Skip to main content
Search
PT
Pañcatantram • Chapter 03

Canto 3

तृतीयं तन्त्रम् (काकोलूकीयम्)

Canto 3 of Pañcatantram.

Total: 601 Verses • Citations: PT 3.1–601 • 1 Lexicon Terms • Page 13 of 21 (Verses 30 shown)
अस्ति कस्मिंश्चिदधिष्ठाने दरिद्रो द्रोण-नामा ब्राह्मणः, प्रतिग्रह-धनः सततं विशिष्ट-वस्त्रानुलेपन-गन्ध-माल्यालङ्कार-ताम्बूलादि-भोग-परिवर्जितः, प्ररूढ-केश-श्मश्रु-नख-रोमोपचितः, शीतोष्ण-वात-वर्षादिभिः परिशोषित-शरीरः, तस्य च केनापि यजमानेनानुकम्पया शिशु-गो-युगं दत्तम् । ब्राह्मणेन च बाल-भावादारभ्य याचित-घृत-तैल-यवसादिभिः संवर्ध्य सुपुष्टं कृतम् । तच्च दृष्ट्वा सहसैव कश्चिच्चौरश्चिन्तितवान्-अहमस्य ब्राह्मणस्य गो-युगमिदमपहरिष्यामि । इति निश्चित्य निशायां बन्धन-पाशं गृहीत्वा, यावत्प्रस्थितस्तावदर्ध-मार्गे प्रविरल-तीक्ष्ण-दन्त-पङ्क्तिरुन्नत-नासा-वंशः, प्रकट-रक्तान्त-नयनः उपचित-स्नायु-सन्ततनत-गात्रः शुष्क-कपोलः सुहुत-हुतवह-पिङ्गल-श्मश्रु-केश-शरीरः कश्चिद्दृष्टः । दृष्ट्वा च तं तीव्र-भय-त्रस्तो चौरोऽब्रवीत्-को भवान् ?इति ।
सोऽब्रवीत्-अहं क्रूर-कर्मा चौरो दरिद्र-ब्राह्मणस्य गो-युगं हर्तुं प्रस्थितोऽस्मि ।
अथ जात-प्रत्ययो राक्षसोऽब्रवीत्-भद्र ! षष्ठाह्न-कालिकोऽहम् । अतस्तमेव ब्राह्मणमद्य भक्षयिष्यामि ।
अथ तौ तत्र गत्वैकान्ते कान्लमन्वेषयन्तौ स्थितौ । प्रसुप्ते च ब्राह्मणे तद्-भक्षणार्थं प्रस्थितं राक्षसं दृष्ट्वा चौरोऽब्रवीत्-भद्र ! नैषन्यायो यतो गो-युगे मयापहृते पश्चात्त्वमेनं ब्राह्मणं भक्षय ।
सोऽब्रवीत्-कदाचिदयं ब्राह्मणो गो-शब्देन बुध्येत तदानर्थकोऽयं ममारम्भः स्यात् ।
चौरोऽप्यब्रवीत्-तवापि यदि भक्षणायोपस्थितस्य एकोऽप्यन्तरायः स्यात् । तदाहमपि न शक्नोमि गो-युगमपहर्तुम् । अतः प्रथमं मयापहृते गो-युगे पश्चात्त्वया ब्राह्मणो भक्षितव्यः । इत्थं चाहमहमिकया तयोर्विवदतोः समुत्पन्ने द्वैधे प्रतिरव-वशाद्ब्राह्मणो जजागार ।
अथ तं चौरोऽब्रवीत्-ब्राह्मण ! त्वामेवायं राक्षसो भक्षयितुमिच्छति इति ।
राक्षसोऽप्याह-ब्राह्मण ! चौरोऽयं गो-युगं तेऽपहर्तुमिच्छति ।
एवं श्रुत्वोत्थाय ब्राह्मणः सावधानो भूत्वेष्ट-देवता-मन्त्र-ध्यानेनात्मानं राक्षसादुद्गूर्ण-लगुडेन चौराद्गो-युगं ररक्ष ।
अतोऽहं ब्रवीमि-शत्रवोऽपि हितार्थैव (१९०)इति ।
अथ तस्य वचनमवधार्यारिमर्दनः पुनरपि प्राकारकर्णमपृच्छत्-कथय, किमत्र मन्यते भवान् ?
सोऽब्रवीत्-देव !अवध्य एवायम्, यतो रक्षितेनानेन कदाचित्परस्पर-प्रीत्या कालः सुखेन गच्छति । उक्तं च—
PT 3.373 अनुष्टुप्
परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः । त एव निधनं यान्ति वल्मीकोदर-सर्पवत् ॥
अरिमर्दनोऽब्रवीत्-कथमेतत् ?
कथा १० वल्मीकोदर-गत-सर्प-कथा
अस्ति कस्मिंश्चिन्नगरे देवशक्तिर्नाम राजा । तस्य च पुत्रो जठर-वल्मीकाश्रयेणोरगेण प्रतिदिनं प्रत्यङ्गं क्षीयते । अनेकोपचारैः सद्-वैद्यैः सच्-छास्त्रोपदिष्टौषध-युक्त्यापि चिकित्स्यमानो न स्वास्थ्यमेति । अथासौ राजपुत्रो निर्वेदाद्देशान्तरं गतः ।
कस्मिंश्चिन्नगरे भिक्षाटनं कृत्वा महति देवालये कालं यापयति । अथ तत्र नगरे बलिर्नाम राजास्ते । तस्य च द्वे दुहितरौ यौवन-स्थे तिष्ठतः । ते च प्रतिदिवसमादित्योदये पितुः पादान्तिकमागत्य नमस्कारं चक्रतुः । तत्र चैकाब्रवीत्-विजयस्व महाराज ! यस्य प्रसादात्सर्वं सुखं लभ्यते ।
द्वितीया तु-विहितं भुङ्क्ष्व महाराज !इति ब्रवीति ।
तच्छ्रुत्वा प्रकुपितो राजाब्रवीत्-भो मन्त्रिणः !एनां दुष्ट-भाषिणीं कुमारिकां कस्यचिद्वैदेशिकस्य प्रयच्छत तेन निज-विहितमियमेव भुङ्क्ते ।
अथ तथेति प्रतिपद्याल्प-परिवारा सा कुमारिका मन्त्रिभिस्तस्य देव-कुलाश्रित-राज-पुत्रस्य प्रतिपादिता । सापि प्रहृष्ट-मनसा तं पतिं देववत्प्रतिपद्यादाय चान्य-विषयं गता ।
ततः कस्मिंश्चिद्दूरतर-नगर-प्रदेशे तडाग-तटे राज-पुत्रमावास-रक्षायै निरूप्य स्वयं च घृत-तैल-लवण-तण्डुलादि-क्रय-निमित्तं स-परिवारा गता । कृत्वा च क्रय-विक्रयं यावदागच्छति तावत्स राज-पुत्रो वल्मीकोपरि कृत-मूर्धा प्रसुप्तः । तस्य च मुखाद्भुजगः फणां निष्कास्य वायुमश्नाति । तत्रैव च वल्मीकेऽपरः सर्पो निष्क्रम्य तथैवासीत् ।
अथ तयोः परस्पर-दर्शनेन क्रोध-संरक्त-लोचनयोर्मध्याद्वल्मीकस्थेन सर्पेणोक्तम्-भो भो दुरात्मन् ! कथं सुन्दर-सर्वाङ्गं राज-पुत्रमित्थं कदर्थयसि ?
मुखस्थोऽरिरब्रवीत्-भो भोः ! त्वयापि दुरात्मनास्य वल्मीकस्य मध्ये कथमिदं दूषितं हाटक-पूर्णं कलश-युगलमित्येवं परस्परस्य मर्माण्युद्घाटितवन्तौ ।
पुनर्वल्मीकस्थोऽहिरब्रवीत्-भो दुरात्मन् ! भेषजमिदं ते किं कोऽपि न जानाति यज्जीर्णोत्कालित-काञ्जिका-राजिका-पानेन भवान्विनाशमुपयाति ।
अथोदरस्थोऽहिरब्रवीत्-तवाप्येतद्भेषजं किं कश्चिदपि न वेत्ति यदुष्ण-तैलेन महोष्णोदकेन वा तव विनाशः स्यादिति । एवं च सा राज-कन्या विटपान्तरिता तयोः परस्परालापान्मर्म-मयानाकर्ण्य तथैवानुष्ठितवती ।
विधाय व्यङ्गं नीरोगं भर्तारं निधिं च परममासाद्य स्वदेशाभिमुखं प्रायात् । पितृ-मातृ-स्वजनैः प्रतिपूजिता विहितोपभोगं प्राप्य सुखेनावस्थिता । अतोऽहं ब्रवीमि-परस्परस्य मर्माणि इति ।
तच्च श्रुत्वा स्वयमरिर्दनोऽप्येवं समर्थितवान् । तथा चानुष्ठितम् । दृष्ट्वान्तर्-लीनं विहस्य रक्ताक्षः पुनरब्रवीत्-कष्टम् । विनाशितोऽयं भवद्भिरन्यायेन स्वामी । उक्तं च—
PT 3.389 अनुष्टुप्
अपूज्या यत्र पूज्यन्ते पूज्यानां तु विमानना । त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयम् ॥
← Previous (Ch. 2) Full Table of Contents Next (Ch. 4) →