Skip to main content
Search
Ch. 2 PT 2.450
Full Chapter
PT • Chapter 2: Canto 2

PT 2.450

Canonical Ref: PT 2.450
Sanskrit (Devanāgarī)
एवं बहु-विधं विलप्य स्व-गृहं गतः । अथ तस्मिन्दूरी-भूते सर्वेऽपि ते काक-कूर्म-मृगाखवः परमानन्द-भाजो मिलित्वा परस्परमालिङ्ग्य पुनर्जातानिवात्मनो मन्यमानस्तदेव सरः प्राप्य महा-सुखेन सुभाषित-गोष्ठी-विनोदं कुर्वन्तः कालं नयन्ति स्म । एवं ज्ञात्वा विवेकिना मित्र-सङ्ग्रहः कार्यः । तथा मित्रेण सहाव्याजेन वर्तितव्यम् । उक्तं च—
Canonical CTS URN Reference
Pañcatantram, PT 2.450. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (PT 2.449) All Verses in Chapter 2 Next Verse (PT 2.451) →