Skip to main content
Search
PT
Pañcatantram • Chapter 02

Canto 2

द्वितीयं तन्त्रम् (मित्र-सम्प्राप्तिः)

Canto 2 of Pañcatantram.

Total: 451 Verses • Citations: PT 2.1–451 • 1 Lexicon Terms • Page 7 of 16 (Verses 30 shown)
PT 2.181 आर्या (१२, १८, १२, १५)
दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्ध्या । कूपोऽन्तः-स्वादु-जलः प्रीत्यै लोकस्य न समुद्रः ॥
PT 2.183 आर्या (१२, १८, १२, १५)
अकृत-त्याग-महिम्नां मिथ्या किं राज-राज-शब्देन । गोप्तारं न निधीनां महयन्ति महेश्वरं विबुधाः ॥
PT 2.185 अनुष्टुप्
सदा दान-परिक्षीणः शस्त एव करीश्वरः । अदानः पीन-गात्रोऽपि निन्द्य एव हि गर्दभः ॥
PT 2.186 अनुष्टुप्
सुशीलोऽपि सुवृत्तोऽपि यात्यदानादधो घटः । पुनः कुब्जापि काणापि दानादुपरि कर्कटी ॥
PT 2.187 आर्या (१२, १८, १२, १५)
यच्छन्जलमपि जलदो वल्लभतामेति सकल-लोकस्य । नित्यं प्रसारित-करो मित्रोऽपि न वीक्षितुं शक्यः ॥
एवं ज्ञात्वा दरिद्र्याभिभूतैरपि स्वल्पात्स्वल्पतरं काले पात्रे च देयम् । उक्तं च—
PT 2.189 अनुष्टुप्
सत्-पात्रं महती श्रद्धा देशे काले यथोचिते । यद्दीयते विवेक-ज्ञैस्तदनन्ताय कल्पते ॥
PT 2.191 अनुष्टुप्
अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् । अतितृष्णाभिभूतस्य शिखा भवति मस्तके ॥
अस्ति कस्मिंश्चिद्वनोद्देशे कश्चित्पुलिन्दः । स च पापर्द्धिं कर्तुं वनं प्रति प्रस्थितः । अथ तेन प्रसर्पता महानञ्जन-पर्वत-शिखराकारः क्रोडः समासादितः । तं दृष्ट्वा कर्णान्ताकृष्ट-निशित-सायकेन समाहतः । तेनापि कोपाविष्टेन चेतसा बालेन्दु-द्युतिना दंष्ट्राग्रेण पाटितोदरः पुलिन्दो गतासुर्भूतलेऽपतत् ।
अथ लुब्धकं व्यापाद्य शूकरोऽपि शर-प्रहार-वेदनया पञ्चत्वं गतः । एतस्मिन्नन्तरे कश्चिदासन्न-मृत्युः शृगाल इतस्ततो निराहारतया पीडितः परिभ्रमंस्तं प्रदेशमाजगाम । यावद्वराह-पुलिन्दौ द्वावपि पश्यति तावत्प्रहृष्टो व्यचिन्तयत्-भोः ! सानुकूलो मे विधिः । तेनैतदप्यचिन्तितं भोजनमुपस्थितम् । अथवा साध्विदमुक्तम्—
PT 2.196 अनुष्टुप्
अकृतेऽप्युद्यमे पुंसामन्य-जन्म-कृतं फलम् । शुभाशुभं समभ्येति विधिना संनियोजितम् ॥
PT 2.198 अनुष्टुप्
यस्मिन्देशे च काले च वयसा यादृशेन च । कृतं शुभाशुभं कर्म तत्तथा तेन भुज्यते ॥
तदहं तथा भक्षयामि यथा बहून्यहानि मे प्राण-यात्रा भवति । तत्तावदेनं स्नायु-पाशं धनुष्कोटि-गतं भक्षयामि । उक्तं च—
PT 2.200 अनुष्टुप्
शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् । रसायनमिव प्राज्ञैर्हेलया न कदाचन ॥
इत्येवं मनसा निश्चित्य चाप-घटित-कोटिं मुख-मध्ये प्रक्षिप्य स्नायुं भक्षितुं प्रवृत्तः । ततश्च त्रुटिते पाशे तालु-देशं विदार्य चाप-कोटिर्मस्तक-मध्येन निष्क्रान्ता । सोऽपि तद्वदेनया तत्-क्षणान्तन्मृतः । अतोऽहं ब्रवीमि-अतितृष्णा न कर्तव्या इति ।
स पुनरप्याह-ब्राह्मणि, न श्रुतं भवत्या ।
PT 2.203 अनुष्टुप्
आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥
अथैवं सा तेन प्रबोधिता ब्राह्मण्याह-यद्येवं तदस्ति मे गृहे स्तोकस्तिल-राशिः । ततस्तिलान्लुञ्चित्वा तिल-चूर्णेन ब्राह्मणं भोजयिष्यामि इति ।
ततस्तद्-वचनं श्रुत्वा ब्राह्मणो ग्रामं गतः । सापि तिलानुष्णोदकेन सम्मर्द्य कुटित्वा सूर्यातपे दत्तवती । अत्रान्तरे तस्या ग्र्ह-कर्म-व्यग्रायास्तिलानां मध्ये कश्चित्सारमेयो मूत्रोत्सर्गं चकार । तं दृष्ट्वा सा चिन्तितवती-अहो नैपुण्यं पश्य पराङ्मुखीभूतस्य विधेः । यदेते तिला अभोज्याः कृताः । तदहमेतान्समादाय कस्यचित्गृहं गत्वा लुञ्चितैरलुञ्चितानानयामि । सर्वोऽपि जनोऽनेन विधिना प्रदास्यति इति ।
अथ यस्मिन्गृहेऽहं भिक्षार्थं प्रविष्टस्तत्र गृहे सापि तिलानादाय प्रविष्टा विक्रयं कर्तुम् । आह च-गृह्णातु कश्चिदलुञ्चितैर्लुञ्चितांस्तिलान् ।
अथ तद्-गृह-गृहिणी-गृहं प्रविष्टा यावदलुञ्चितैर्लुञ्चितान्गृह्णाति तावदस्याः पुत्रेण कामन्दकी-शास्त्रं दृष्ट्वा व्याहृतम्-मातः !अग्राह्याः खल्विमे तिलाः । नास्या अलुञ्चितैर्लुञ्चिता ग्राह्याः । कारणं किञ्चिद्भविष्यति । तेनैषालुञ्चितैर्लुञ्चितान्प्रयच्छति ।
तच्छ्रुत्वा अया परित्यक्तास्ते तिलाः । अतोऽहं ब्रवीमि-नाकस्माच्छाण्डिली-मातः इति ।
एतदुक्त्वा स भूयोऽपि प्राह-अथ ज्ञायते तस्य क्रमण-मार्गः ।
ताम्रचूड आह—भगवन्, ज्ञायते । यत एकाकी न समागच्छति, किन्त्वसङ्ख्य-यूथ-परिवृतः पश्यतो मे परिभ्रमन्नितस्ततः सर्व-जनेन सहागच्छति याति च ।
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →