अथेदमारभ्यते मित्र-सम्प्राप्तिर्नाम द्वितीयं तन्त्रम् । यस्यायमाद्यः श्लोकः—
असाधना अपि प्राज्ञा बुद्धिमनोत्बहु-श्रुताः । साधयन्त्याशु कार्य्१आणि काकाखु-मृग-कूर्मवत् ॥
तद्यथानुश्रूयते—
प्रस्तावना-कथा लघुपतनक-चित्रग्रीव-वृत्तान्तः
अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरस्थो महोच्छ्रायवान्नाना-विहङ्गोपभुक्त-फलः कीटैरावृत-कोटरश्छायाश्वासित-पथिक-जन-समूहो न्यग्रोध-पादपो महान् । अथवा युक्तम्—
छाया-सुप्त-मृगः शकुन्त-निवहैर्विष्वग्-विलुप्त-च्छदः कीटैरावृत-कोटरः कपि-कुलैः स्कन्धे कृत-प्रश्रयः । विश्रब्धं मधुपैर्निपीत-कुसुमः श्लाघ्यः स एव द्रुमः सर्वाङ्गैर्बहु-सत्त्व-सङ्ग-सुखदो भू-भार-भूतोऽपरः ॥
तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित्प्राण-यात्रार्थं पुरमुद्दिश्य प्रचलितो यावत्पश्यति, तावज्जाल-हस्तोऽतिकृष्ण-तनुः स्फुटित-चरण ऊर्ध्व-केशो यम-किङ्कराकारो नरः संमुखो बभूव । अथ तं दृष्ट्वा शङ्कित-मना व्यचिन्तयत्-यदयं दुरात्माद्य ममाश्रय-वट-पादप-सम्मुखोऽभ्येति । तन्न ज्ञायते किमद्य वट-वासिनां विहङ्गमानां सङ्क्षयो भविष्यति न वा ।
एवं बहुविधं विचिन्त्य तत्-क्षणान्निवृत्य तमेव बट-पादपं गत्वा सर्वान्विहङ्गमान्प्रोवाच-भोः !अयं दुरात्मा लुब्धको जाल-तण्डुल-हस्तः समभ्येति । तत्सर्वथा तस्य न विश्वसनीयम् । एष जालं प्रसार्य तण्डुलान्प्रक्षेप्स्यति । ते तण्डुला भवद्भिः सर्वैरपि कालकूट-सदृशा द्रष्टव्याः ।
एवं वदतस्तस्य स लुब्धकस्तत्र बट-तल आगत्य जालं प्रसार्य सिन्दु-वार-सदृशांस्तण्डुलान्प्रक्षिप्य नातिदूरं गत्वा निभृतः स्थितः । अथ ये पक्षिणस्तत्र स्थितास्ते लघु-पतनक-वाक्यार्गलया निवारितास्तांस्तण्डुलान्हालाहालाङ्कुरानिव वीक्षमाणा निभृतास्तस्थुः ।
अत्रान्तरे चित्रग्रीवो नाम कपोतराजः सहस्र-परिवारः प्राण-यात्रार्थ-परिभ्रमंस्तांस्तण्डुलान्दूरतोऽपि पश्यन्लघुपतनकेन निवार्यमाणोऽपि जिह्वा-लौल्याद्भक्षणार्थमपतत् । स-परिवारो निबद्धश्च । अथवा साध्विदमुच्यते—
जिह्वा-लौल्य-प्रसक्तानां जल-मध्य-निवासिनाम् । अचिन्तितो वधोऽज्ञानां मीनानामिव जायते ॥
अथवा दैव-प्रतिपतिकूलतया भवत्येवम् । न तस्य दोषोऽस्ति । उक्तं च—
पौलस्त्यः कथमन्य-दार-हरणे दोषं न विज्ञातवान्रामेणापि कथं न हेम-हरिणस्यासम्भवो लक्षितः । अक्षैश्चापि युधिष्ठिरेण सहसा प्राप्तो ह्यनर्थः कथं प्रत्यासन्न-विपत्ति-मूढ-मनसां प्रायो मतिः क्षीयते ॥
