एवं विचिन्त्य काकोऽपि प्रयातः । तदा-प्रभृत्यस्माभिः सह कौशिकानामन्वया-गतं वैरमस्ति ।
मेघवर्ण आह—तात !एवं गतेऽस्माभिः किं क्रियते ?
स आह—वत्स !एवं गतेऽपि षाड्गुण्यादपरः स्थूलोऽभिप्रायोऽस्ति । तमङ्गीकृत्य स्वयमेवाहं तद्-विजयाय यास्यामि । रिपून्वञ्चयित्वा वधिष्यामि । उक्तं च—
बहु-बुद्धि-समायुक्ताः सुविज्ञाना बलोत्कटान् । शक्ता वञ्चयितुं धूर्ता ब्राह्मणं छागलदिव ॥
मेघवर्ण आह—कथमेतत् ?
सोऽब्रवीत्- कथा ३ मित्र-शर्म-ब्राह्मण-कथा
कस्मिंश्चिदधिष्ठाने मित्रशर्मा नाम ब्राह्मणः कृताग्निहोत्र-परिग्रहः प्रतिवसति स्म । तेन कदाचिन्माघ-मासे सौम्यानिले प्रवाति, मेघाच्छादिते गगने मन्दं मन्दं प्रवर्षति पर्जन्ये, पशु-प्रार्थनार्थं किञ्चिद्ग्रामान्तरं गत्वा, कश्चिद्यजमानो याचितः-भो यजमान !आगामिन्याममावास्यायामहं यक्ष्यामि यज्ञम् । तद्देहि मे पशुमेकम् ।
अथ तेन यस्य शास्त्रोक्तः पीवर-तनुः पशुः प्रदत्तः । सोऽपि तं समर्थमितश्चेतश्च गच्छन्तं विज्ञाय स्कन्धे कृत्वा सत्वरं स्व-पुराभिमुखः प्रतस्थे ।
अथ तस्य गच्छतो मार्गे त्रयो धूर्ताः क्षुत्-क्षाम-कण्ठाः संमुखा बभूवुः । तैश्च तादृशं पीवर-तनुं स्कन्ध आरूढमालोक्य, मिथोऽभिहितं-अहो !अस्य पशोर्भक्षणादद्यतनीयो हिम-पातो व्यर्थतां नीयते । तदेनं वञ्चयित्वा पशुमादाय शीत-त्राणं कुर्मः ।
अथ तेषामेकतमो वेश-परिवर्तनं विधाय संमुखो भूत्वापमार्गेण तमाहिताग्निमूचे-भो भोः ! बालाग्निहोत्रिन् ! किमेवं जन-विरुद्धं हास्य-कार्यमनुष्ठीयते ? यदेष सारमेयोऽपवित्रः स्कन्धाधिरूढो नीयते । उक्तं च यतः ।
श्वान-कुक्कुट-चाण्डालाः सम-स्पर्शाः प्रकीर्तिताः । रासभोष्ट्रौ विशेषेण तस्मात्तान्नैव संस्पृशेत् ॥
ततश्च तेन कोपाभिभूतेनाभिहितम्-अहो ! किमन्धो भवान् ? यत्पशुं सारमेयत्वेन प्रतिपादयसि ?
सोऽब्रवीत्-ब्रह्मन् ! कोपस्त्वया न कार्यः । यथेच्छं गम्यताम् ।
अथ यावत्किञ्चिदध्वनोऽन्तरं गच्छति, तावद्द्वितीयो धूर्तः सम्मुखमभ्युपेत्य तमुवाच-भोः ब्रह्मन् ! कष्टं कष्टम् ! यद्यपि वल्लभोऽयं ते मृत-वत्सस्तथापि स्कन्धमारोपयितुमयुक्तम् । उक्तं च यतः—
तिर्यञ्चं मानुषं वापि यो मृतं संस्पृशेत्कुधीः । पञ्च-गव्येन शुद्धिः स्यात्तस्य चान्द्रायणेन वा ॥
अथासौ स-कोपमिदमाह-भोः ! किमन्धो भवान् ? यत्पशुं मृत-वत्सं वदति ।
सोऽब्रवीत्-भगवन् ! मा कोपं कुरु । अज्ञानान्मयाभिहितम् । तत्त्वमात्म-रुचिं समाचर इति ।
अथ यावत्स्तोकं वनान्तरं गच्छति तावत्तृतीयोऽन्य-वेश-धारी धूर्तः सम्मुखः समुपेत्य तमुवाच-भोः !अयुक्तमेतत्, यद्रासभं स्कन्धाधिरूढं नयसि । तत्त्यज्यतामेषः । उक्तं च—
यः स्पृशेद्रासभं मर्त्यो ज्ञानादज्ञानतोऽपि वा । स-चैलं स्नानमुद्दिष्टं तस्य पाप-प्रशान्तये ॥
तत्त्यजैनं यावदन्यः कश्चिन्न पश्यति ।
अथासौ तं पशुं रासभं मन्यमानो भयाद्भूमौ प्रक्षिप्य स्व-गृहमुद्दिश्य पलायितुं प्रारब्धः । ततस्तेऽपि त्रयो मिलित्वा पशुमादाय यथेच्छं भक्षितुमारब्धाः ।
अतोऽहं ब्रवीमि-बहु-बुद्धि-समायुक्ताः (११६)इति । अथवा साध्विदमुच्यते—
अभिनव-सेवक-विनयैः प्राघुणकोक्तैर्विलासिनीरुदितैः । धूर्त-जन-वचन-निकरैरिह कश्चिदवञ्चितो नास्ति ॥
किं च-दुर्बलैरपि बहुभिः सह विरोधो न युक्तः । उक्तं च—
बहवो न विरोद्धव्या दुर्जया हि महाजनाः । स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥
मेघवर्ण आह—कथमेतत् ?
स्थिरजीवी कथयति—
कथा ४अतिदर्प-नाम-सर्प-कथा
अस्ति कस्मिंश्चिद्वल्मीके महा-कायः कृष्ण-सर्पोऽतिदर्पो नाम । स कदाचिद्विलानुसारि-मार्गमुत्सृज्यान्येन लघु-द्वारेण निष्क्रमितुमारब्धः । निष्क्रामतश्च तस्य महा-कायत्वाद्दैव-वशतया लघु-विवरत्वाच्च शरीरे व्रणः समुत्पन्नः । अथ व्रण-शोणित-गन्धानुसारिणीभिः पिपीलिकाभिः सर्वतो व्याप्तो व्याकुलीकृतश्च । कति व्यापादयति कति वा ताडयति ?अथ प्रभूतत्वाद्विस्तारित-बहु-व्रणः क्षत-सर्वाङ्गोऽतिदर्पः पञ्चत्वमुपागतः ।
अतोऽहं ब्रवीमि-बहवो न विरोद्धव्या (१२१)इति । तदत्रास्ति मे किञ्चिद्वक्तव्यमेव । तदवधार्य यथोक्तमनुष्ठीयताम् ।