हिरण्यक आह—भद्र, न युक्तमनुष्ठितं भवता यदत्र समायातः । तद्भूयोऽपि द्रुततरं गम्यतां यावदसौ लुब्धको न समायाति ।
मन्थरक आह—भद्र, किं करोमि ? न शक्नोमि तत्र-स्थो मित्र-व्यसनाग्नि-दाघं सोढुम् । तेनाहमत्रागतः । अथवा साध्विदमुच्यते—
दयित-जन-विप्रयोगो वित्त-वियोगश्च सह्याः स्युः । यदि सुमहौषध-कल्पो वयस्य-जन-संगमो न स्यात् ॥
वरं प्राण-परित्यागो न वियोगो भवादृशैः । प्राणा जन्मान्तरे भूयो न भवन्ति भवद्-विधाः ॥
एवं तस्य प्रवदत आकर्ण-पूरित-शरासनो लुब्धकोऽप्युपागतः । तं दृष्ट्वा मूषकेण तस्य स्नायु-पाशस्तत्-क्षणात्खण्डितः । अत्रान्तरे चित्राङ्गः सत्वरं पृष्ठमवलोकयन्प्रधावितः । लघुपतनको वृक्षमारूढः । हिरण्यकश्च समीप-वर्ति बिलं प्रविष्टः । अथासौ लुब्धको मृग-गमनाद्विषण्ण-वदनो व्यर्थ-श्रमस्तं मन्थरकं मन्दं मन्दं स्थल-मध्ये गच्छन्तं दृष्टवान् । अचिन्तयच्च-यद्यपि कुरङ्गो धात्रापहृतस्तथाप्ययं कूर्म आहारार्थं सम्पादितः । तदद्यास्यामिषेण मे कुटुम्बस्याहार-निर्वृत्तिर्भविष्यति ।
एवं विचिन्त्य तं दर्भैः सञ्छाद्य धनुषु समारोप्य स्कन्धे कृत्वा गृहं प्रति प्रस्थितः । अत्रान्तरे तं नीयमानमवलोक्य हिरण्यको दुःखाकुलः पर्यदेवयत्-कष्टं भोः कष्टमापतितम् ।
एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य । तावद्द्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुली-भवन्ति ॥
तावदस्खलितं यावत्सुखं याति समे पथि । स्खलिते च समुत्पन्ने विषमे च पदे पदे ॥
यन्नम्रं सरलं चापि यच्चापत्सु न सीदति । धनुर्मित्रं कलत्रं च दुर्लभं शुद्ध-वंशजम् ॥
न मातरि न दारेषु न सोदर्ये न चात्मजे । विश्रम्भस्तादृशः पुंसां यादृङ्मित्रे निरन्तरे ॥
यदि तावत्कृतान्तेन मे धन-नाशो विहितस्तन्-मार्ग-श्रान्तस्य मे विश्राम-भूतं मित्रं कस्मादपहृतं । अपरमपि मित्रं परं मन्थरक-समं न स्यात् । उक्तं च—
असम्पत्तौ परो लाभो गुह्यस्य कथनं तथा । आपद्-विमोक्षणं चैव मित्रस्यैतत्फल-त्रयम् ॥
तदस्य पश्चान्नान्यः सुहृन्मे । तत्किं ममोपर्यनवरतं व्यसन-शरैर्वर्षति हन्त विधिः । यत आदौ तावद्वित्त-नाशस्ततः परिवार-भ्रंशस्ततो देश-त्यागस्ततो मित्र-वियोग इति । अथवा स्वरूपमेतत्सर्वेषामेव जन्तूनां जीवित-धर्मस्य । उक्तं च—
कायः संनिहितापायः सम्पदः पदमापदाम् । समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥
तथा च—
क्षते प्रहारा निपतन्त्यभीक्ष्णं धन-क्षये वर्धति जाठराग्निः । आपत्सु वैराणि समुद्भवन्ति च्छिद्रेष्वनर्था बहुली-भवन्ति ॥
अहो साधूक्तं केनापि ।
प्राप्ते भये परित्राणं प्रीति-विश्रम्भ-भाजनं । केन रत्नमिदं सृष्टं मित्रमित्यक्षर-द्वयं ॥
