Skip to main content
Search
PT
Pañcatantram • Chapter 03

Canto 3

तृतीयं तन्त्रम् (काकोलूकीयम्)

Canto 3 of Pañcatantram.

Total: 601 Verses • Citations: PT 3.1–601 • 1 Lexicon Terms • Page 15 of 21 (Verses 30 shown)
सोऽब्रवीत्-अहं तावद्युष्मद्-अर्थमिमामापदं मेघवर्णेन प्रापितः । तदिच्छामि तेषां वैर-यातनार्थमुलूकत्वमिति ।
तच्च श्रुत्वा राजनीति-कुशलो रक्ताक्षः प्राह-भद्र ! कुटिलस्त्वं कृतक-वचन-चतुरश्च । तावदुलूक-योनि-गतोऽपि स्वकीयामेव वायस-योनिं बहु मन्यसे । श्रूयते चैतदाख्यानकम् ।
PT 3.423 अनुष्टुप्
सूर्यं भर्तारमुत्सृज्य पर्जन्यं मारुतं गिरिम् । स्व-जातिं मूषिका प्राप्ता स्वजातिर्दुरतिक्रमा ॥
मन्त्रिणः प्रोचुः--कथमेतत् ?
कथा ११ शालङ्कायन-रक्षित-मूषिका-कथा
अस्ति कस्मिंश्चिदधिष्ठाने शालङ्कायनो नाम तपोधनो जाह्नव्यां स्नानार्थं गतः । तस्य च सूर्योपस्थानं कुर्वतस्तत्र प्रदेशे मूषिका काचित्खरतर-नखाग्र-पुटेन श्येनेन गृहीता । दृष्ट्वा स मुनिः करुणार्द्र-हृदयो मुञ्च मुञ्चेति कुर्वाणस्तस्योपरि पाषाण-खण्डं प्राक्षिपत् । सोऽपि पाषाण-खण्ड-प्रहार-व्याकुलेन्द्रियो भ्रष्ट-मूषिको भूमौ निपपात मूषिकापि भय-त्रस्ता कर्तव्यमजानन्ती रक्ष रक्षेति जल्पन्ती मुनि-चरणान्तिकमुपाविशत् । श्येनेनापि चेतनं लब्ध्वा मुनिरुक्तो, यद्-भो मुने ! न युक्तमनुष्ठितं भवता यदहं पाषाणेन ताडितः । किं त्वमधर्मान्न बिभेषि ? तत्समर्पय मामेनाम्मूषिकाम् । नो चेत्प्रभूतं पातकमवाप्स्यसि ।
इति ब्रुवाणं श्येनं प्रोवाच सः-भो विहङ्गाधम ! रक्षणीयाः प्राणिनां प्राणाः । दण्डनीया दुष्टाः । सम्माननीयाः साधवः । पूजनीया गुरवः । स्तुत्या देवाः । तत्किमसम्बद्धं प्रजल्पसि ?
श्येन आह—मुने ! न त्वं सूक्ष्म-धर्मं वेत्सि । इह हि सर्वेषां प्राणिनां विधिना सृष्टिं कुर्वताहारोऽपि विनिर्मितः । ततो यथा भवतामन्नं तथास्माकं मूषिकादयो विहिताः । तत्स्वाहार-काङ्क्षिणं मां किं दूषयसि ?उक्तं च—
PT 3.430 अनुष्टुप्
यद्यस्य विहितं भोज्यं न तत्तस्य प्रदुष्यति । अभक्ष्ये बहु-दोषः स्यात्तस्मात्कार्यो न व्यत्ययः ॥
PT 3.431 अनुष्टुप्
भक्ष्यं यथा द्विजातीनां मद्यपानां यथा हविः । अभक्ष्यं भक्ष्यतामेति तथान्येषामपि द्विज ॥
PT 3.432 अनुष्टुप्
भक्ष्यं भक्ष्यतां श्रेय अभक्ष्यं तु महदघम् । तत्कथं मां वृथाचार त्वं दण्डयितुमर्हसि ॥
अपरं मुनीनां न चैष धर्मो यतस्तैर्दृष्टं श्रुतमश्रुतमलौल्यत्वमशत्रुत्वं प्रशस्यते । उक्तं च—
PT 3.434 उपजातिः
समः शत्रौ च मित्रे च सम-लोष्टाश्म-काञ्चनः । सुहृन्-मित्रे ह्युदासीनो मध्यस्थो द्वेष्य-बन्धुषु । साधुष्वपि च पापेषु सम-बुद्धिर्विशिष्यते ॥
