तत्कृतं निष्कण्टकं मम राज्यं शत्रून्निःशेषतां नयता त्वया । अथवा युक्तमेतन्नय-वेदिनाम् । उक्तं च यतः—
ऋण-शेषं चाग्नि-शेषं च शत्रु-शेषं तथैव च । व्याधि-शेषं च निःशेषं कृत्वा प्राज्ञो न सीदति ॥
सोऽब्रवीत्-देव ! भाग्यवान्त्वमेवासि, यस्यारब्धं सर्वमेव संसिद्ध्यति । तन्न केवलं शौर्यं कृत्यं साधयति, किन्तु प्रज्ञया यत्क्रियते तदेव विजयाय भवति । उक्तं च—
शस्त्रैर्हता न हि हता रिपवो भवन्ति प्रज्ञा-हतास्तु रिपवः सुहता भवन्ति । शस्तं निहन्ति पुरुषस्य शरीरमेकं प्रज्ञा कुलं च विभवश्च यशश्च हन्ति ॥
तदेवं प्रज्ञा-पुरुषकाराभ्यां युक्तस्यायत्नेन कार्य-सिद्धयः सम्भवन्ति । उक्तं च—
प्रसरति मतिः कार्यारम्भे दृढीभवति स्मृतिः स्वयमुपनयन्नर्थान्मन्त्रो न गच्छति विप्लवम् । स्फुरति सफलस्तर्कश्चित्तं समुन्नतिमश्नुते भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः ॥
तथा च नय-त्याग-शौर्य-सम्पन्ने पुरुषे राज्यमिति । उक्तं च—
त्यागिनि शूरे विदुषि च संसर्ग-रुचिर्जनो गुणी भवति । गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो राज्यम् ॥
मेघवर्ण आह—नूनं सद्यः-फलानि नीति-शास्त्राणि यत्त्वयानुकृत्येनानुप्रविश्यारि-मर्दनः सपरिजनो निःशेषितः ।
स्थिरजीव्याह—
तीक्ष्णोपाय-प्राप्ति-गम्योऽपि योऽर्थस्तस्याप्यादौ संश्रयः साधु युक्तः । उत्तुङ्गाग्रः सार-भूतो वनानां मान्याभ्यर्च्य च्छिद्यते पादपेन्द्रः ॥
अथवा स्वामिन् ! किं तेनाभिहितेन ? यदनन्तर-जाले क्रिया-रहितमसुख-साध्यं वा भवति । साधु चेदमुच्यते—
अनिश्चितैरध्यवसाय-भीरुभिर्यथेष्ट-संलाप-रति-प्रयोजनैः । फले विसंवादमुपागता गिरः प्रयान्ति लोके परिहास-वस्तुताम् ॥
न च लघुष्वपि कर्तव्येषु धीमद्भिरनादरः कर्तव्यः । यतः—
शक्ष्यामि कर्तुमिदमल्पमयत्न-साध्यम् अनादरः क इति कृत्यमुपेक्षमाणाः । केचित्प्रमत्त-मनसः परिताप-दुःखम् आपत्-प्रसङ्ग-सुलभं पुरुषा प्रयान्ति ॥
तदद्य जितारेर्मद्-विभोर्यथा-पूर्वं निद्रा-लाभो भविष्यति । उच्यते चैतत्—
निःसर्पे बद्ध-सर्पे वा भवने सुष्यते सुखम् । सदा दृष्ट-भुजङ्गे तु निद्रा दुःखेन लभ्यते ॥
तथा च—
विस्तीर्ण-व्यवसाय-साध्य-महतां स्निघ्दोपयुक्ताशिषां कार्याणां नय-साहसोन्नति-मतामिच्छापद्-आरोहिणाम् । मानोत्सेक-पराक्रम-व्यसनिनः पारं न यावद्-गताः सामर्षे हृदयेऽवकाश-विषया तावत्कथं निर्वृतिः ॥
तदवसित-कार्यारम्भस्य विश्राम्यतीव मे हृदयम् । तदिदमधुना निहत-कण्टकं राज्यं प्रजा-पालन-तत्परो भूत्वा पुत्र-पौत्रादि-क्रमेणाचल-च्छत्रासन-श्रीः चिरं भुङ्क्ष्व । अपि च—
प्रजा न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणैः । अजागल-स्तनस्येव तस्य राज्यं निरर्थकम् ॥
गुणेषु रागो व्यसनेष्वनादरो रतिः सुभृत्येषु च यस्य भूपतेः । चिरं स भुङ्क्ते चल-चामरांशुकां सितातपत्राभरणां नृप-श्रियम् ॥
न च त्वया प्राप्त-राज्योऽहमिति मत्वा श्री-मदेनात्मा व्यसयितव्यः । यत्कारणम्-चला हि राज्ञो विभूतयः वंशारोहणवद्राज्य-लक्ष्मी-दुरारोहा, क्षण-विनिपात-रता, प्रयत्न-शतैरपि धार्यमाणा दुर्धरा, प्रशस्ताराधिताप्यन्ते विप्रलम्भिनी, वानर-जातिरिव विद्रुतानेक-चित्ता, पद्म-पत्रमिवाघटित-संश्लेषा, पवन-गतिरिवातिचपला,अनार्य-सङ्गतिरिवास्थिरा,आशीविष इव दुरुपचारा, सन्ध्याभ्र-लेखेव मुहूर्त-रागा, जल-बुद्बुदावलीव स्वभाव-भङ्गुरा, शरीर-प्रकृतिरिव कृतघ्ना, स्वप्न-लब्ध-द्रव्य-राशिरिव क्षण-दृष्ट-नष्टा । अपि च—
यदैव राज्ये क्रियतेऽभिषेकस्तदैव बुद्धिर्व्यसनेषु योज्या । घटा हि राज्ञामभिषेक-काले सहाम्भसैवापदमुद्गिरन्ति ॥
न च कश्चिदनधिगमनीयो नामास्त्यापदाम् । उक्तं च—
रामस्य व्रजनं वने निवसनं पाण्डोः सुतानां वने वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् । नाट्याचार्यकमर्जुनस्य पतनं सञ्चिन्त्य लङ्केश्वरे सर्वे काल-वशाज्जनोऽत्र सहते कः कं परित्रायते ॥
क्व स दशरथः स्वर्गे भूत्वा महेन्द्र-सुहृद्गतः क्व स जलनिधेर्वेलां बद्ध्वा नृपः सगरस्तथा । क्व स करतलाज्जातो वैन्यः क्व सूर्य-तनुर्मनुः ननु बलवता कालेनैते प्रबोध्य निमीलिताः ॥
मान्धाता क्व गतस्त्रिलोक-विजयी राजा क्व सत्यव्रतः देवानां नृपतिर्गतः क्व नहुषः सच्-छास्त्रवान्केशवः । मन्यन्ते सरथाः स-कुञ्जर-वराः शक्रासनाध्यासिनः कालेनैव महात्मना त्वनुकृताः कालेन निर्वासिताः ॥
अपि च—
स च नृपतिस्ते सचिवास्ताः प्रमदास्तानि कानन-वनानि । स च ते च ताश्च तानि च कृतान्त-दृष्टानि नष्टानि ॥