Skip to main content
Search
PT
Pañcatantram • Chapter 02

Canto 2

द्वितीयं तन्त्रम् (मित्र-सम्प्राप्तिः)

Canto 2 of Pañcatantram.

Total: 451 Verses • Citations: PT 2.1–451 • 1 Lexicon Terms • Page 11 of 16 (Verses 30 shown)
PT 2.301 अनुष्टुप्
निर्दोषमपि वित्ताढ्य दोषैर्योजयते नृपः । निधनः प्राप्त-दोषोऽपि सर्वत्र निरुपद्रवः ॥
PT 2.302 अनुष्टुप्
अर्थानामर्जनं कार्यं वर्धनं रक्षणं तथा । भक्ष्यमाणो निरादायः सुमेरुरपि हीयते ॥
PT 2.303 अनुष्टुप्
अर्थार्थी यानि कष्टानि मूढोऽयं सहते जनः । शतांशेनापि मोक्षार्थी तानि चेन्मोक्षमाप्नुयात् ॥
PT 2.304 शार्दूलविक्रीडितम्
को धीरस्य मनस्विनः स्व-विषयः को वा विदेशः स्मृतो यं देशं श्रयते तमेव कुरुते बाहु-प्रतापार्जितम् । यद्दंष्ट्रानखलाङ्गुल-प्रहरणैः सिंहो वनं गाहते तस्मिनेव हत-द्विपेन्द्र-रुधिरैस्तृष्णां छिनत्त्यात्मनः ॥
अर्थ-हीनः परे देशे गतोऽपि यः प्रज्ञावान्भवति स कथञ्चिदपि न सीदति । उक्तं च—
PT 2.306 अनुष्टुप्
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सुव्द्यानां कः परः प्रिय-वादिनाम् ॥
तत्प्रज्ञा-निधिर्भवान्न प्राकृत-पुरुष-तुल्यः । अथवा—
PT 2.308 उपजातिः
उत्साह-सम्पन्नमदीर्घ-सूत्रं क्रिया-विधिज्ञं व्यसनेष्वसक्तम् । शूरं कृतज्ञं दृढ-सौहृदं च- लक्ष्मीः स्वयं वाञ्छति वास-हेतोः ॥
अपरं प्राप्तोऽप्यर्थः कर्म-प्राप्त्या नश्यति । तदेतावन्ति दिनानि त्वदीयमासीत् । मुहूर्तमप्यनात्मीयं भोक्तुं न लभ्यते । स्वयमागतमपि विधिनापह्रियते ।
PT 2.310 अनुष्टुप्
अर्थस्योपार्जनं कृत्वा नैवाभाग्यः समश्नुते । अरण्यं महदासाद्य मूढः सोमिलको यथा ॥
अस्ति कस्मिंश्चिदधिष्ठाने सोमिलको नाम कौलिको वसति स्म । सोऽनेक-विध-पट्ट-रचनारञ्जितानि पार्थिवोचितानि सदैव वस्त्राण्युत्पादयति । परं तस्य चानेक-विध-पट्ट-रचन-निपुणस्यापि न भोजनाच्छादनाभ्यधिकं कथमप्यर्थ-मात्रं सम्पद्यते । अथान्ये तत्र सामान्य-कौलिकाः स्थूल-वस्त्र-सम्पादन-विज्ञानिनो महर्धि-सम्पन्नाः । तानवलोक्य स स्व-भार्यामाह-प्रिये ! पश्यैतान्स्थूल-पट्ट-कारकान्धन-कनक-समृद्धान् । तदधारणकं ममैतत्स्थानम् । तदन्यत्रोपार्जनाय गच्छामि । सा प्राह-भोः प्रियतम ! मिथ्या प्रलपितमेतद्यदन्यत्र-गतानां धनं भवति, स्व-स्थाने न भवति । उक्तं च—
PT 2.314 अनुष्टुप्
उत्पतन्ति यदाकाशे निपतन्ति महीतले । पक्षिणां तदपि प्राप्त्या नादत्तमुपतिष्ठति ॥
PT 2.316 आर्या (१२, १८, १२, १५)
न हि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । कर-तल-गतमपि नश्यति यस्य तु भवितव्यता नास्ति ॥
PT 2.317 अनुष्टुप्
