Skip to main content
Search
PT
Pañcatantram • Chapter 01

Canto 1

प्रथमं तन्त्रम् (मित्र-भेदः)

Canto 1 of Pañcatantram.

Total: 1051 Verses • Citations: PT 1.1–1051 • 1 Lexicon Terms • Page 4 of 36 (Verses 30 shown)
PT 1.91 अनुष्टुप्
युद्ध-कालेऽग्रणीर्यः स्यात्सदा पृष्ठानुगः पुरे । प्रभोर्द्वाराश्रितो हर्म्ये स भवेद्राज-वल्लभः ॥
PT 1.92 अनुष्टुप्
सम्मतोऽहं विभोर्नित्यमिति मत्वा व्यतिक्रमेत् । कृच्छ्रेष्वपि न मर्यादां स भवेद्राज-वल्लभः ॥
PT 1.93 अनुष्टुप्
द्वेषि-द्वेष-परो नित्यमिष्टानामिष्ट-कर्म-कृत् । यो नरो नर-नाथस्य स भवेद्राज-वल्लभः ॥
PT 1.94 अनुष्टुप्
प्रोक्तः प्रत्युत्तरं नाह विरुद्धं प्रभुना न यः । न समीपे हसत्युच्चैः स भवेद्राज-वल्लभः ॥
PT 1.95 अनुष्टुप्
उप्रणं शरणं तद्वन्मन्यते भय-वर्जितः । प्रवासं स्व-पुरावासं स भवेद्राज-वल्लभः ॥
PT 1.96 अनुष्टुप्
न कुर्यान्नरनाथस्य योषिद्भिः सह संगतिम् । न निन्दां न विवादं च स भवेद्राज-वल्लभः ॥
करटक आह—अथ भवांस्तत्र गत्वा किं तावत्प्रथमं वक्ष्यति तत्तावदुच्यताम् ।
PT 1.99 अनुष्टुप्
उत्तरादुत्तरं वाक्यं वदतां सम्प्रजायते । सुवृष्टि-गुण-सम्पन्नाद्बीजाद्बीजमिवापरम् ॥
PT 1.100 उपजातिः
अपाय-सन्दर्शनजां विपत्तिम् उपाय-सन्दर्शनजां च सिद्धिम् । मेधाविनो नीति-गुण-प्रयुक्तां पुरः स्फुरन्तीमिव वर्णयन्ति ॥
PT 1.101 अनुष्टुप्
एकेषां वाचि शुकवदन्येषां हृदि मूकवत् । हृदि वाचि तथान्येषां वल्गु वल्गन्तिउ सूक्तयः ॥
न च अहमप्राप्त-कालं वक्ष्ये । आकर्णितं मया नीति-सारं पितुः पूर्वमुत्सङ्गं हि निषेवता ।
PT 1.103 अनुष्टुप्
अप्राप्त-कालं वचनं बृहस्पतिरपि ब्रुवन् । लभते बह्व्-अवज्ञानमपमानं च पुष्कलम् ॥
PT 1.105 अनुष्टुप्
दुराराध्या हि राजानः पर्वता इव सर्वदा । व्यालाकीर्णाः सुविषमाः कठिना दुष्ट-सेविताः ॥
PT 1.107 अनुष्टुप्
भोगिनः कञ्चुकाविष्टाः कुटिलाः क्रूर-चेष्टिताः । सुदुष्टा मन्त्र-साध्याश्च राजानः पन्नगा इव ॥
PT 1.108 अनुष्टुप्
द्वि-जिह्वाः क्रूर-कर्माणोऽनिष्ठाश्छिद्रानुसारिणः । दूरतोऽपि हि पश्यन्ति राजानो भुजगा इव ॥
PT 1.109 अनुष्टुप्
स्वल्पमप्यपकुर्वन्ति येऽभीष्टा हि महीपतेः । ते वह्नाविव दह्यन्ते पतङ्गाः पाप-चेतसः ॥
PT 1.110 अनुष्टुप्
दुरारोहं पदं राज्ञां सर्व-लोक-नमस्कृतम् । स्वल्पेनाप्यपकारेण ब्राह्मण्यमिव दुष्यति ॥
PT 1.111 अनुष्टुप्
दुराराध्याः श्रियो राज्ञां दुरापा दुष्परिग्रहाः । तिष्ठन्त्याप इवाधारे चिरमात्मनि संस्थिताः ॥
दमनक आह— सत्यमेतत्परम् । किन्तु—
PT 1.113 अनुष्टुप्
यस्य यस्य हि यो भावस्तेन तेन समाचरेत् । अनुप्रविश्य मेधावी क्षिप्रमात्म-वशं नयेत् ॥
PT 1.114 अनुष्टुप्
भर्तुश्चित्तानुवर्तित्वं सुवृत्तं चानुजीविनाम् । राक्षसाश्चापि गृह्यन्ते नित्यं छन्दानुवर्तिभिः ॥
PT 1.115 आर्या (१२, १८, १२, १५)
सरुषि नृपे स्तुति-वचनं तद्-अभिमते प्रेम तद्-द्विषि द्वेषः । तद्-दानस्य च शंसा अमन्त्र-तन्त्रं वशीकरणम् ॥
करटक आह— यद्येवमभिमतं तर्हि शिवास्ते पन्थानः सन्तु । यथाभिलषितमनुष्ठीयताम् । सोऽपि प्रणम्य पिङ्गलकाभिमुखं प्रतस्थे ।
अथागच्छन्तं दमनकमालोक्य पिङ्गलको द्वास्थमब्रवीत्-अपसार्यतां वेत्र-लता । अयमस्माकं चिरन्तनो मन्त्रिपुत्रो दमनकोऽव्याहत-प्रवेशः । तत्प्रवेश्यतां द्वितीय-मण्डल-भागी । इति ।
अथोपसृत्य दमनको निर्दिष्ट आसने पिङ्गलकं प्रणम्य प्राप्तानुज्ञ उपविष्टः । स तु तस्य नक-कुलिशालङ्कृतं दक्षिण-पाणिमुपरि दत्त्वा मान-पुरः-सरमुवाच-अपि शिवं भवतः । कस्माच्चिराद्दृष्टोऽसि ?
दमनक आह— न किंचिद्देव-पादानामस्माभिः प्रयोजनम् । परं भवतां प्राप्त-कालं वक्तव्यम्यत उत्तम-मध्यमाधमैः सर्वैरपि राज्ञां प्रयोजनम् । उक्तं च—
← Previous (Ch. 0) Full Table of Contents Next (Ch. 2) →