Skip to main content
Search
PT
Pañcatantram • Chapter 03

Canto 3

तृतीयं तन्त्रम् (काकोलूकीयम्)

Canto 3 of Pañcatantram.

Total: 601 Verses • Citations: PT 3.1–601 • 1 Lexicon Terms • Page 11 of 21 (Verses 30 shown)
PT 3.301 अनुष्टुप्
पतिव्रता पति-प्राणा पत्युः प्रिय-हिते रता । यस्य स्यादीदृशी भार्या धन्यः स पुरुषो भुवि ॥
PT 3.302 अनुष्टुप्
न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते । गृहं तु गृहिणी-हीनमरण्य-सदृशं मतम् ॥
PT 3.303 अनुष्टुप्
पञ्जर-स्था ततः श्रुत्वा भर्तुर्दुःखान्वितं वचः । कपोतिका सुसन्तुष्टा वाक्यं चेदमथाह सा ॥
PT 3.304 अनुष्टुप्
न सा स्त्रीत्यभिमन्तव्या यस्यां भर्ता न तुष्यति । तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्व-देवताः ॥
PT 3.305 अनुष्टुप्
दावाग्निना विदग्धेव स-पुष्प-स्तवका लता । भस्मीभवतु सा नारी यस्यां भर्ता न तुष्यति ॥
PT 3.306 अनुष्टुप्
मितं ददाति हि पिता मितं भ्राता मितं सुतः । अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥
PT 3.308 अनुष्टुप्
शृणुष्वावहितः कान्त यत्ते वक्ष्याम्यहं हितम् । प्राणैरपि त्वया नित्यं संरक्ष्यः शरणागतः ॥
PT 3.309 अनुष्टुप्
एष शाकुनिकः शेते तवावासं समाश्रितः । शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर ॥
PT 3.311 अनुष्टुप्
यः सायमतिथिं प्राप्तं यथा-शक्ति न पूजयेत् । तस्यासौ दुष्कृतं दत्त्वा सुकृतं चापकर्षति ॥
PT 3.312 अनुष्टुप्
मा चास्मै त्वं कृथा द्वैषं बद्धानेनेति मत्-प्रिया । स्व-कृतैरेव बद्धाहं प्राक्तनैः कर्म-बन्धनैः ॥
PT 3.313 अनुष्टुप्
दारिद्र्य-रोग-दुःखानि बन्धन-व्यसनानि च । आत्मापराध-वृक्षस्य फलान्येतानि देहिनाम् ॥
PT 3.314 अनुष्टुप्
तस्मात्त्वं द्वेषमुत्सृज्य मद्-बन्धन-समुद्भवम् । धर्मे मनः समाधाय पूजयैनं यथा-विधि ॥
PT 3.315 अनुष्टुप्
तस्यास्तद्-वचनं श्रुत्वा धर्म-युक्ति-समन्वितम् । उपगम्य ततोऽधृष्टः कपोतः प्राह लुब्धकम् ॥
PT 3.316 अनुष्टुप्
भद्र सुस्वागतं तेऽस्तु ब्रूहि किं करवाणि ते । सन्तापश्च न कर्तव्यः स्व-गृहे वर्तते भवान् ॥
PT 3.317 अनुष्टुप्
तस्य तद्-वचनं श्रुत्वा प्रत्युवाच विहङ्गमम् । कपोत खलु शीतं मे हिम-त्राणं विधीयताम् ॥
PT 3.318 अनुष्टुप्
स गत्वाङ्गारकं नीत्वा पातयामास पावकम् । ततः शुष्केषु पर्णेषु तमाशु समदीपयत् ॥
PT 3.319 अनुष्टुप्
सुसन्दीप्तं ततः कृत्वा तमाह शरणागतम् । प्रतापयस्व विश्रब्धं स्व-गात्राण्यत्र निर्भयः ॥
PT 3.320 अनुष्टुप्
उद्गतेन च जीवामो वयं सर्वे वनौकसः । न चास्ति विभवः कश्चिन्नाशये येन ते क्षुधम् ॥
PT 3.321 अनुष्टुप्
सहस्रं भरते कश्चिच्छतमन्यो दशापरः । मम त्वकृत-पुण्यस्य क्षुद्रस्यात्मापि दुर्भरः ॥
PT 3.322 अनुष्टुप्
एकस्याप्यतिथेरन्नं यः प्रदातुं न शक्तिमान् । तस्यानेक-परिक्लेशे गृहे किं वसतः फलम् ॥
PT 3.323 अनुष्टुप्
तत्तथा साधयाम्येतच्छरीरं दुःख-जीवितम् । यथा भूयो न वक्ष्यामि नास्तीत्यर्थि-समागमे ॥
PT 3.324 अनुष्टुप्
स निनिन्दि किलात्मानं न तु तं लुब्धकं पुनः । उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ॥
PT 3.325 अनुष्टुप्
एवमुक्त्वा स धर्मात्मा प्रहृष्टेनान्तरात्मना । तमग्निं सम्परिक्रम्य प्रविवेश स्व-वेश्मवत् ॥
PT 3.326 अनुष्टुप्
ततस्तं लुब्धको दृष्ट्वा कृपया पीडितो भृशम् । कपोतमग्नौ पतितं वाक्यमेतदभाषत ॥
PT 3.327 अनुष्टुप्
यः करोति नरः पापं न तस्यात्मा ध्रुवं प्रियः । आत्मना हि कृतं पापमात्मनैव हि भुज्यते ॥
PT 3.328 अनुष्टुप्
सोऽहं पाप-मतिश्चैव पाप-कर्म-रतः सदा । पतिष्यामि महा-घोरे नरके नात्र संशयः ॥
PT 3.329 अनुष्टुप्
नूनं मम नृशंसस्य प्रत्यादर्शः सुदर्शितः । प्रयच्छता स्व-मांसानि कपोतेन महात्मना ॥
PT 3.330 अनुष्टुप्
अद्य-प्रभृति देहं स्वं सर्व-भोग-विवर्जितम् । तोयं स्वल्पं यथा ग्रीष्मः शोषयिष्याम्यहं पुनः ॥
← Previous (Ch. 2) Full Table of Contents Next (Ch. 4) →