Skip to main content
Search
PT
Pañcatantram • Chapter 03

Canto 3

तृतीयं तन्त्रम् (काकोलूकीयम्)

Canto 3 of Pañcatantram.

Total: 601 Verses • Citations: PT 3.1–601 • 1 Lexicon Terms • Page 2 of 21 (Verses 30 shown)
PT 3.32 अनुष्टुप्
सत्य-धर्म-विहीनेन न सन्दध्यात्कथञ्चन । सुगन्धितोऽप्यसाधुत्वादचिराद्याति विक्रियाम् ॥
तस्मात्तेन योद्धव्यमिति मे मतिः । उक्तं च यतः—
PT 3.34 अनुष्टुप्
क्रूरो लुब्धोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः । मूढो योधावमन्ता च सुखोच्छेद्यो भवेद्रिपुः ॥
अपरं तेन पराभूता वयम् । तद्यदि सन्धान-कीर्तनं करिष्यामस्तद्भूयोऽत्यन्तं कोपं करिष्यति । उक्तं च—
PT 3.36 अनुष्टुप्
चतुर्थोपाय-साध्ये तु रिपौ सान्त्वमपक्रिया । स्वेद्यमाम-ज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ॥
PT 3.37 अनुष्टुप्
सामवादाः सकोपस्य शत्रोः प्रत्युत दीपिकाः । प्रतप्तस्येव सहसा सर्पिषस्तोय-बिन्दवः ॥
PT 3.38 अनुष्टुप्
प्रमाणाभ्यधिकस्यापि महत्-सत्त्वमधिष्ठितः । पदं मूर्ध्नि समाधत्ते केसरी मत्त-दन्तिनः ॥
PT 3.39 अनुष्टुप्
उत्साह-शक्ति-सम्पन्नो हन्याच्छत्रुं लघुर्गुरुम् । यथा कण्ठीरवो नागं भारद्वाजः प्रचक्षते ॥
PT 3.40 अनुष्टुप्
मायया शत्रवो वध्या अवध्याः स्युर्बलेन ये । यथा स्त्री-रूपमास्थाय हतो भीमेन कीचकः ॥
PT 3.42 अनुष्टुप्
मृत्योरिवोग्र-दण्डस्य राज्ञो यान्ति वशं द्विषः । सर्वंसहं तु मन्यन्ते तृणाय रिपवश्च तम् ॥
PT 3.43 अनुष्टुप्
न जातु शमनं यस्य तेजस्तेजस्वि-तेजसाम् । वृथा जातेन किं तेन मातुर्यौवन-हारिणा ॥
PT 3.44 अनुष्टुप्
या लक्ष्मीर्नानुलिप्ताङ्गी वैर्-शोणित-कुङ्कुमैः । कान्तापि मनसः प्रीतिं न सा धत्ते मनस्विनाम् ॥
PT 3.45 अनुष्टुप्
रिपु-रक्तेन संसिक्ता तत्-स्त्री-नेत्राम्बुभिस्तथा । न भूमिर्यस्य भूपस्य का श्लाघा तस्य जीविते ॥
PT 3.46 अनुष्टुप्
बलोत्कटेन दुष्टेन मर्यादा-रहितेन च । न सन्धि-विग्रहौ नैव विना यानं प्रशस्यते ॥
PT 3.47 अनुष्टुप्
द्विधाकारं भवेद्यानं भवेत्प्राणार्थ-रक्षणम् । एकमन्यज्जिगीषोश्च यात्रालक्षणमुच्यते ॥
PT 3.48 अनुष्टुप्
कार्त्तिके वाथ चैत्रे वा विजिगीषोः प्रशस्यते । यानमुत्कृष्ट-वीर्यस्य शत्रु-देशे न चान्यदा ॥
PT 3.49 अनुष्टुप्
अवस्कन्द-प्रदानस्य सर्वे कालाः प्रकीर्तिताः । व्यसने वर्तमानस्य शत्रोच्छिद्रान्वितस्य च ॥
PT 3.50 अनुष्टुप्
स्वस्थानं सुदृढं कृत्वा शूरैश्चातैर्महाबलैः । पर-देशं ततो गच्छेत्प्रणिधि-व्याप्तमग्रतः ॥
PT 3.51 अनुष्टुप्
अज्ञातवी-वधासार-तोय-शस्यो व्रजेत्तु यः । पर-राष्ट्रं न भूयः स स्व-राष्ट्रमधिगच्छति ॥
तत्ते युक्तं कर्तुमपसरणम् । अन्यच्च—
PT 3.53 अनुष्टुप्
तन्न युक्तं प्रभो कर्तुं द्वितीयं यानमेव च । न विग्रहो न सन्धानं बलिना तेन पापिना ॥
अपरं कारणापेक्षयापसरणं क्रियते बुधैः । उक्तं च—
PT 3.55 मालिनी
यदपसरति मेषः कारणं तत्प्रहर्तुं मृग-पतिरपि कोपात्सङ्कुचत्युत्पतिष्णुः । हृदय-निहित-भावा गूढ-मन्त्र-प्रचाराः किमपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥
PT 3.57 अनुष्टुप्
बलवन्तं रिपुं दृष्ट्वा देश-त्यागं करोति यः । युधिष्ठिर इवाप्नोति पुनर्जीवन्स मेदिनीम् ॥
PT 3.58 अनुष्टुप्
युध्यतेऽहङ्कृतिं कृत्वा दुर्बलो यो बलीयसा । स तस्य वाञ्छितं कुर्यादात्मनश्च कुल-क्षयम् ॥
तद्बलवताभियुक्त्स्यापसरण-समयोऽयं न सन्धेर्विग्रहस्य च । एवमनुजीवि-मन्त्रोऽपसरणस्य ।
अथ तस्य वचनमाकर्ण्य प्रजीवनमाह-भद्र ! त्वमप्यात्मनोऽभिप्रायं वद ।
← Previous (Ch. 2) Full Table of Contents Next (Ch. 4) →