तथा च—
न गजानां सहस्रेण न च लक्षेण वाजिनाम् । तत्कर्म सिध्यते राज्ञां दुरेणैकेन यद्रणे ॥
शतमेकोऽपि सन्धत्ते प्राकारस्थो धनुर्धरः । तस्माद्दुर्गं प्रशंसन्ति नीति-शास्त्र-विदो जनाः ॥
अथ चित्रग्रीवो बिलमासाद्य तार-स्वरेण प्रोवाच-भो भो मित्र हिरण्यक ! सत्वरमागच्छ । महती मे व्यसनावस्था वर्तते ।
तच्छ्रुत्वा हिरण्यकोऽपि बिल-दुर्गान्तर्गतः सन्प्रोवाच-भोः ! को भवान् ? किमर्थमायातः ? किं कारणम् ? कीदृक्ते व्यसनावस्थानाम् ? तत्कथ्यतामिति ।
तच्छ्रुत्वा चित्रग्रीव आह—भोः ! चित्रग्रीवो नाम कपोत-राजोऽहं ते सुहृत् । तत्सत्वरमागच्छ । गुरुतरं प्रयोजनमस्ति । तदाकर्ण्य पुलकित-तनुः प्रहृष्टात्मा स्थिर-मनास्त्वरमाणो निष्क्रान्तः । अथवा साध्विदमुच्यते—
सुहृदः स्नेह-सम्पन्ना लोचनानन्द-दायिनः । गृहे गृहवतां नित्यं नागच्छन्ति महात्मनाम् ॥
आदित्यस्योदयं तात ताम्बूलं भारती कथा । इष्टा भार्या सुमित्रं च अपूर्वाणि दिने दिने ॥
सुहृदो भवने यस्य समागच्छन्ति नित्यशः । चित्ते च तस्य सौख्यस्य न किञ्चित्प्रतिमं सुखम् ॥
अथ चित्रं ग्रीवं सपरिवारं पाश-बद्धमालोक्य हिरण्यकः स-विषादमिदमाह-भोः, किमेतत् ?
स आह—भोः, जानन्नपि किं पृच्छसि ?उक्तं च यतः—
यस्माच्च येन च यदा च यथा च यच्च यावच्च यत्र च शुभाशुभमात्म-कर्म । तस्माच्च तेन च तदा च तथा च तच्च तावच्च तत्र च कृतान्त-वशादुपैति ॥
तत्प्राप्तं मयैतद्बन्धनं जिह्वा-लौल्यात् । साम्प्राप्तं त्वं सत्वरं पाश-विमोक्षं कुरु । तदाकर्ण्य हिरण्यकः प्राह—
अर्धार्धाद्योजन-शतादामिषं वीक्षते खगः । सोऽपि पार्श्व-स्थितं दैवाद्बन्धनं न च पश्यति ॥
तथा च—
रवि-निशाकरयोर्ग्रह-पीडनं गज-भुजङ्ग-विहङ्गम-बन्धनम् । मतिमतां च निरीक्ष्य दरिद्रता विधिरहो बलवानिति मे मतिः ॥
तथा च—
व्योमैकान्त-विचारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाध-सलिलान्मीनाः समुद्रादपि । दुर्नीतं किमिहास्ति किं च सुकृतं कः स्थान-लाभे गुणः कालः सर्व-जनान्प्रसारित-करो गृह्णाति दूरादपि ॥
एवमुक्त्वा चित्रग्रीवस्य पाशं छेत्तुमुद्यतं स तमाह-भद्र, मा मैवं कुरु । प्रथमं मम भृत्यानां पाश-च्छेदं कुरु । तदनु ममापि च ।
तच्छ्रुत्वा कुपितो हिरण्यकः प्राह-भोः ! न युक्तमुक्तं भवता । यतः स्वामिनोऽनन्तरं भृत्याः ।
स आह—भद्र, मा मैवं वद । मद्-आश्रयाः सर्व एते वराकाः । अपरं स्व-कुटुम्बं परित्यज्य समागताः । तत्कथमेतावन्-मात्रमपि संमानं न करोमि । उक्तं च—
यः संमानं सदा धत्ते भृत्यानां क्षितिपोऽधिकम् । वित्ताभावेऽपि तं दृष्ट्वा ते त्यजन्ति न कर्हिचित् ॥
तथा च—
विश्वासः सम्पदां मूलं तेन यूथपतिर्गजः । सिंहो मृगाधिपत्येऽपि न मृगैः परिवार्यते ॥
अपरं मम कदाचित्पाश-च्छेदे कुर्वतस्ते दन्त-भङ्गो भवति । अथवा दुरात्मा लुब्धकः सम्भ्येति । तन्नूनं नरक-पात एव । उक्तं च—
सदाचारेषु भृत्येषु संसीदत्सु च यः प्रभुः । सुखी स्यान्नरकं याति परत्रेह च सीदति ॥
तच्छ्रुत्वा प्रहृष्टो हिरण्यकः प्राह-भोः, वेद्म्यहं राज-धर्मम् । परं मया तव परीक्षा कृता । तत्सर्वेषां पूर्वं पाश-च्छेदं करिष्यामि । भवानप्यनेन बहु-कपोत-परिवारेण भविष्यति । उक्तं च—
कारुण्यं संविभागश्च यथा भृत्येषु लक्ष्यते । चित्तेनानेन ते शङ्क्या त्रैलोक्यस्यापि नाथता ॥
एवमुक्त्वा सर्वेषां पाश-च्छेदं कृत्वा हिरण्यकश्चित्रग्रीवमाह-मित्र, गम्यतामधुना स्वाश्रयं प्रति । भूयोऽपि व्यसने प्राप्ते समागन्तव्यमिति ।
तान्सम्प्रेष्य पुनरपि दुर्गं प्रविष्टः । चित्रग्रीवोऽपि सपरिवारः स्वाश्रयमगमत् । अथवा साध्विदमुच्यते—