हृदयस्त्रि-रात्रं प्रयाण-भङ्गमकरोत् । अथ तं विषण्णमालोक्य साऋथिकैरभिहितम्- भोः श्रेष्ठिन् ! किमेवं वृषभस्य कृते सिंह-व्याघ्र-समाकुले बह्व्-अपायेऽस्मिन्वने समस्त-सार्थस्त्वया सन्देहे नियोजितः । उक्तं च—
न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः । एतदेवात्र पाण्डित्यं यत्स्वल्पाद्भूरि-रक्षणम् ॥
अथासौ तदवधार्य संजीवकस्य रक्षा-पुरुषान्निरूप्याशेष-सार्थं नीत्वा प्रस्थितः । अथ रक्षा-पुरुषा अपि बह्व्-अपायं तद्-वनं विदित्वा संजीवकं परित्यज्य पृष्ठतो गत्वाऽन्येद्युस्तं सार्थवाहं मिथ्याहुः- स्वामिन्, मृतोऽसौ संजीवकः । अस्माभिस्तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः इति ।
तच्छ्रुत्वा सार्थवाहः कृतज्ञतया स्नेहार्द्र-हृदयस्तस्यौर्ध्व-देहिक-क्रिया वृषोत्सर्गादिकाः सर्वाश्चकार । संजीवकोऽप्यायुः-शेषतया यमुना-सलिल-मिश्रैः शिशिरतरवातैराप्यायित-शरीरः कथंचिदप्युत्थाय यमुना-तटमुपपेदे । तत्र मरकत-सदृशानि बाल-तृणाग्राणि भक्षयन्कतिपयैरहोभिर्हर-वृषभ इव पीनः ककुद्मान्बलवांश्च संवृत्तः । प्रत्यहं वल्मीक-शिखराग्राणि शृङ्गाभ्यां विदारयन्गर्जमान आस्ते । साधु चेदमुच्यते—
अरक्षितं तिष्ठति देव-रक्षितं सुरक्षितं देव-हतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृत-प्रयत्नोऽपि गृहे विनश्यति ॥