अत्रान्तरे आक्रन्द-परौ चित्राङ्ग-लघुपतनकौ तत्रैव समायातौ । अथ हिरण्यक आह—अहो किं वृथा-प्रलपितेन । तद्यावदेष मन्थरको दृष्टि-गोचरान्न नीयते तावदस्य मोक्षोपायश्चिन्त्यतामिति । उक्तं च—
व्यसनं प्राप्य यो मोहात्केवलं परिदेवयेत् । क्रन्दनं वर्धयत्येव तस्यान्तं नाधिगच्छति ॥
केवलं व्यसनस्योक्तं भेषजं नय-पण्डितैः । तस्योच्छेद-समारम्भो विषाद-परिवर्जनं ॥
अन्यच्च—
अतीत-लाभस्य सुरक्षणार्थं भविष्य-लाभस्य च सङ्गमार्थम् । आपत्-प्रपन्नस्य च मोक्षणार्थं यन्मन्त्र्यतेऽसौ परमो हि मन्त्रः ॥
तच्छ्रुत्वा वायस आह—भो यद्येवं तत्क्रियतां मद्-वचः । एष चित्राङ्गोऽस्य मार्गे गत्वा किंचित्पल्वलमासाद्य तस्य तीरे निश्चेतनो भूत्वा पततु । अहमप्यस्य शिरसि समारुह्य मन्दैश्चञ्चु-प्रहारैः शिर उल्लेखिष्यामि येनासौ लुब्धकोऽमुं मृतं मत्वा मम चञ्चु-प्रहार-प्रत्ययेन मन्थरकं भूमौ क्षिप्त्वा मृगार्थे धावति । अत्रान्तरे त्वया दर्भ-मय-बन्धन-वेष्टनानि खण्डनीयानि येनासौ मन्थरको द्रुततरं पल्वलं प्रविशति ।
चित्राङ्गः प्राह-भो भद्रोऽयं दृष्टो मन्त्रस्त्वया । नूनं मन्थरको मुक्तो मन्तव्यः । उक्तं च—
सिद्धिं वा यदि वासिद्धिं चित्तोत्साहो निवेदयेत् । प्रथमं सर्व-जन्तूनां प्राज्ञो वेत्ति न चेतरः ॥
तत्तदेवं क्रियताम् । तथानुष्ठिते स लुब्धकस्तथैव मार्गासन्न-पल्वल-तीरस्थं चित्राङ्गं वायस-सनाथमद्राक्षीत् । तं दृष्ट्वा हर्षित-मना व्यचिन्तयत् । नूनं पाश-वेदनया वराकोऽयं मृगो गत्वायुः-शेष-जीवितः पाशं त्रोटयित्वा कथमप्येतद्वनान्तरं प्रविष्टो यावन्मृतः । तद्वश्योऽयं मे कच्छपः सुयन्त्रितत्वात् । तदेनमपि तावद्गृह्णामीत्यवर्धाय कच्छपं भू-तले प्रक्षिप्य मृगमुपाद्रवत् ।
अत्रान्तरे हिरण्यकेन वज्रोपम-दंष्ट्रा-प्रहारेण तद्दर्भ-वेष्टनं तत्-क्षणात्खण्डशः कृतं । मन्थरकोऽपि तृण-मध्यान्निष्क्रम्य पल्वलं प्रविष्टः । चित्राङ्गोऽप्यप्राप्तस्यापि तस्योत्थाय वायसेन सह द्रुतं प्रनष्टः । अत्रान्तरे विलक्षो विषाद-परो निवृत्तो लुब्धको यावत्पश्यति तावत्कच्छपोऽपि गतः । ततश्च तत्रोपविश्येमं श्लोकमपठत्—
प्राप्तो बन्धनमप्ययं गुरु-मृगस्तावत्त्वया मे हृतः सम्प्राप्तः कमठः स चापि नियतं नष्टस्तवादेशतः । क्षुत्-क्षामोऽत्र वने भ्रमामि शिशुकैस्त्यक्तः समं भार्यया यच्चान्यन्न कृतं कृतान्त कुरुते तच्चापि सह्यं मया ॥
एवं बहु-विधं विलप्य स्व-गृहं गतः । अथ तस्मिन्दूरी-भूते सर्वेऽपि ते काक-कूर्म-मृगाखवः परमानन्द-भाजो मिलित्वा परस्परमालिङ्ग्य पुनर्जातानिवात्मनो मन्यमानस्तदेव सरः प्राप्य महा-सुखेन सुभाषित-गोष्ठी-विनोदं कुर्वन्तः कालं नयन्ति स्म । एवं ज्ञात्वा विवेकिना मित्र-सङ्ग्रहः कार्यः । तथा मित्रेण सहाव्याजेन वर्तितव्यम् । उक्तं च—