Skip to main content
Search
Ch. 3 PT 3.239
Full Chapter
PT • Chapter 3: Canto 3

PT 3.239

Canonical Ref: PT 3.239
Sanskrit (Devanāgarī)
अस्ति कस्मिंश्चिद्वल्मीके महा-कायः कृष्ण-सर्पोऽतिदर्पो नाम । स कदाचिद्विलानुसारि-मार्गमुत्सृज्यान्येन लघु-द्वारेण निष्क्रमितुमारब्धः । निष्क्रामतश्च तस्य महा-कायत्वाद्दैव-वशतया लघु-विवरत्वाच्च शरीरे व्रणः समुत्पन्नः । अथ व्रण-शोणित-गन्धानुसारिणीभिः पिपीलिकाभिः सर्वतो व्याप्तो व्याकुलीकृतश्च । कति व्यापादयति कति वा ताडयति ?अथ प्रभूतत्वाद्विस्तारित-बहु-व्रणः क्षत-सर्वाङ्गोऽतिदर्पः पञ्चत्वमुपागतः ।
Canonical CTS URN Reference
Pañcatantram, PT 3.239. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (PT 3.238) All Verses in Chapter 3 Next Verse (PT 3.240) →