सोऽब्रवीत्-देव ! मम सन्धि-विग्रह-यानानि त्रीण्यपि न प्रतिभान्ति । विशेषतश्चासनं प्रतिभाति । उक्तं च—
नक्रः स्व-स्थानमासाद्य गजेन्द्रमपि कर्षति । स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥
तथा—
अभियुक्तो बलवता तिष्ठन्दुर्गे प्रयत्नवान् । तत्रस्थः सुहृदाह्वानं कुर्वीतात्म-विमुक्तये ॥
यो रिपोरागमं श्रुत्वा भय-सन्त्रस्त-मानसः । स्व-स्थानं हि त्यजेत्तत्र न तु भूयो विशेच्च सः ॥
दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः । स्थान-हीनस्तथा राजा गम्यः स्यात्सर्व-जन्तुषु ॥
निज-स्थान-स्थितोऽप्येकः शतं योद्धुं सहेन्नरः । शक्तानामपि शत्रूणां तस्मात्स्थानं न सन्त्यजेत् ॥
तस्माद्दुर्गं दृढं कृत्वा सुभटासार-संयुतम् । प्राकार-परिखा-युक्तं शस्त्रादिभिरलङ्कृतम् ॥
तिष्ठेन्मध्य-गतो नित्यं युद्धाय कृत-निश्चयः । जीवन्सम्प्राप्त्स्यति राज्यं मृतो वा स्वर्गमेष्यति ॥
अन्यच्च—
बलिनापि न बाध्यन्ते लघवोऽप्येक-संश्रयाः । विपक्षेणापि मरुता यथैक-स्थान-वीरुधाः ॥
महानप्येकजो वृक्षः बलवान्सुप्रतिष्ठितः । प्रसह्य इव वातेन शक्यो धर्षयितुं यतः ॥
अथ ये संहता वृक्षा सर्वतः सुप्रतिष्ठिताः । ते न रौद्रानिलेनापि हन्यन्ते ह्येक-संश्रयात् ॥
एवं मनुष्यमप्येकं शौर्येणापि समन्वितम् । शक्यं द्विषन्तो मन्यन्ते हिंसन्ति च ततः परम् ॥
एवं प्रजीव-मन्त्रः । इदमासन-संज्ञकम् ।
एतत्समाकर्ण्य चिरञ्जीविनं प्राह-भद्र ! त्वमपि स्वाभिप्रायं वद ।
सोऽब्रवीत्-देव ! षाड्गुण्य-मध्ये मम संश्रयः सम्यक्प्रतिभाति । तत्तस्यानुष्ठानं कार्यम् । उक्तं च—
असहायः समर्थोऽपि तेजस्वी किं करिष्यति । निर्वाते ज्वलितो वह्निः स्वयमेव प्रशाम्यति ॥
सङ्गतिः श्रेयसी पुंसां स्व-पक्षे च विशेषतः । तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥
तदत्रैव स्थितेन त्वया कश्चित्समर्थः समाश्रयणीयः, यो विपत्-प्रतिकारं करोति । यदि पुनस्त्वं स्व-स्थानं त्यक्त्वान्यत्र यास्यसि । तत्कोऽपि ते वाङ्-मात्रेणापि सहायत्वं न करिष्यति । उक्तं च, यतः—
वनानि दहतो वह्नेः सखी भवति मारुतः । स एव दीप-नाशाय कृशे कस्यास्ति सौहृदम् ॥
अथवा नैतदेकान्तं यद्बलिनमेकं समाश्रयेत् । लघूनामपि संश्रयो रक्षायै एव भवति । उक्तं च, यतः—
सङ्घातवान्यथा वेणुर्निविडैर्वेणुभिर्वृतः । न शक्येत समुच्छेत्तुं दुर्बलोऽपि यथा नृपः ॥
यदि पुनरुत्तम-संश्रयो भवति तत्किमुच्यते ?उक्तं च—
महाजनस्य सम्पर्कः कस्य नोन्नति-कारकः । पद्म-पत्र-स्थितं तोयं धत्ते मुक्ता-फल-श्रियम् ॥
तदेवं संश्रयं विना न कश्चित्प्रतीकारो भवति इति मेऽभिप्रायः । एवं चिरञ्जीवि-मन्त्रः ।
अथैवमभिहिते स मेघवर्णो राजा चिरन्तनं पितृ-सचिवं दीर्घायुषं सकल-नीति-शास्त्र-पारङ्गतं स्थिरजीवि-नामानं प्रणम्य प्रोवाच-तात ! यदेते मया पृष्टाः सचिवास्तावदत्र-स्थितस्यापि तव तत्-परीक्षार्थम्, येन त्वं सकलं श्रुत्वा यदुचितं तन्मे समादिशसि । तद्यद्युक्तं भवति तस्समादेश्यम् ।
स आह—वत्स ! सर्वैरप्येतैर्नीति-शास्त्राश्रयमुक्तं सचिवैः । तदुपयुज्यते स्व-कालोचितं सर्वमेव । परमेष द्वैधीभावस्य कालः । उक्तं च—
अविश्वासं सदा तिष्ठेत्सन्धिना विग्रहेण च । द्वैधी-भावं समाश्रित्य पापे शत्रौ बलीयसि ॥
तच्छत्रुं विश्वास्याविश्वस्तैर्लोभं दर्शयद्भिः सुखेनोच्छिद्यते रिपुः । उक्तं च—