शीत-वातातप-सहः कृशाङ्गो मलिनस्तथा ।उपवासैर्बहुविधैश्चरिष्ये धर्ममुत्तमम् ॥
लुब्धकेन ततो मुक्ता दृष्ट्वाग्नौ पतितं पतिम् । कपोती विललापार्ता शोक-सन्तप्त-मानसा ॥
न कार्यमद्य मे नाथ जीवितेन त्वया विना । दीनायाः पति-हीनायाः किं नार्या जीविते फलम् ॥
मानो दर्पस्त्वहङ्कारः कुलं पूजा च बन्धुषु । दास-भृत्य-जनेष्वाज्ञा वैधव्येन प्रणश्यति ॥
एवं विलप्य बहुशः कृपणं भृश-दुःखिता । पतिव्रता सुसन्दीप्तं तमेवाग्निं विवेश सा ॥
ततो दिव्याम्बर-धरा दिव्याभरण-भूषिता । भर्तारं सा विमानस्थं ददर्श स्वं कपोतिका ॥
सोऽपि दिव्य-तनुर्भूत्वा यथार्थमिदमब्रवीत् । अहो मामनुगच्छन्त्या कृतं साधु शुभे त्वया ॥
तिस्रः कोट्योऽर्ध-कोटी च यानि रोमाणि मानुषे । तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति ॥
कपोत-देहः सूर्यास्ते प्रत्यहं सुखमन्वभूत् । कपोत-देहवत्सासीत्प्राक्पुण्य-प्रभवं हितम् ॥
हर्षाविष्टस्ततो व्याधो विवेश च वनं धनम् । प्राणि-हिंसां परित्यज्य बहु-निर्वेदवान्भृशम् ॥
तत्र दावानलं दृष्ट्वा विवेश विरताशयः । निर्दग्ध-कल्मषो भूत्वा स्वर्ग-सौख्यमवाप्तवान् ॥
अतोऽहं ब्रवीमि-श्रूयते हि कपोतेन (१३४)इत्यादि ।
तच्छ्रुत्वारिमर्दनो दीप्ताक्षं पृष्टवान्-एवमवस्थिते किं भवान्मन्यते ?
सोऽब्रवीत्-देव ! न हन्तव्य एवायम् । यतः—
या ममोद्विजते नित्यं सा ममाद्यावगूहते । प्रिय-कारक भद्रं ते यन्ममास्ति हरस्व तत् ॥
चोरेण चाप्युक्तम्—
हर्तव्यं ते न पश्यामि हर्तव्यं चेद्भविष्यति । पुनरप्यागमिष्यामि यदीयं नावगूहते ॥
अरिमर्दनः पृष्टवान्-का च नावगूहते ? कश्चायं चौरः ?इति विस्तरतः श्रोतुमिच्छामि ।
दीप्ताक्षः कथयति- कथा ८ कामातुर-वणिक्-कथा
अस्ति कस्मिंश्चिदधिष्ठाने कामातुरो नाम वृद्ध-वणिक् । तेन च कामोपहृत-चेतसा, मृत-भार्येण काचिन्निर्धन-वणिक्-सुता, प्रभूतं धनं दत्त्वोद्वाहिता । अथ सा दुःखाभिभूता तं वृद्ध-वणिजं द्रष्टुमपि न शशाक । युक्तं चैतत्—
श्वेतं पदं शिरसि यत्तु शिरोरुहाणां स्थानं परं परिभवस्य तदेव पुंसाम् । आरोपितास्थि-शकलं परिहृत्य यान्ति चाण्डाल-कूपमिव दूरतरं तरुण्यः ॥
तथा च—
गात्रं सङ्कुचितं गतिर्विगलिता दन्ताश्च नाशङ्गता दृष्टिर्भ्राम्यति रूपमप्युपहतं वक्त्रं च लालायते । वाक्यं नैव करोति बान्धव-जनः पत्नी न शुश्रूषते धिक्कष्टं जरयाभिभूत-पूरुषं पुत्रोऽप्यवज्ञायते ॥
अथ कदाचित्सा तेन सहैकशयने पराङ्मुखी यावत्तिष्ठति तावद्गृहे चौरः प्रविष्टः । सापि तं चौरं दृष्ट्वा भय-व्याकुलिता वृद्धमपि तं पतिं गाढं समालिलिङ्ग । सोऽपि विस्मयात्पुलकाञ्चित-सर्व-गात्रश्चिन्तयामास-अहो किमेषा मामद्यावगूहते ? यावन्निपुणतया पश्यति तावत्गृह-कोणैक-देशे चौरं दृष्ट्वा व्यचिन्तयत्-नूनमेषास्य भयान्मामालिङ्गति इति ज्ञात्वा तं चौरमाह-या ममोद्विजते (१८६)इत्यादि ।
तच्छ्रुत्वा चौरोऽप्याह-हर्तव्यं ते न पश्यामि (१८७)इत्यादि । तस्माच्चौरस्याप्युपकारः श्रेयश्चिन्त्यते किं पुनः शरणागतस्य । अपि चायं तैर्विप्रकृतोऽस्माकमेव पुष्टये भविष्यति तदीय-रन्ध्र-दर्शनाय चेति अनेन कारणेनायमवध्य इति ।
एतदाकर्ण्यारिमर्दनोऽन्यं सचिवं वक्रनासं पप्रच्छ-भद्र ! साम्प्रतमेवं स्थिते किं करणीयमिति ?
सोऽब्रवीत्-देव !अवध्योऽयम् । यतः—
शत्रवोऽपि हितार्थैव विवदन्तः परस्परम् । चौरेण जीवितं दत्तं राक्षसेन तु गो-युगम् ॥
अरिमर्दनः प्राह-कथमेतत् ?
वक्रनासः कथयति- कथा १० द्रोणाख्य-ब्राह्मण-कथा