Skip to main content
Search
PT
Pañcatantram • Chapter 02

Canto 2

द्वितीयं तन्त्रम् (मित्र-सम्प्राप्तिः)

Canto 2 of Pañcatantram.

Total: 451 Verses • Citations: PT 2.1–451 • 1 Lexicon Terms • Page 6 of 16 (Verses 30 shown)
मन्थरक आह—किमस्य वैराग्य-कारणम् ?
वायस आह—पृष्टो मया, परमनेनाभिहितं, यद्बहु वक्तव्यमिति । तत्तत्रैव गतः कथयिष्यामि । ममापि न निवेदितम् । तद्भद्र हिरण्यक !इदानीं निवेद्यतामुभयोरप्यावयोस्तदात्मनो वैराग्य-कारणम् ।
कथा १ हिरण्यक-ताम्रचूड-कथा
अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे मठायतनं भगवतः श्री-महादेवस्य । तत्र च ताम्रचूडो नाम परिव्राजकः प्रतिवसति स्म । स च नगरे भिक्षाटनं कृत्वा प्राण-यात्रां समाचरति । भिक्षा-शेषं च तत्रैव भिक्षा-पात्रे निधाय तद्-भिक्षा-पात्रं नागदन्तेऽवलम्ब्य पश्चाद्रात्रौ स्वपिति । प्रत्यूषे च तद्-अन्नं कर्मकराणां दत्त्वा सम्यक्तत्रैव देवतायतने संमार्जनोपलेपन-मण्डनादिकं समाज्ञापयति । अन्यस्मिन्नहनि मम बान्धवैर्निवेदितम्-स्वामिन्, मठायतने सिद्धमन्नं मूषक-भयात्तत्रैव भिक्षा-पात्रे निहितं नागदन्तेऽवलम्बितं तिष्ठति सदैव । तद्वयं भक्षयितुं न शक्नुमः । स्वामिनः पुनरागम्य किमपि नास्ति । तत्किं वृथाटनेनान्यत्र । अद्य तत्र गत्वा यथेच्छं भुञ्जामहे तव प्रसादात् ।
तदाकर्ण्याहं सकल-यूथ-परिवृतस्तत्-क्षणादेव तत्र गतः । उत्पत्य च तस्मिन्भिक्षा-पात्रे समारूढः । तत्र भक्ष्य-विशेषाणि सेवकेभ्यो दत्त्वा पश्चात्स्वयमेव भक्षयामि । सर्वेषां तृप्तौ जातायां भूयः स्व-गृहं गच्छामि । एवं नित्यमेव तदन्नं भक्षयामि । परिव्राजकोऽपि यथा-शक्ति रक्षति । परं यदैव निद्रान्तरितो भवति, तदाहं तत्रारुह्यात्म-कृत्यं करोमि । अथ कदाचित्तेन मम रक्षणार्थं महान्यत्नः कृतः । जर्जर-वंशः समानीतः । तेन सुप्तोऽपि मम भयाद्भिक्षा-पात्रं ताडयति । अहमप्यभिक्षितेऽप्यन्ने प्रहार-भयादपसर्पामि । एवं तेन सह सकलां रात्रिं विग्रह-परस्य कालो व्रजति ।
अथान्यस्मिन्नहनि तस्य मठे बृहत्स्फिङ्-नामा परिव्राजकस्तस्य सुहृत्तीर्थ-यात्रा-प्रसङ्गेन पान्थः प्राघुणिकः समायातः । तं दृष्ट्वा प्रत्युत्थान-विधिना सम्भाव्य प्रतिपत्ति-पूर्वकमभ्यागत-क्रियया नियोजितः । ततश्च रात्रावेकत्र कुश-संस्तरे द्वावपि प्रसुप्तौ धर्म-कथां कथयितुमारब्धौ ।
अथ बृहस्फिक्-कथा-गोष्ठीषु स ताम्रचूडो मूषक-त्रासार्थं व्याक्षिप्त-मना जर्जर-वंशेन भिक्षा-पात्रं ताडयंस्तस्य शून्यं प्रतिवचनं प्रयच्छति । तन्-मयो न किञ्चिदुदाहरति । अथासावभ्यागतः परं कोपमुपागतस्तमुवाच-भोस्ताम्रचूड ! परिज्ञातः न त्वं सम्यक्सुहृत् । तेन मया सह साह्लादं न जल्पसि । तद्-रात्रावपि त्वदीयं मठं त्यक्त्वान्यत्र मञ्हे यास्यामि । उक्तं च—
PT 2.159 शार्दूलविक्रीडितम्
एह्यागच्छ समाविशासनमिदं कस्माच्चिराद्दृश्यसे का वार्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् । एवं ये समुपागतान्प्रणयिनः प्रत्यालपन्त्यादरात्तेषां युक्तमशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥
PT 2.160 अनुष्टुप्
गृही यत्रागतं दृष्ट्वा दिशो वीक्षेत वाप्यधः । तत्र ये सदने यान्ति ते शृङ्ग-रहिता वृषाः ॥
PT 2.161 अनुष्टुप्
साभ्युत्थान-क्रिया यत्र नालापा मधुराक्षराः । गुण-दोष-कथा नैव तत्र हर्म्यं न गम्यते ॥
तदेक-मठ-प्राप्त्यापि त्वं गर्वितः । त्यक्तः सुहृत्-स्नेहः । नैतद्वेत्सि यत्त्वया मठाश्रय-व्याजेन नरकोपार्जनं कृतम् । उक्तं च—
PT 2.163 अनुष्टुप्
नरकाय मतिस्ते चेत्पौरोहित्यं समाचार । वर्षं यावत्किमन्येन मठ-चिन्तां दिन-त्रयम् ॥
तन्-मुखं, शोचितव्यस्त्वं गर्वं गतः । तदहं त्वदीयं मठं परित्यज्य यास्यामि ।
अथ तच्छ्रुत्वा भय-त्रस्त-मनास्ताम्रचूडस्तमुवाच-भो भगवन् ! मैवं वद । न त्वत्-समोऽन्यो मम सुहृत्कश्चिदस्ति । परं तच्छ्रूयतां गोष्ठी-शैथिल्य-कारणम् । एष दुरात्मा मूषकः प्रोन्नत-स्थाने धृतमपि भिक्षा-पात्रमुत्प्लुत्यारोहति, भिक्षा-शेषंच तत्रस्थं भक्षयति । तद्-अभावादेव मठे मार्जन-क्रियापि न भवति । तन्मूषक
मुहुर्मुहुस्ताडयामि । नान्यत्कारणमिति । अपरमेतत्कुतूहलं पश्यास्य दुर्तात्मनो यन्मार्जार-मर्कटादयोऽपि तिरस्कृता अस्योत्पतनेन ।
बृहत्स्फिगाह-अथ ज्ञायते तस्य बिलं कस्मिंश्चित्प्रदेशे ।
ताम्रचूड आह—भगवन्न वेद्मि सम्यक् ।
स आह—नूनं निधानस्योपरि तस्य बिलम् । निधानोष्मणा प्रकूर्दते । उक्तं च—
PT 2.170 अनुष्टुप्
ऊष्मापि वित्तजो वृद्धिं तेजो नयति देहिनाम् । किं पुनस्तस्य सम्भोगस्त्याग-धर्म-समन्वितः ॥
PT 2.172 अनुष्टुप्
नाकस्माच्छाण्डिली मातर्विक्रीणाति तिलैस्तिलान् । लुञ्चितानितरैर्येन हेतुरत्र भविष्यति ॥
कथा २ तिलचूर्ण-विक्रय-कथा
यदाहं कस्मिंश्चित्स्थाने प्रावृट्-काले व्रत-ग्रहण-निमित्तं कञ्चिद्ब्राह्मणं वासार्थं प्रार्थितवान् । ततश्च तद्-वचनात्तेनापि शुश्रूषितः सुखेन देवार्चन-परस्तिष्ठामि । अथान्यस्मिन्नहनि प्रत्यूषे प्रबुद्धोऽहं ब्राह्मण-ब्राह्मणी-संवादे दत्तावधानः शृणोमि । तत्र ब्राह्मण आह—ब्राह्मणि, प्रभाते दक्षिणायन-सङ्क्रान्तिरनन्त-दान-फलदा भविष्यति । तदहं प्रतिग्रहार्थं ग्रामान्तरं यास्यामि । त्वया ब्राह्मणस्यैकस्य भगवतः सूर्यस्योद्देशेन किञ्चिद्भोजनं दातव्यमिति ।
अथ तच्छ्रुत्वा ब्राह्मणी परुषतर-वचनैस्तं भर्त्सयमाना प्राह-कुतस्ते दारिद्र्योपहतस्य भोजन-प्राप्तिः । तत्किं लज्जस एवं ब्रुवाणः । अपि च न मया तव हस्त-लग्नया क्वचिदपि लब्धं सुखम् । न मिष्ठान्नस्यास्वादनम् । न च हस्त-पाद-कण्ठादि-भूषणम् ।
तच्छ्रुत्वा भय-त्रस्तोऽपि विप्रो मन्दं मन्दं प्राह-ब्राह्मणि ! नैतद्युज्यते वक्तुम् । उक्तं च—
PT 2.179 अनुष्टुप्
ग्रासादपि तदर्धं च कस्मान्नो दीयतेऽर्थिषु । इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥
PT 2.180 अनुष्टुप्
ईश्वरा भूरि-दानेन यल्लभन्ते फलं किल । दरिद्रस्तच्च काकिण्या प्राप्नुयादिति न श्रुतिः ॥
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →