किं क्रन्दसि दुराक्रन्द स्व-पक्ष-क्षय-कारक । स्व-पक्षस्य क्षये जाते को नस्त्राता भविष्यति ॥
तदद्यापि विचिन्त्यतामात्मनो निष्क्रमणमस्य वधोपायश्च । अथ गच्छता कालेन सकलमपि कवलितं मण्डूक-कुलम् । केवलमेको गङ्गदत्तस्तिष्ठति । ततः प्रियदर्शनेन भणितम्-भोः गङ्गदत्त ! बुभुक्षितोऽहम् । निःशेषिताः सर्वे मण्डूकाः । तद्दीयतां मे किञ्चिद्भोजनं यतोऽहं त्वयात्रानीतः ।
स आह—भो मित्र ! न त्वयात्र विषये मयावस्थितेन कापि चिन्ता कार्या । तद्यदि मां प्रेषयति ततोऽन्य-कूप-स्थानपि मण्डूकान्विश्वास्यात्रानयामि ।
स आह—मम तावत्त्वमभक्ष्यो भ्रातृ-स्थाने । तद्यद्येवं करोषि तत्साम्प्रतं पितृ-स्थाने भवसि । तदेवं क्रियतामिति ।
सोऽपि तदाकर्ण्यार-घट्ट-घटिकामाश्रित्य विविध-देवतोपकल्पित-पूजोपयाचितस्तत्-कूपाद्विनिष्क्रान्तः । प्रियदर्शनोऽपि तद्-आकाङ्क्षया तत्रस्थः प्रतीक्षमाणस्तिष्ठति । अथ चिरादनागते गङ्गदत्ते प्रियदर्शनोऽन्य-कोटर-निवासिनीं गोधामुवाच-भद्रे ! क्रियतां स्तोकं साहाय्यम् । यतश्चिर-परिचितस्ते गङ्गदत्तः । तद्गत्वा तत्-सकाशं कुत्रचिज्जलाशयेऽन्विष्य मम सन्देशं कथय । येनागम्यतामेकाकिनापि भवता द्रुततरं यद्यन्ये मण्डूका नागच्छन्ति । अहं त्वया विना नात्र वस्तुं शक्नोमि । तथा यद्यहं तव विरुद्धमाचरामि तत्सुकृतमन्तरे मया विधृतम् ।
गोधापि तद्-वचनाद्गङ्गदत्तं द्रुततरमन्विष्याह-भद्र गङ्गदत्त ! स तव सुहृत्-प्रियदर्शनस्तव मार्गं समीक्षमाणस्तिष्ठति । तच्छीघ्रमागम्यतामिति ।
अपरं च तेन तव विरूप-करणे सुकृतमन्तरे धृतम् । तन्-निःशङेन मनसा समागम्यताम् । तदाकर्ण्य गङ्गदत्त आह—
बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे प्रिय-दर्शनस्य न गङ्गदत्तः पुनरेति कूपम् ॥
एवमुक्त्वा स तां विसर्जयामास ।
तद्भो दुष्ट-जलचर !अहमपि गङ्गदत्त इव त्वद्-गृहे न कथञ्चिदपि यास्यामि ।
तच्छ्रुत्वा मकर आह—भो मित्र !अथवात्राहमनशनात्प्राण-त्यागं तवोपरि करिष्यामि ।
वानर आह—मूढ ! किमहं लम्बकर्णो मूर्खः ? दृष्ट्वापायोऽपि स्वयमेव तत्र गत्वात्मानं व्यापादयामि ।
आगतश्च गतश्चैव गत्वा यः पुनरागतः । अकर्ण-हृदयो मूर्खस्तत्रैव निधनं गतः ॥
मकर आह—भद्र ! स को लम्भ-कर्णः । कथं दृष्टापायोऽपि मृतः ? तन्मे निवेद्यताम् । वानर आह— कथा २ कराल-केसर-कथा
कस्मिंश्चिद्वनोद्देशे कराल-केसरो नाम सिंहः प्रतिवसति स्म । तस्य च धूसरको नाम शृगालः सदैवानुयायी परिचारकोऽस्ति । अथ कदाचित्तस्य हस्तिना सह युध्यमानस्य शरीरे गुरुतराः प्रहाराः सञ्जाताः । यैः पदमेकमपि चलितुं न शक्नोति । तस्याचलनाच्च धूसरकः क्षुत्क्षाम-कण्ठो दौर्बल्यं गतः । अन्यस्मिन्नहनि तमवोचत्-स्वामिन् ! बुभुक्षय पीडितोऽहम् । पदात्पदमपि चलितुं न शक्नोमि । तत्कथं ते शुश्रूषां करोमि ?
सिंह आह—भोः ! गच्छ अन्वेषय किञ्चित्सत्त्वम् । येनेमामवस्थां गतोऽपि व्यापादयामि ।
तदाकर्ण्य शृगालोऽन्वेषयन्कञ्चित्समीप-वर्तिनं ग्राममासादितवान् । तत्र लम्बकर्णो नाम गर्दभस्तडागोपान्ते प्रविरल-दूर्वाङ्कुरान्कृच्छ्रादास्वादयन्दृष्टः । ततश्च समीप-वर्तिना भूत्वा तेनाभिहितः-माम ! नमस्कारोऽयं मदीयः सम्भाव्यताम् । चिराद्दृष्टोऽसि । तत्कथय किमेवं दुर्बलतां गतः ।
स आह—भो भगिनी-पुत्र ! किं कथयामि । रजकोऽतिनिर्दयातिभारेण मां पीडयति । घास-मुष्टिमपि न प्रयच्छति । केवलं दूर्वाङ्कुरान्धूइ-मिश्रितान्भक्षयामि । तत्कुतो मे शरीरे पुष्टिः ?
शृगाल आह—माम ! यद्येवं तदस्ति मरकत-सदृश-शष्प-प्रायो नदी-सनाथो रमणीयतरः प्रदेशः । तत्रागत्य मया सह सुभाषित-गोष्ठी-सुखमनुभवंस्तिष्ठ ।
लम्बकर्ण आह—भो भगिनी-सुत ! युक्तमुक्तं भवता । परं वयं ग्राम्याः पशवोऽरण्य-चारिणां वध्याः । तत्किं तेन भव्य-प्रदेशेन ।
शृगाल आह— माम ! मैवं वद । मद्-भुज-पञ्जर-परिरक्षितः स देशः । तत्रास्ति न कश्चिदपरस्य तत्र प्रवेशः । परममनेनैव दोषेण रजक-कदर्थितास्तत्र तिस्रो रासभ्योऽनाथाः सन्ति । ताश्च पुष्टिमापन्ना यौवनोत्कटा इदं मामूचुः-यदि त्वमस्माकं सत्यो मातुलस्तदा कंचिद्ग्रामान्तरं गत्वास्मद्-योग्यं कश्चित्पतिमानय । तद्-अर्थे त्वामहं तत्र नयामि ।
अथ शृगाल-वचनानि श्रुत्वा काम-पीडिताङ्गस्तमवोचत्-भद्र ! यद्येवं तद्-अग्रे भव येनागच्छामि । अथवा साध्विदमुच्यते—
नामृतं न विषं किञ्चिदेकां मुक्त्वा नितम्बिनीम् । यस्याः सङ्गेन जीव्येत म्रियते च वियोगतः ॥
तथा च—
यासां नाम्नापि कामः स्यात्सङ्गमं दर्शनं विना । तासां दृक्-सङ्गमं प्राप्य यन्न द्रवति कौतुकम् ॥
तत्रानुष्ठिते शृगालेन सह सिंहान्तिकमागतः । सिंहोऽपि व्यथाकुलितस्तं दृष्ट्वा यावत्समुत्तिष्ठति तावद्रासभः पलायितुमारब्धवान् । अथ तस्य पलायमानस्य सिंहेन तल-प्रहारो दत्तः । स च मन्द-भाग्यस्य व्यवसाय इव व्यर्थतां गतः । अत्रान्तरे शृगालः कोपाविष्टस्तमुवाच-भोः ! किमेवंविधः प्रहारस्ते । यद्गर्दभोऽपि तव पुरतो बलाद्गच्छति । तत्कथं गजेन सह युद्धं करिष्यसि ? तद्दृष्टं ते बलम् ।
अथ सविलक्ष-स्मितं सिंह आह—भोः ! किमहं करोमि । मया न क्रमः सज्जीकृत आसीत् । अन्यथा गजोऽपि मत्-क्रमाक्रान्ता न गच्छति ।
शृगाल आह—अद्याप्येक-वारं तवान्तिके तमानेष्यामि । परं त्वया सज्जीकृत-क्रमेण स्थातव्यम् ।
सिंह आह—भद्र ! यो मां प्रत्यक्षं दृष्ट्वा गतः स पुनः कथमत्रागमिष्यति ? तदन्यत्किमपि सत्त्वमन्विष्यताम् ।
शृगाल आह—किं तवानेन व्यापारेण ? त्वं केवलं सज्जित-क्रमस्तिष्ठ ।