PT 3.435 अनुष्टुप्
साधूनां निरवद्यानां सदाचार-विचारिणाम् । योगी युञ्जीत सततं सततमात्मानं रहसि स्थितः ॥
तत्त्वमनेन कर्मणा भ्रष्ट-तपाः सञ्जातः । उक्तं च—
PT 3.437 अनुष्टुप्
मुञ्च मुञ्च पतत्येको मा मुञ्चेति द्वितीयकः । उभयोः पतनं दृष्ट्वा मौनं सर्वार्थ-साधनम् ॥
कस्मिंश्चिद्नदी-तट एकत-द्वित-त्रिताभिधानास्त्रयोऽपि भ्रातरो मुनयस्तपः कुर्वन्ति । तेषां च तपः-प्रभावादाकाशस्था धौत-पोतिका निरालम्बा जलार्द्रा भू-स्पर्शन-भयेन स्नान-समये तिष्ठन्ति । अथान्ये-द्युर्ममैव काचिन्मण्डूकिका केनापि गृध्रेण बलेन नीता । अथ तां गृहीता विलोक्य तेषां ज्येष्ठेन करुणार्द्र-हृदयेन भवतेव व्याहृतं-मुञ्च मुञ्चेति । अत्रान्तरे तस्य धौत-पोतिकाकाशाद्भूमौ पतिता । तां पतितां दृष्ट्वा द्वितीयेन तद्-भयार्तेन मा मुञ्चेत्यभिहितं यावत्तस्यापि पपात । ततस्तृतीयो द्वयोरपि धौत-पोतिकां भूमौ पतितां दृष्ट्वा तूष्णीं बभूव ।
अतोऽहं ब्रवीमि-मुञ्च मुञ्च पतत्येक इत्यादि ।
तच्छ्रुत्वा मुनिर्विहस्याह-भो मूर्ख विहङ्गम ! कृत-युगे धर्मः स आसीत्, यतः कृत-युगे पापालापतोऽपि पापं जायते तेन धौत-पोतिके पतिते अशिष्टालापेन न सद्-अपवचन-दोषतः । एष पुनः कलि-युगः । अत्र सर्वोऽपि पापात्मा । तत्कर्म कृतं विना पापं न लगति । उक्तं च—
PT 3.443 अनुष्टुप्
सञ्चरन्तीह पापानि युगेष्वन्येषु देहिनाम् । कलौ तु पाप-संयुक्ते यः करोति स लिप्यते ॥
PT 3.445 अनुष्टुप्
आसनाच्छयनाद्यानात्संगतेश्चापि भोजनात् । कृते सञ्चरते पापं तैल-बिन्दुरिवाम्भसि ॥
तत्किं वृथा प्रलपितेन ? गच्छ त्वम् । नो चेच्छापयिष्यामि । अथ गते श्येने मूषिकया स मुनिरभिहितः-भगवन् ! नय मां स्वाश्रयम् । नो चेदन्यो दुष्ट-पक्षी मां व्यापादयिष्यति । तदहं तत्रैवाश्रमे त्वद्-दत्तान्नाहार-मुष्ट्या कालं नेष्यामि ।
सोऽपि दाक्षिण्यवान्स-करुणो व्यचिन्तयत्-कथं मया मूषिका हस्ते धृत्वा नेया जन-हास्य-कारिणी । तदेनां कुमारिकां कृत्वा नयामि । एवं सा कन्यका कृता । तथानुष्ठिते कन्या-सहितं मुनिमवलोक्य पत्नी पप्रच्छ-भगवन् ! कुत इयं कन्या ?
स आह—एषा मूषिका श्येन-भयाच्छरणार्थिनी कन्या-रूपेण तव गृहमानीता । तत्त्वया यत्नेन रक्षणीया । भूयोऽप्येनां मूषिकां करिष्यामि ।
सा प्राह-भगवन् ! मैवं कार्षीः । अस्यास्त्वं धर्म-पिता । उक्तं च—
PT 3.450 अनुष्टुप्
जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्न-दाता भय-त्राता पञ्चैते पितरः स्मृताः ॥
← Previous (Ch. 2) Full Table of Contents Next (Ch. 4) →