Skip to main content
Search
PT
Pañcatantram • Chapter 04

Canto 4

चतुर्थं तन्त्रम् (लब्ध-प्रणाशम्)

Canto 4 of Pañcatantram.

Total: 327 Verses • Citations: PT 4.1–327 • 1 Lexicon Terms • Page 2 of 11 (Verses 30 shown)
स आह—भो मित्र !अस्ति समुद्रान्तरे सुरम्ये पुलिन-प्रदेशेऽस्मद्-गृहम् æ तन्मम पृष्ठमारूधः सुखेनाकृत-भयो गच्छ ।
सोऽपि तच्छ्रुत्वा सानन्दमाह-भद्र ! यद्येवं तत्किं विलम्ब्यते । त्वर्यताम् । एषोऽहं तव पृष्ठामारूढः ।
तथानुष्ठितेऽगाधे जलधौ गच्छन्तं मरकमालोक्य भय-त्रस्त-मना वानरः प्रोवाच-भ्रातः ! शनैः शनैर्गम्यताम् । जल-कल्लोलैः प्लाव्यते मे शरीरम् ।
तदाकर्ण्य मकरश्चिन्तयामास-असावगाधं जलं प्राप्तो मे वशः सञ्जातः । मत्-पृष्ठ-गतस्तिल-मात्रमपि चलितुं न शक्नोति । तस्मात्कथयाम्यस्य निजाभिप्रायम्, येनाभीष्ट-देवता-स्मरणं करोति । आह च-मित्र, त्वं मया वधाय समानीतो भार्या-वाक्येन विश्वास्य । तत्स्मर्यतामभीष्ट-देवता ।
स आह—भ्रातः ! किं मया तस्यास्तवापि चापकृतं येन मे वधोपायश्चिन्तितः ?
मकर आह—भोः ! तस्यास्तावत्तव हृदयस्यामृतमय-फल-रसास्वादन-मृष्टस्य भक्षणे दोहदः सञ्जातः । तेनैतदनुष्ठितम् ।
प्रत्युत्पन्न-मतिर्वानर आह—भद्र ! यद्येवं तत्किं त्वया मम तत्रैव न व्याहृतम् ? येन स्व-हृदयं जम्बू-कोटरे सदैव मया सुगुप्तं कृतम् । तद्भ्रातृ-पत्न्या अर्पयामि । त्वयाहं शून्य-हृदयोऽत्र कस्मादानीतः ?
तदाकर्ण्य मकरः सानन्दमाह-भद्र ! यद्येवं तदर्पय मे हृदयम् । येन सा दुष्ट-पत्नी तद्भक्षयित्वानशनादुत्थिष्ठति । अहं त्वां तमेव जम्बू-पादपं प्रापयामि । एवमुक्त्वा निवर्त्य जम्बू-तलमगात् । वानरोऽपि कथमपि जल्पित-विविध-देवतोपचार-पूजस्तीरमासादितवान् । ततश्च दीर्घतर-चङ्क्रमणेन तमेव जम्बू-पादपमारूढश्चिन्तयामास-अहो ! लब्धास्तावत्प्राणाः । अथवा साध्विदमुच्यते—
PT 4.39 अनुष्टुप्
न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥
तन्ममैतदद्य पुनर्जन्म-दिनमिव सञ्जातम् ।
इति चिन्तयमानं मकर आह—भो मित्र !अर्पय तद्धृदयं यथा ते भ्रातृ-पत्नी भक्षयित्वानशनादुत्तिष्ठति ।
अथ विहस्य निर्भर्त्सयन्वानरस्तमाह-धिग्धिङ्मूर्ख विश्वास-घातक ! किं कस्यचिद्धृदय-द्वयं भवति ? तदाशु गम्यतां जम्बू-वृक्षस्याधस्तान्न भूयोऽपि त्वयात्रागन्तव्यम् । उक्तं च यतः—
PT 4.43 अनुष्टुप्
सकृद्दुष्टं च यो मित्रं पुनः सन्धातुमिच्छति । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥
तच्छ्रुत्वा मकरः संविलक्षं चिन्तितवान्-अहो ! मयातिमूढेन किमस्य स्व-चित्ताभिप्रायो निवेदितः । तद्यद्यसौ पुनरपि कथञ्चिद्विश्वासं गच्छति, तद्भूयोऽपि विश्वासयामि । आह च-मित्र ! हास्येन मया तेऽभिप्रायो लब्धः । तस्या न किञ्चित्तव हृदयेन प्रयोजनम् । तदागच्छ प्राघुणिक-न्यायेनास्मद्-गृहम् ।
वानर आह—भो दुष्ट ! गम्यताम् । अधुना नाहमागमिष्यामि । उक्तं च—
PT 4.46 उपजातिः
बुभुक्षितः किं न करोति पापं क्षीणा जना निष्करुणा भवन्ति । आख्याहि भद्रे प्रिय-दर्शनस्य न गङ्गदत्तः पुनरेति कूपम् ॥
कथा १ गङ्गदत्त-प्रियदर्शन-कथा
कस्मिंश्चित्कूपे गङ्गदत्तो नाम मण्डूक-राजः प्रतिवसति स्म । स कदाचिद्दायादैरुद्वेजितोऽरघट्ट-घटीमारुह्य निष्क्रान्तः । अथ तेन चिन्तितम्-यत्कथं तेसां दायादानां मया प्रत्यपकारः कर्तव्यः । उक्तं च—
PT 4.51 आर्या (१२, १८, १२, १५)
आपदि येनापकृतं येन च हसितं दशासु विषमासु । अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥
एवं चिन्तयन्बिले प्रविशन्तं कृष्णसर्पमपश्यत् । तं दृष्ट्वा भूयोऽप्यचिन्तयत्-यदेनं तत्र कूपे नीत्वा सकल-दायादानामुच्छेदं करोमि । उक्तं च—
PT 4.53 अनुष्टुप्
शत्रुभिर्योजयेच्छत्रुं बलिना बलवत्तरम् । स्व-कार्याय यतो न स्यात्काचित्पीडात्र तत्-क्षये ॥
PT 4.55 अनुष्टुप्
शत्रुमुन्मूलयेत्प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुणा । व्यथा-करं सुखार्थाय कण्टकेनैव कण्टकम् ॥
एवं स विभाव्य बिल-द्वारं गत्वा तमाहूतवान्-एह्येहि प्रिय-दर्शन !एहि !
तच्छ्रुत्वा सर्पश्चिन्तयामास-य एवं मामाह्वयति । स्वजातीयो न भवति । यतो नैषा सर्प-वाणी । अन्येन केनापि सह मम मर्त्य-लोके सन्धानं नास्ति । तदत्रैव दुर्गे स्थितस्तावद्वेद्मि कोऽयं भविष्यति । उक्तं च—
PT 4.58 अनुष्टुप्
यस्य न जायते शीलं न कुलं न च संश्रयः । न तेन सङ्गतिं कुर्यादित्युवाच बृहस्पतिः ॥
कदाचित्कोऽपि मन्त्रवाद्यौषध-चतुरो वा मामाहूय बन्धने क्षिपति । अथवा कश्चित्पुरुषो वैरमाश्रित्य कस्यचिद्भक्षणार्थे मामाह्वयति । आह च-भोः ! को भवान् ?
स आह—अहं गङ्गदत्तो नाम मण्डूकाधिपतिस्त्वत्-सकाशे मैत्र्य्-अर्थमभ्यागतः ।
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →