अथेदमारभते लब्ध-प्रणाशं नाम चतुर्थं तन्त्रम् । यस्यायमादिमः श्लोकः—
समुत्पन्नेषु कार्येषु बुद्धिर्यस्य न हीयते । स एव दुर्गं तरति जलस्थो वानरो यथा ॥
तद्यथानुश्रूयते- प्रस्तावना-कथा वानर-मकर-वृत्तान्तः
अस्ति कस्मिंश्चित्समुद्रोपकण्ठे महान्जम्बू-पादपः सदा-फलः । तत्र च रक्तमुखो नाम वानरः प्रतिवसति स्म । तत्र च तस्य तरोरधः कदाचित्करालमुखो नाम मकरः समुद्र-सलिलान्निष्क्रम्य सुकोमल-बालुका-सनाथे तीरोपान्ते न्यविशत । ततश्च रक्तमुखेन स प्रोक्तः-भोः ! भवान्समभ्यागतोऽतिथिः । तद्भक्षयतु मया दत्तान्यमृत-तुल्यानि जम्बू-फलानि । उक्तं च—
प्रियो वा यदि वा द्वेष्यो मूर्खो वा यदि पण्डितः । वैश्वदेवान्तमापन्नः सोऽतिथिः स्वर्ग-सङ्क्रमः ॥
न पृच्छेच्चरणं गोत्रं न च विद्यां कुलं न च । अतिथिं वैश्वदेवान्ते श्राद्धे च मनुरब्रवीत् ॥
दूर-मार्ग-श्रम-श्रान्तं वैश्वदेवान्तमागतम् । अतिथिं पूजयेद्यस्तु स याति परमां गतिम् ॥
अपूजितोऽतिथिर्यस्य गृहाद्याति विनिःश्वसन् । गच्छन्ति पितरस्तस्य विमुखाः सह दैवतैः ॥
एवमुक्त्वा तस्मै जम्बू-फलानि ददौ । सोऽपि तानि भक्षयित्वा तेन सह चिरं गोष्ठी-सुखमनुभूय भूयोऽपि स्व-भवनमगात् । एवं नित्यमेव तौ वानर-मकरौ जम्बू-च्छाया-स्थितौ विविध-शास्त्र-गोष्ठ्या कालं नयन्तौ सुखेन तिष्ठतः । सोऽपि मकरो भक्षित-शेषाणि जम्बू-फलानि गृहं गत्वा स्व-पत्न्यै प्रयच्छति । अथान्यतमे दिवसे तया स पृष्टः-नाथ ! क्वैवंविधान्यमृत-फलानि प्राप्नोषि ?
स आह—भद्रे ! ममास्ति परम-सुहृद्रक्तमुखो नाम वानरः । स प्रीति-पूर्वकमिमानि फलानि प्रयच्छति ।
अथ तयाभिहितम्-यः सर्वदैवामृत-प्रायाणीदृशानि फलानि भक्षयति, तस्य हृदयममृत-मयं भविष्यति । तद्यदि भार्यया ते प्रयोजनं, ततस्तस्य हृदयं मह्यं प्रयच्छ । येन तद्भक्षयित्वा जरा-मरण-रहिता त्वया सह भोगान्भुनज्मि ।
स आह—भद्रे ! मा मैवं वद । यतः स प्रतिपन्नोऽस्माकं भ्राता । अपरं फल-दाता । ततो व्यापादयितुं न शक्यते । तत्त्यजैनं मिथाग्रहणम् । उक्तं च—
एकं प्रसूयते माता द्वितीयं वाक्प्रसूयते । वाग्-जातमधिकं प्रोचुः सोदर्यादपि बान्धवात् ॥
अथ मकर्याह-त्वया कदाचिदपि मम वचनं नान्यथा कृतम् । तन्नूनं सा वानरी भविष्यति, यतस्तस्या अनुरागतः सकलमपि दिनं तत्र गमयसि । तत्त्वं ज्ञातो मया सम्यक् । यतः—
साह्लादं वचनं प्रयच्छति न मे नो वाञ्छितं किञ्चन प्रायः प्रोच्छ्वसिषि द्रुतं हुतवह-ज्वाला समं रात्रिषु । कण्ठाश्लेष-परिग्रहे शिथिलता यन्नादराच्चुम्बसे तत्ते धूर्त हृदि स्थिता प्रियतमा काचिन्ममेवापरा ॥
सोऽपि पत्न्याः पादोपसङ्ग्रहं कृत्वाङ्कोपरि निधाय तस्याः कोप-कोटिमापन्नायाः सुदीनमुवाच—
मयि ते पाद-पतिते किङ्करत्वमुपागते । त्वं प्राण-वल्लभे कस्मात्कोपने कोपमेष्यसि ॥
सापि तद्-वचनमाकर्ण्याश्रु-प्लुत-मुखी तमुवाच—
सार्धं मनोरथ-शतैस्तव धूर्त कान्ता सैव स्थिता मनसि कृत्रिम-भाव-रम्या । अस्माकमस्ति न कथञ्चिदिहावकाशं तस्मात्कृतं चरण-पात-विडम्बनाभिः ॥
अपरं सा यदि तव वल्लभा न भवति, तत्किं मया भणितोऽपि तां न व्यापादयसि । अथ यदि स वानरस्तत्कस्तेन सह तव स्नेहः ? तत्किं बहुना ? यदि तस्य हृदयं न भक्षयामि, तन्मया प्रायोपवेशनं कृतं विद्धि ।
एवं तस्यास्तन्निश्चयं ज्ञात्वा चिन्ता-व्याकुलित-हृदयः स प्रोवाच-अथवा साध्विदमुच्यते—
वज्र-लेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस्तु मीनानां नीली-मद्य-पयोस्तथा ॥
तत्किं करोमि ? कथं स मे वध्यो भवति । इति विचिन्त्य वानर-पार्श्वमगमत् । वानरोऽपि चिरादायान्तं तं सोद्वेगमवलोक्य प्रोवाच-भो मित्र ! किमद्य चिर-वेलायां समायातोऽसि ? कस्मात्साह्लादं नालपसि ? न सुभाषितानि पठसि ।
स आह—मित्र !अहं तव भ्रातृ-जायया निष्ठुरतरैर्वाक्यैरभिहितः-भोः कृतघ्न ! मा मे त्वं स्वमुखं दर्शय, यतस्त्वं प्रतिदिनं मित्रमुपजीवसि । न च तस्य पुनः प्रत्युपकारं गृह-दर्शन-मात्रेणापि करोषि । तत्ते प्रायश्चित्तमपि नास्ति । उक्तं च—
ब्रह्मघ्ने च सुरापे च चौरे भग्न-व्रते शठे । निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥
तत्त्वं मम देवरं गृहीत्वाद्य प्रत्युपकारार्थं गृहमानय । नो चेत्त्वया सह मे पर-लोके दर्शनमिति । तदहं तयैवं प्रोक्तस्तव सकाशमागतः । तदद्य तया सह त्वद्-अर्थे कलहायतो ममेयती वेला विलग्ना । तदागच्छ मे गृहम् । तव भ्रातृ-पत्नी रचित-चतुष्का प्रगुणित-वस्त्र-मणि-माणिक्याद्य्-उचिताभरणा द्वार-देश-बद्ध-वन्दन-माला सोत्कण्ठा तिष्ठति । मर्कट आह—भो मित्र ! युक्तमभिहितं मद्-भ्रातृ-पत्न्या । उक्तं च—
वर्जयेत्कौलिकाकारं मित्रं प्राज्ञतरो नरः । आत्मनः सम्मुखं नित्यं य आकर्षति लोलुपः ॥
तथा च—
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्-विधं प्रीति-लक्षणम् ॥
परं वयं वनचराः युष्मदीयं च जलान्ते गृहम् । तत्कथं शक्यते तत्र गन्तुम् । तस्मात्तामपि मे भ्रातृ-पत्नीमत्रानय येन प्रणम्य तस्या आशीर्वादं गृह्णामि ।