यथा धेनु-सहस्रेषु वत्सो विन्दति मातरं । तथा पूर्व-कृतं कर्म कर्तारमनुगच्छति ॥
PT 2.318 अनुष्टुप्
शेते सह शयानेन गच्छन्तमनुगच्छति । नराणां प्राक्तनं कर्म तिष्ठति तु सहात्मना ॥
PT 2.319 अनुष्टुप्
यथा छाया-तपौ नित्यं सुसम्बद्धौ परस्परं । एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ॥
कौलिक आह—प्रिये ! न सम्यगभिहितं भवत्या । व्यवसायं विना न कर्म फलति । उक्तं च—
PT 2.321 अनुष्टुप्
यथैकेन न हस्तेन तालिका संप्रपद्यते । तथोद्यम-परित्यक्तं न फलं कर्मणः स्मृतम् ॥
PT 2.322 अनुष्टुप्
पश्य कर्म-वशात्प्राप्तं भोज्यकालेऽपि भोजनम् । हस्तोद्यमं विना वक्त्रे प्रविशेन्न कथञ्चन ॥
PT 2.323 वसन्ततिलका
तथा च- उद्योगिनं पुरुष-सिंहमुपैति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्म-शक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥
तथा च-उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य विशन्ति वदने मृगाः ॥
PT 2.325 अनुष्टुप्
स्व-शक्त्या कुर्वतः कर्म न चेत्सिद्धिं प्रयच्छति । नोपालभ्यः पुमांस्तत्र दैवान्तरित-पौरुषः ॥
तन्मयावश्यं देशान्तरं गन्तव्यम् ।
इति निश्चित्य वर्धमान-पुरं गत्वा तत्र वर्ष-त्रयं स्थित्वा सुवर्ण-शत-त्रयोपार्जनं कृत्वा भूयः स्व-गृहं प्रस्थितः । अथार्ध-पथे गच्छतस्तस्य कदाचिदटव्यां पर्यटतो भगवान्रविरस्तमुपागतः । तत्र च व्याल-भयात्स्थूलतर-वट-स्कन्ध आरूह्य प्रसुप्तो यावत्तिष्ठति तावन्निशीथे द्वौ पुरुषौ रौद्राकारौ परस्परं जल्पन्तावशृणोत् ।
तत्रैक आह—भोः कर्तः त्वं किं सम्यङ्न वेत्सि यदस्य सोमिलकस्य भोजनाच्छादनाद् ऋतेऽधिका समृद्धिर्नास्ति । तत्किं त्वयास्य सुवर्ण-शत-त्रयं दत्तम् ।
स आह—भोः कर्मन्मयावश्यं दातव्यं व्यवसायिनां तत्र च तस्य परिणतिस्त्वदायत्तेति । अथ यावदसौ कौलिकः प्रबुद्धः सुवर्ण-ग्रन्थिमवलोकयति तावद्रिक्तं पश्यति ।
ततः साक्षेपं चिन्तयामास । अहो किमेतत् ? महता कष्टेनोपार्जितं वित्तं हेलया क्वापि गतम् । यद्व्यर्थ-श्रमोऽकिञ्चनः कथं स्व-पत्न्या मित्राणां च मुखं दर्शयिष्यामि । इति निश्चित्य तदेव पत्तनं गतः । तत्र च वर्ष-मात्रेणापि सुवर्ण-शत-पञ्चकमुपार्ज्य भूयोऽपि स्व-स्थानं प्रति प्रस्थितः । यावदर्ध-पथे भूयोऽटवी-गतस्य भगवान्भानुरस्तंजगामाथ सुवर्ण-नाश-भयात्सुश्रान्तोऽपि न विश्राम्यति केवलं कृत-गृहोत्कण्ठः सत्वरं व्रजति । अत्रान्तरे द्वौ पुरुषौ तादृषौ दृष्टि-देशे समागच्छन्तौ जल्पन्तौ च शृणोति । तत्रैकः प्राह-भोः कर्तः ! किं त्वयैतस्य सुवर्ण-शत-पञ्चकं दत्तम् ? तत्किं न वेत्सि यद्भोजनाच्छादनाभ्यधिकमस्य किंचिन्नास्ति ।
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →