Skip to main content
Search
PT
Pañcatantram • Chapter 03

Canto 3

तृतीयं तन्त्रम् (काकोलूकीयम्)

Canto 3 of Pañcatantram.

Total: 601 Verses • Citations: PT 3.1–601 • 1 Lexicon Terms • Page 1 of 21 (Verses 30 shown)
प्रस्तावना कथा मेघवर्णारिमर्दन-वृत्तान्तः
अथेदमारभ्यते काकोलूकीयं नाम तृतीयं तन्त्रम् । यस्यायमाद्यः श्लोकः—
PT 3.3 उपजातिः
न विश्वसेत्पूर्व-विरोधितस्य शत्रोश्च मित्रत्वमुपागतस्य । दग्धां गुहां पश्य उलूक-पूर्णां काक-प्रणीतेन हुताशनेन ॥
तद्यथानुश्रुयते-अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य समीपस्थोऽनेक-शाखासनाथोऽतिघनतर-पत्र-च्छन्नो न्यग्रोध-पादपोऽस्ति । तत्र च मेघ-वर्णो नाम वायस-राजोऽनेक-काक-परिवारः प्रतिवसति स्म । स तत्र विहित-दुर्ग-रचनः सपरिजनः कालं नयति । तथान्योऽरि-मर्दनो नामोलूक-राजोऽसङ्ख्योलूक-परिवारो गिरि-गुहा-दुर्गाश्रयः प्रतिवसति स्म । स च रात्रावभ्येत्य सदैव तस्य न्यग्रोधस्य समन्तात्परिभ्रमति । अथोलूकराजः पूर्व-विरोध-वशाद्यं कञ्चिद्वायस-समासादयति । तं व्यापाद्य गच्छति । एवं नित्याभिगमनाच्छनैः शनैस्तन्न्यग्रोध-पादपद्-दुर्गं तेन समन्तान्निर्वायसं कृतम् । अथवा भवत्येवम् । उक्तं च—
PT 3.5 अनुष्टुप्
य उपेक्षेत शत्रुं स्वं प्रसरन्तं यदृच्छया । रोगं चालस्य-संयुक्तः स शनैस्तेन हन्यते ॥
PT 3.7 अनुष्टुप्
जात-मात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् । महाबलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥
अथान्येद्युः स वायस-राजः सर्वान्सचिवानाहूय प्रोवाच-भोः !उत्कटस्तावदस्माकं शत्रुरुद्यम-सम्पन्नश्च कालविच्च नित्यमेव निशागमे समेत्यास्मत्-पक्ष-कदनं करोति । तत्कथमस्य प्रतिविघातव्यम् ? वयं तावद्रात्रौ न पश्यामः । न च दिवा दुर्गं विजानीमो येन गत्वा प्रहरामः । तदत्र किं युज्यते सन्धि-विग्रह-यानासन-संश्रय-द्वैधी-भावानां मध्यात् । अथ ते प्रोचुः-युक्तमभिहितं देवेन यदेष प्रश्नः कृतः । उक्तं च—
PT 3.9 अनुष्टुप्
अपृष्टेनापि वक्तव्यं सचिवेनात्र किंचन । पृष्टेन तु विशेषेण वाच्यं पथ्यं महीपतेः ॥
PT 3.10 अनुष्टुप्
यो न पृष्टो हितं ब्रूते परिणामे सुखावहम् । मन्त्रो न प्रिय-वक्ता च केवलं स रिपुः स्मृतम् ॥
PT 3.11 अनुष्टुप्
तस्मादेकान्तमासाद्य कार्यो मन्त्रो महीपते । येन तस्य वयं कुर्मो नियमं कारणं तथा ॥
PT 3.13 अनुष्टुप्
बलीयसि प्रणमतां काले प्रहरतामपि । सम्पदो नावगच्छन्ति प्रतीपमिव निम्नगाः ॥
PT 3.14 अनुष्टुप्
सत्याढ्यो धार्मिकश्चार्यो भ्रातृ-सङ्घातवान्बली । अनेक-विजयी चैव सन्धेयः स रिपुर्भवेत् ॥
PT 3.15 अनुष्टुप्
सन्धिः कार्योऽप्यनार्येण विज्ञाय प्राण-संशयम् । प्राणैः संरक्षितैः सर्वं यतो भवति रक्षितम् ॥
PT 3.16 अनुष्टुप्
अनेक-युद्ध-विजयी सन्धानं यस्य गच्छति । तत्-प्रभावेण तस्याशु वशं गच्छन्त्यरातयः ॥
PT 3.17 अनुष्टुप्
सन्धिमिच्छेत्समेनापि सन्दिग्धो विजयी युधि । न हि सांशयिकं कुर्यादित्युवाच बृहस्पतिः ॥
PT 3.18 अनुष्टुप्
सन्दिग्धो विजयो युद्धे जनानामिह युद्ध्यताम् । उपाय-त्रितयादूर्ध्वं तस्माद्युद्धं समाचरेत् ॥
PT 3.19 अनुष्टुप्
असन्दधानो मानान्धः समेनापि हतो भृशम् । आमकुम्भमिवाभित्त्वा नावतिष्ठेत शक्तिमान् ॥
PT 3.20 अनुष्टुप्
समं शक्तिमता युद्धमशक्तस्य हि मृत्यवे । वृषत्कुम्भं यथा भित्त्वा तावत्तिष्ठति शक्तिमान् ॥
PT 3.22 अनुष्टुप्
भूमिर्मित्रं हिरण्यं वा विग्रहस्य फल-त्रयम् । नास्त्येकमपि यद्येषां विग्रहं न समाचरेत् ॥
PT 3.23 अनुष्टुप्
खनन्नाखु-बिलं सिंहः पाषाण-शकलाकुलम् । प्राप्नोति नख-भङ्गं हि फलं वा मूषको भवेत् ॥
PT 3.24 अनुष्टुप्
तस्मान्न स्यात्फलं यत्र पुष्टं युद्धं तु केवलम् । न हि तत्स्वयमुत्पाद्यं कर्तव्यं न कथञ्चन ॥
PT 3.25 अनुष्टुप्
बलीयसा समाक्रान्तो वैतसीं वृत्तिमाश्रयेत् । वाञ्छन्नभ्रंशिनीं लक्ष्मीं न भौजङ्गी कदाचन ॥
PT 3.26 अनुष्टुप्
कुर्वन्हि वैतसीं वृत्तिं प्राप्नोति महतीं श्रियम् । भुजङ्ग-वृत्तिमापन्नो वधमर्हति केवलम् ॥
PT 3.27 अनुष्टुप्
कौर्मं सङ्कोचमास्थाय प्रहारानपि मर्षयेत् । काले काले च मतिमानुत्तिष्ठेत्कृष्ण-सर्पवत् ॥
PT 3.28 अनुष्टुप्
आगतं विग्रहं विद्वानुपायैः प्रशमं नयेत् । विजयस्य ह्यनित्यत्वाद्रभसेन न सम्पतेत् ॥
PT 3.29 अनुष्टुप्
बलिना सह योद्धव्यमिति नास्ति निदर्शनम् । प्रतिवातं न हि घनः कदाचिदुपसर्पति ॥
PT 3.30 अनुष्टुप्
शत्रुणा न हि सन्दध्यात्सुश्लिष्टेनापि सन्धिना । सुतप्तमपि पानीयं शमयत्येव पावकम् ॥
← Previous (Ch. 2) Full Table of Contents Next (Ch. 4) →