तथा च—
कृतान्त-पाश-बद्धानां दैवोपहत-चेतसाम् । बुद्धयः कुब्ज-गामिन्यो भवन्ति महतामपि ॥
अत्रान्तरे लुब्धकस्तान्बद्धान्विज्ञाय प्रहृष्ट-मनाः प्रोद्यत-यष्टिस्तद्-वधार्थं प्रधावितः । चित्रग्रीवोऽप्यात्मानं स-परिवारं बद्धं मत्वा लुब्धकमायान्तं दृष्ट्वा तान्कपोतानूचे-अहो, न भेतव्यम् । उक्तं च—
व्यसनेष्वेव सर्वेषु यस्य बुद्धिर्न हीयते । स तेषां पारमभ्येति तत्-प्रभावादसंशयम् ॥
सम्पत्तौ च विपत्तौ च महतामेक-रूपता । उदये सविता रक्तो रक्तश्चास्त-मये तथा ॥
तत्सर्वे वयं हेलयोड्डीय स-पाश-जाला अस्यादर्शनं गत्वा मुक्तिं प्राप्नुमः । नो चेद्भय-विक्लवाः सन्तो हेलया समुत्पातं न करिष्यथ । ततो मृत्युमवाप्स्यथ । उक्तं च—
तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः । बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम् ॥
तथानुष्ठिते लुब्धको जालमादायाकाशे गच्छतां तेषां पृष्ठतो भूमिस्थोऽपि पर्यधावत् । तत ऊर्ध्वानन्ः श्लोकमेनमपठत् ।
जालमादाय गच्छन्ति संहताः पक्षिणोऽप्यमी । यावच्च विवदिष्यन्ते पतिष्यन्ति न संशयः ॥
लघुपतनकोऽपि प्राण-यात्रा-क्रियां त्यक्त्वा किमत्र भविष्यन्तीति कुतूहलात्तत्-पृष्ठतोऽनुसरति । अथ दृष्टेरगोचरतां गतान्विज्ञाय लुब्धको निराशः श्लोकमपठन्निवृत्तश्च—
नहि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतल-गतमपि नश्यति यस्य हि भवितव्यता नास्ति ॥
तथा च—
पराङ्मुखे विधौ चेत्स्यात्कथञ्चिद्द्रविणोदयः । तत्सोऽन्यदपि सङ्गृह्य याति शङ्ख-निधिर्यथा ॥
तदास्तां तावद्विहङ्गामिष-लोभो यावत्कुटुम्ब-वर्तनोपाय-भूतं जालमपि मे नष्टम् । चित्रग्रीवोऽपि लुब्धकमदर्शनीभूतं ज्ञात्वा तानुवाच-भोः ! निवृत्तः स दुरात्मा लुब्धकः । तत्सर्वैरपि स्वस्थैर्गम्यतां महिलारोप्यस्य प्राग्-उत्तर-दिग्-भागे । तत्र मम सुहृद्धिरण्यको नाम मूषकः सर्वेषां पाश-च्छेदं करिष्यति । उक्तं च—
सर्वेषामेव मर्त्यानां व्यसने समुपस्थिते । वाङ्-मात्रेणापि साहाय्यं मित्रादन्यो न सन्दधे ॥
एवं ते कपोताश्चित्रग्रीवेण सम्बोधिता महिलारोप्ये नगरे हिरण्यक-बिल-दुर्गं प्रापुः । हिरण्यकोऽपि सहस्र-मुख-बिल-दुर्गं प्रविष्टः सन्नकुतोभयः सुखेनास्त । अथवा साध्विदमुच्यते—
दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः । सर्वेषां जायते वश्यो दुर्ग-हीनस्तथा नृपः ॥