Skip to main content
Search
Ch. 2 PT 2.447
Full Chapter
PT • Chapter 2: Canto 2

PT 2.447

Canonical Ref: PT 2.447
Sanskrit (Devanāgarī)
तत्तदेवं क्रियताम् । तथानुष्ठिते स लुब्धकस्तथैव मार्गासन्न-पल्वल-तीरस्थं चित्राङ्गं वायस-सनाथमद्राक्षीत् । तं दृष्ट्वा हर्षित-मना व्यचिन्तयत् । नूनं पाश-वेदनया वराकोऽयं मृगो गत्वायुः-शेष-जीवितः पाशं त्रोटयित्वा कथमप्येतद्वनान्तरं प्रविष्टो यावन्मृतः । तद्वश्योऽयं मे कच्छपः सुयन्त्रितत्वात् । तदेनमपि तावद्गृह्णामीत्यवर्धाय कच्छपं भू-तले प्रक्षिप्य मृगमुपाद्रवत् ।
Canonical CTS URN Reference
Pañcatantram, PT 2.447. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (PT 2.446) All Verses in Chapter 2 Next Verse (PT 2.448) →