Skip to main content
Search
Ch. 2 PT 2.313
Full Chapter
PT • Chapter 2: Canto 2

PT 2.313

Canonical Ref: PT 2.313
Sanskrit (Devanāgarī)
अस्ति कस्मिंश्चिदधिष्ठाने सोमिलको नाम कौलिको वसति स्म । सोऽनेक-विध-पट्ट-रचनारञ्जितानि पार्थिवोचितानि सदैव वस्त्राण्युत्पादयति । परं तस्य चानेक-विध-पट्ट-रचन-निपुणस्यापि न भोजनाच्छादनाभ्यधिकं कथमप्यर्थ-मात्रं सम्पद्यते । अथान्ये तत्र सामान्य-कौलिकाः स्थूल-वस्त्र-सम्पादन-विज्ञानिनो महर्धि-सम्पन्नाः । तानवलोक्य स स्व-भार्यामाह-प्रिये ! पश्यैतान्स्थूल-पट्ट-कारकान्धन-कनक-समृद्धान् । तदधारणकं ममैतत्स्थानम् । तदन्यत्रोपार्जनाय गच्छामि । सा प्राह-भोः प्रियतम ! मिथ्या प्रलपितमेतद्यदन्यत्र-गतानां धनं भवति, स्व-स्थाने न भवति । उक्तं च—
Canonical CTS URN Reference
Pañcatantram, PT 2.313. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (PT 2.312) All Verses in Chapter 2 Next Verse (PT 2.314) →